{अथ षट्षष्ट्यधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
सामान्यनामलिङ्गानि
अग्निर् उवाच
सामान्यान्य् अथ वक्ष्यामि नामलिङ्गानि तच्छृणु ।
सुकृती पुण्यवान् ध्नयो महेच्छस्तु महाशयः ॥००१॥
मूलम्

प्रवीणनिपुणाभिज्ञविज्ञनिष्णातशिक्षिताः ।
स्युर्वदान्यस्थूललक्षदानशौण्डा बहुप्रदे ॥००२॥

कृती कृतज्ञः कुशल आसक्तोद्युक्त उत्सुकः ।
इभ्य आढ्यः परिवृढो ह्य् अधिभूर्नायको ऽधिपः ॥००३॥

लक्ष्मीवान् लक्ष्मणः श्रीलः स्वतन्त्रः स्वैर्य्
अपावृतः ।
खलपूः स्याद्वहुकरो दीर्घसूत्रश्चिरक्रियः ॥००४॥

जाल्मो ऽसमीक्ष्यकारी स्यात् कुण्ठो मन्दः क्रियासु यः ।
कर्मशूरः कर्मठः स्याद्भक्षको घस्मरो ऽद्मरः ॥००५॥

लोलुपो गर्धलो गृध्रुर्विनीतप्रश्रितौ तथा ।
धृष्टे धृष्णुर्वियातश् च निभृतः प्रतिभान्विते ॥००६॥

प्रगल्भो भीरुको भीरुर्वन्दारुरभिवादके ।
भूष्णुर्भविष्णुर्भविता ज्ञाता विदुरबिन्दुकौ ॥००७॥

[[२९६]]
विश्वास-प्रस्तुतिः
देवानञ्चति देवद्र्यङ्विश्वद्र्यङ्विश्वगञ्चति ॥००८॥

यः सहाञ्चति स सध्र्यङ् स तिर्यङ् यस्तिरो ऽञ्चति ।
वाचोयुक्तिः पटुर्वाग्मी वावदूकश् च वक्तरि ॥००९॥

स्याज्जल्पकस्तु वाचालो वाचाटो बहुगर्ह्यवाक् ।
अपध्वस्तो धिक्कृतः स्याद्बद्धे कीलितसंयतौ ॥०१०॥

वरणः शब्दनो नान्दीवादी नान्वीकरः समाः ।
व्यसनार्तोपरक्रौ द्वौ बद्धे कीलितसंयतौ1 ॥०११॥

विहिस्तव्याकुलौ तुल्यौ नृशंसक्रूरघातुकाः ।
पापो धूर्तो वञ्चकः स्यान्मूर्खे वैदेहवालिशौ ॥०१२॥

कदर्ये कृपणक्षुद्रौ मार्गणो याचकार्थिनौ ।
अहङ्कारवानहंयुः स्याच्छुभंयुस्तु शुभान्वितः ॥०१३॥

कान्तं मनोरमं रुच्यं हृद्याभीष्टे ह्य् अभीप्सिते ।
असारं फल्गु शून्यं वै मुख्यवर्यवरेण्यकाः ॥०१४॥

श्रेयान् श्रेष्ठः पुष्कलः स्यात्प्राग्र्याग्र्यग्रीयमग्रिमं ।
वड्रोरु विपुलं पीनपीव्नी तु स्थूलपीवरे ॥०१५॥

स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं
कृशन्तनु ।
मात्राकुटीलवकणा भूयिष्ठं पुरुहं पुरु ॥०१६॥

अखण्डं पूर्णसकलमुपकण्ठान्तिकाभितः ।
समीपे सन्निधाभ्यासौ नेदिष्टं सुसमीपकं ॥०१७॥

सुदूरे तु दविष्ठं स्याद्वृत्तं निस्तलवर्तुले ।
उच्चप्रांशून्नतोदग्रा ध्रुवो नित्यः सनातनः ॥०१८॥

:न्
[[२९७]]
विश्वास-प्रस्तुतिः
चञ्चलं तरलञ्चैव कठोरं जठरं दृढं ॥०१९॥
मूलम्
चञ्चलं तरलञ्चैव कठोरं जठरं दृढं ॥०१९॥
विश्वास-प्रस्तुतिः
प्रत्यग्रो ऽभिनवो नव्यो नवीनो नूतनो नवः ।
एकतानो ऽनन्यवृत्तिरुच्चण्डमविलम्बितं ॥०२०॥

उच्चावचं नैकभेदं सम्बाधकलिलं तथा ।
तिमितं स्तिमितं क्लिन्नमभियोगत्वभिग्रहः ॥०२१॥

स्फातिर्वृद्धौ प्रथा ख्यातौ समाहारः समुच्चयः ।
अपहारस्त्वपचयो विहारस्तु परिक्रमः ॥०२२॥

प्रत्याहार उपादानं निर्हारो ऽभ्यवकर्षणं ।
विघ्नो ऽन्तरायः प्रत्यूहः स्यादास्यात्वासना स्थितिः ॥०२३॥

सन्निधिः सन्निकर्षः स्यात्मङ्क्रमो दुर्गसञ्चरः ।
उपलम्भस्त्वनुभवः प्रत्यादेशो निराकृतिः ॥०२४॥

परिरम्भःपरिष्वङ्गः संश्लेष उपगूहनं ।
अनुमा पक्षहेत्वाद्यैर् डिम्बे भ्रमरविप्लवौ ॥०२५॥

असन्निकृष्तार्थज्ञानं शब्दाद्धि शाब्दमीरितं ।
सादृश्यदर्शनात्तुल्ये बुद्धिः स्यादुपमानकं ॥०२६॥

कार्यं दृष्ट्वा विना नस्यादर्थापत्तिः परार्थधीः ।
प्रतियोगिन्यागृहीते भुवि नास्तीत्यभावकः ।०२७।
इत्यादिनामलिङ्गो हि हरिरुक्तो नृबुद्धये ॥०२७॥

{इत्य् आग्नेये महापुराणे सामान्यनामलिङ्गानि नाम षट्षष्ट्यधिकत्रिशततमो ऽध्यायः ॥ }
[[२९८]]