{अथाष्टषष्ट्यधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
आत्यन्तिकलयगर्भोत्पत्तिनिरूपणं
अग्निर् उवाच
आत्यन्तिकं लयं वक्ष्ये ज्ञानादात्यन्तिको लयः ।
आध्यात्मिकादिसन्तापं ज्ञात्वा स्वस्य विरागतः ॥००१॥
मूलम्

[[३०१]]
विश्वास-प्रस्तुतिः
आध्यात्मिकस्तु सन्तापःशारीरो मानसो द्विधा ।
शारीरो बहुभिर्भेदैस्तापो ऽसौ श्रूयतां द्विज ॥००२॥

त्यक्त्वा जीवो भोगदेहं गर्भमाप्रोति कर्मभिः ।
आतिवाहिकसञ्ज्ञस्तु देहो भवति वै द्विज ॥००३॥

केवलं स मनुष्याणां मृत्युकाल उपस्थिते ।
याम्यैः पुम्भिर्मनुष्याणां तच्छरीरं द्विजोत्तमाः ॥००४॥

नीयते याम्यमार्गेण प्राणिनां मुने ।
ततः स्वर्याति नरकं स भ्रमेद्घटयन्त्रवत् ॥००५॥

कर्मभूमिरियं ब्रह्मन् फलभूमिरसौ स्मृता ।
यमो योनीश् च नरकं निरूपयति कर्मणा ॥००६॥

पूरणीयाश् च तेनैव यमञ्चैवानुपश्यतां ।
वायुभूताः प्राणिनश् च गर्भन्ते प्राप्नुवन्ति हि ॥००७॥

यमदूतैर् मनुष्यस्तु नीयते तञ्च पश्यति ।
धर्मी च पूज्यते तेन पापिष्ठस्ताड्यते गृहे ॥००८॥

शुभाशुभं कर्म तस्य चित्रगुप्तो निरूपयेत् ।
बान्धवानामशौचे तु देहे खल्वातिवाहिके ॥००९॥

तिष्ठन्नयति धर्मज्ञ दत्तपिण्डाशनन्ततः ।
तन्यक्त्वा प्रेतदेहन्तु प्राप्यान्यं प्रेतलोकतः1 ॥०१०॥

वसेत् क्षुधा तृषा युक्त आमश्राद्धान्नभुङ्नरः ।
आतिवाहिकेदेहात्तु प्रेतपिण्डैर् विना नरः ॥०११॥

न हि मोक्षमवाप्नोति पिण्डांस्तत्रैव सो ऽश्रुते ।
कृते सपिण्डीकरणे नरः संवत्सरात्परं ॥०१२॥

:न्
[[३०२]]
विश्वास-प्रस्तुतिः
प्रेतदेहं समुतमृज्य भोगदेहं प्रपद्यते ।
भोगदेहावुभौ प्रोक्तावशुभशुभसञ्ज्ञितौ ॥०१३॥

भुक्त्वा तु भोगदेहेन कर्मबन्धान्निपात्यते ।
तं देहं परतस्तस्माद्भक्षयन्ति निशाचराः ॥०१४॥

पापे तिष्ठति चेत् स्वर्गं तेन भुक्तं तदा द्विज ।
तदा द्वितीयं गृह्णाति भोगदेहन्तु पापिनां ॥०१५॥

भुक्त्वा पापन्तु वै पश्चाद्येन भुक्तं त्रिपिष्टपं ।
शुचीनां श्रीमतां गेहे स्वर्गभ्रष्टो ऽभिजायते ॥०१६॥

पुण्ये तिष्ठति चेत्पापन्तेन भुक्तं तदा भवेत् ।
तस्मिन् सम्भक्षिते देहे शुभं गृह्णाति विग्रहम् ॥०१७॥

कर्मण्यल्पावशेषे तु नरकादपि मुच्यते ।
मुक्तस्तु नरकाद्याति तिर्यग्योनिं न संशयः ॥०१८॥

जीवः प्रविष्टो गर्भन्तु कलले ऽप्यत्र तिष्ठति2 ।
घनीभूतं द्वितीये तु तृतीये ऽवयवास्ततः ॥०१९॥

चतुर्थे ऽस्थीनि त्वङ्मांसम्पञ्चमे रोमसम्भवः ।
षष्ठे चेतो ऽथ जीवस्य दुःखं विन्दति सप्तमे ॥०२०॥

जरायुवेष्टिते देहे मूर्ध्नि बद्धाञ्जलिस् तथा ।
मध्ये क्लीवस्तु वामे स्त्री दक्षिणे पुरुषस्थितिः ॥०२१॥

तिष्ठत्युदरभागे तु पृष्ठस्याभिमुखस् तथा ।
यस्यां तिष्ठत्यसौ योनौ तां स वेत्ति न संशयः ॥०२२॥

