{अथ सप्तषष्ट्यधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
नित्यनैमीत्तिकप्राकृतप्रलयाः
अग्निर् उवाच
चतुर्विधस्तु प्रलयो नित्यो यः प्राणिनां लयः ।
सदा विनाशो जातानां ब्राह्मो नैमित्तिको लयः ॥००१॥
मूलम्

चतुर्युगसहस्रान्ते प्राकृतः प्राकृतो लयः ।
लय आत्यन्तिको ज्ञानादात्मनः परमात्मनि ॥००२॥

नैमित्तिकस्य कल्पान्ते वक्ष्ये रूपं लयस्य ते ।
चतुर्युगसहस्रान्ते क्षीणप्राये महीतले ॥००३॥

अनावृष्टिरतीवोग्रा जायते शतवार्षिकी ।
ततः सत्त्वक्षयः स्याच्च ततो विष्णुर्जगत्पतिः ॥००४॥

स्थितो जलानि पिवति भानोः सप्तसु रश्मिषु ।
भूपातालसमुद्रादितोयं नयति सङ्क्षयं ॥००५॥

ततस्तस्यानुभावेन तोयाहारोपवृंहिताः ।
त एव रश्मयः सप्त जायन्ते सप्त भास्कराः ॥००६॥

दहन्त्य् अशेषं त्रैलोक्यं सपातालतलं द्विज ।
कूर्मपृष्ठसमा भूः स्यात्ततः कालाग्निरुद्रकः ॥००७॥

शेषाहिश्वाससम्पातात् पातालानि दहत्यधः ।
पातालेभ्यो भुवं विष्णुर्भुवः स्वर्गं दहत्यतः ॥००८॥

अम्बरीषमिवाभाति त्रैलोक्यमखिलं तथा ।
ततस्तापरीतास्तु लोकद्वयनिवासिनः ॥००९॥
मूलम्
अम्बरीषमिवाभाति त्रैलोक्यमखिलं तथा ।
ततस्तापरीतास्तु लोकद्वयनिवासिनः ॥००९॥
[[२९९]]
विश्वास-प्रस्तुतिः
गाचन्ति ते महर्लोकं महर्लोकाज्जनं ततः ।
रुद्ररूपी जगद्दग्ध्वा मुखनिश्वासतो हरेः ॥०१०॥

उत्तिष्टन्ति ततो मेधा नानारूपाः सविद्युतः ।
शतं वर्षाणि वर्षन्तः शमयन्त्यग्निमुत्थितम् ॥०११॥

सप्तर्षिस्थानमाक्रम्य स्थिते ऽम्भसि शतं मरुत् ।
मुखनिश्वासतो विष्णोर्नाशं नयति तान्घनान् ॥०१२॥

वायुं पीत्वा हरिः शेषे शेते चैकार्णवे प्रभुः ।
ब्रह्मरूपधरः सिद्धैर् जलगैर् मुनिभिस्तुतः ॥०१३॥

आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः ।
आत्मानं वसिदेवाख्यं चिन्तयन्मधुसूदनः ॥०१४॥

कल्पं शेते प्रबुद्धो ऽथ ब्रह्मरूपी सृजत्य् असौ ।
द्विपरार्धन्ततो व्यक्तं प्रकृतौ लीयते द्विज ॥०१५॥

स्थानात् स्थानं दशगुणमेकस्माद्गुण्यते स्थले ।
ततो ऽष्टादशमे भागे परार्धमभिधीयते ॥०१६॥

परार्धं द्विगुणं यत्तु प्राकृतः प्रलयः स्मृतः ।
अनावृष्ट्याग्निसम्पर्कात् कृते सञ्ज्वलने द्विज ॥०१७॥

महदादेर्विकारस्य विशेषान्तस्य सङ्क्षये ।
कृष्णेच्छाकारिते तस्मिन् सम्प्राप्ते प्रतिसञ्चरे ॥०१८॥

आपो ग्रसन्ति वै पूर्वं भूमिर्गन्धादिकं गुणं ।
आत्मगन्धात्ततो भूमिः प्रलयत्वाय कल्पते ॥०१९॥

रसात्मिकाश् च तिष्ठन्ति ह्य् आपस्तासां रसो गुणः ।
पीयते ज्योतिषा तासु नष्टास्वग्निश् च दीप्यते ॥०२०॥

[[३००]]
विश्वास-प्रस्तुतिः
नष्टे ज्योतिषि वायुश् चबली दोधूयते महान् ॥०२१॥

वायोरपि गुणं स्पर्शमाकाशं ग्रसते ततः ।
वायौ नष्टे तु चाकाशन्नीरवं तिष्ठति द्विज ॥०२२॥

आकाशस्याथ वै शब्दं भूतादिर्ग्रसते च खं ।
अभिमानात्मकं खञ्च भूतादिं ग्रसते महान् ॥०२३॥

भूमिर्याति लयञ्चाप्सु आपो ज्योतिषि तद्ब्रजेत् ।
वायौ वायुश् च खे खञ्च अहङ्कारे लयं स च ॥०२४॥

महात्तत्वे महान्तञ्च प्रकृतिर्ग्रसते द्विज ।
व्यक्ताव्यक्ता च प्रकृतिर्व्यक्तस्याव्यक्तके लयः ॥०२५॥

पुमाने काक्षरः शुद्धः सो ऽप्यंशः परमात्मनः ।
प्रकृतिः पुरुषश् चैतौ लीयेते परमात्मनि ॥०२६॥

न सन्ति यत्र सर्वेशे नामजात्यादिकल्पनाः ।
सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्यात्महः परे ॥०२७॥

{इत्य् आग्नेये महापुराणे नित्यनैमित्तिकप्राकृतप्रलया नाम सप्तषष्ट्यधिकत्रिशततमो ऽध्यायः }