[[३०३]]
विश्वास-प्रस्तुतिः
अन्धकारञ्च महतीं पीडां विन्दति मानवः ॥०२३॥

मातुराहारपीतन्तु सप्तमे मास्युपाश्नुते ।
अष्टमे नवमे मासि भृशमुद्विजत तथा ॥०२४॥

व्यवाये पीडामाप्नोति मातुर्व्यायामके तथा ।
व्याधिश् च व्याधितायां स्यान्मुहूर्तं शतवर्षवत् ॥०२५॥

सन्तप्यते कर्मभिस्तु कुरुते ऽथ मनोरथान् ।
गर्भाद्विनिर्गतो ब्रह्मन् मोक्षज्ञानं करिष्यति ॥०२६॥

सूतिवातैर् अधीभूतो निःसरेद्योनियन्त्रतः ।
पीड्यमानो मासमात्रं करस्पर्शेन दुःखितः ॥०२७॥

खशब्दात् क्षुद्रश्रोतांसि देहे श्रोत्रं विविक्तता ।
श्वासोच्छासौ गतिर्वायोर्वक्रसंस्पर्शनं तथा1 ॥०२८॥

अग्नेरूपं दर्शनं स्यादूष्मा पङ्क्तिश् च पित्तकं ।
मेधा वर्णं बलं छाया तेजः शौर्यं शरीरके ॥०२९॥

जलात्स्वेदश् च रसनन्देहे वै सम्प्रजायते ।
क्लेदो वसा रसा तक्रं शुक्रमूत्रकफादिकं ॥०३०॥

भूमेर्ध्राणं केशनखं गौरवं स्थिरतो ऽस्थितः ।
मातृजानि मृदून्यत्र त्वङ्मांसहृदयानि च ॥०३१॥

नाभिर्मज्जा2 शकृन्मेदः क्लेदान्यामाशयानि च ।
पितृजानि शिरास्नायुशुक्रञ्चैवात्मजानि तु ॥०३२॥

कामक्रोधौ भयं हर्षो धर्माधर्मात्मता तथा ।
आकृतिः स्वरवर्णौ तु मेहनाद्यं तथा च यत् ॥०३३॥

[[३०४]]
विश्वास-प्रस्तुतिः
??? ।
??? ॥०३४॥
मूलम्
??? ।
??? ॥०३४॥
विश्वास-प्रस्तुतिः
तामसानि तथाज्ञानं प्रमादालस्यतृट्क्षुधाः ।
मोहमात्सर्यवैगुण्यशोकायासभयानि च ॥०३५॥

कामक्रोधौ तथा शौर्यं यज्ञेप्सा बहुभाषिता ।
अहङ्कारः परावज्ञा राजसानि महामुने ॥०३६॥

धर्मेप्सा मोक्षकामित्वं परा भक्तिश् च केशवे ।
दाक्षिण्यं व्यवसायित्वं सात्विकानि विनिर्दिशेत् ॥०३७॥

चपलः क्रोधनो भीरुर्बहुभाषो कलिप्रियः ।
स्वप्ने गगनगश् चैव बहुवातो नरो भवेत् ॥०३८॥

अकालपलितः क्रोर्धो महाप्राज्ञो रणप्रियः ।
स्वप्ने च दीप्तिमत्प्रेक्षी बहुपित्तो नरो भवेत् ॥०३९॥

स्थिरमित्रः स्थिरोत्साहः स्थिराङ्गो द्रविणान्वितः ।
स्वप्ने जलसितालोकी बहुश्ले ष्मा नरो भवेत् ॥०४०॥

रसस्तु प्राणिनां देहे जीवनं रुधिरं तथा ।
लेपनञ्च तथा मांसमेधस्नेहकरन्तु तत् ॥०४१॥

धारणन्त्व् अस्थि मज्जा स्यात्पूरणं वीर्यवर्धनं ।
शुक्रवीर्यकरं ह्य् ओजः प्राणकृज्जीवसंस्थितिः ॥०४२॥

ओजः शुक्रात् सारतरमापीतं हृदयोपगं ।
षडङ्गशक्थिनी बाहुर्मूर्धा जठरमीरितं ॥०४३॥

षट्त्वचा वाह्यतो यद्वदन्या रुधिरधारिका ।
विलासधारिणी चान्या चतुर्थी कुण्डधारिणी ॥०४४॥

पञ्चमी विद्रधिस्थानं षष्ठी प्राणधरा मता ।
कलासप्तमौ मांसधरा द्वितीया रक्तधारिणी ॥०४५॥

[[३०५]]
विश्वास-प्रस्तुतिः
मज्जाश्लेष्मपुरीषाणां धरा पक्वाशयस्थिता ।०४६।
षष्ठी पित्तधरा शुक्रधरा शुक्राशयापरा ॥०४६॥

{इत्य् आग्नेये महापुराणे आत्यन्तिकलयगर्भोत्पत्तिनिरूपणं नामाष्टष्ट्यधिकत्रिशततमो ऽध्यायः }