{अथ पञ्चषष्ट्यधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
क्षत्रविट्शूद्रवर्गाः
अग्निर् उवाच
मूर्धाभिशिक्तो राजन्यो बाहुजः क्षत्रियो विराट् ।
राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः ॥००१॥
मूलम्

चक्रवर्ती सार्वभौमो नृपो ऽन्यो मण्डलेश्वरः ।
मन्त्री धीसचिवो ऽमात्यो महामात्राः प्रधानकाः ॥००२॥

[[२९१]]
विश्वास-प्रस्तुतिः
द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ ।
भौरिकः कनकाध्यक्षो ऽथाध्यक्षाधिकृतौ समौ ॥००३॥

अन्तःपुरे त्वधिकृतः स्यादन्तर्वंशिको जनः ।
सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश् च ते ॥००४॥

षण्डो वर्षवरस्तुल्याः सेवकार्थ्यनुजीविनः ।
विषयानन्तरो राजा शत्रुर्मित्रमतः परं ॥००५॥

उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः ।
चरः स्पर्शः स्यात्प्रणिधिरुत्तरः काल आयतिः ॥००६॥

तत्कालस्तु तदात्वं स्यादुदर्कः फलमुत्तरं ।
अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम् ॥००७॥

भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका ।
प्रभिन्नो गर्जितो मातो वमथुः करशीकरः ॥००८॥

स्त्रियां शृणिस्त्वङ्कुशो ऽस्त्री परिस्तोमः कुथो द्वयोः ।
कर्णीरथः प्रवहणं दोला प्रेङ्खादिका स्त्रियां ॥००९॥

आधोरणा हस्तिपका हस्त्यारोहा निषादिनः ।
भटा योधाश् च योद्धारः कञ्चुको वारणो ऽस्त्रियां ॥०१०॥

शीर्षण्यञ्च शिरस्त्रे ऽथ तनुत्रं वर्म दंशनं ।
आमुक्तः प्रतिमुक्तश् च पिनद्धश्चापिनद्धवत् ॥०११॥

व्यूहस्तु बलविन्यासश् चक्रञ्चानीकमस्त्रियां ।
एकेभैकरथा त्र्यश्वाः पत्तिः पञ्चपदातिकाः ॥०१२॥

पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरं ।
सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः ॥०१३॥

[[२९२]]
विश्वास-प्रस्तुतिः
धनुः कोदण्ड+इष्वासौ कोटिरस्याटनी स्मृता ॥०१४॥

नस्तकस्तु धनुर्मध्यं मौर्वी ज्या शिञ्जिनी गुणः ।
पृषत्कवाणविशिखा अजिह्मगखगाशुगाः ॥०१५॥

तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः ।
असिरृष्टिश् च निस्त्रिंशः करवालः कृपालः
कृपाणवत् ॥०१६॥
मूलम्
तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः ।
असिरृष्टिश् च निस्त्रिंशः करवालः कृपालः
कृपाणवत् ॥०१६॥
विश्वास-प्रस्तुतिः
सरुः खड्गस्य सुष्टौ स्यादीली तु करपालिका ।
द्वयोः कुठारः सुधितिः छुरिका चासिपुत्रिका ॥०१७॥

प्रासस्तु कुन्तो विज्ञेयः सर्वला तोमरो ऽस्त्रियां ।
वैतालिका बोधकरा मागधा वन्दिनस्तुतौ ॥०१८॥

संशप्तकास्तु समयात्सङ्ग्रामादनिवर्तिनः ।
पताका वैजयन्ती स्यात्केतनं धजमिस्त्रियां ॥०१९॥

अहं पूर्वमहं पूर्वमित्यहम्पूर्विका स्त्रियां ।
अहमहमिका सास्याद्यो ऽहङ्कारः परस्परम् ॥०२०॥

शक्तिः पराक्रमः प्राणः शौर्यं स्थानसहोबलं ।
मूर्छा तु कश्मलं मोहो ऽप्यवर्मद्दस्तु पीडनं ॥०२१॥

अभ्यवस्कन्दनन्त्वभ्यासादनं विजयो जयः ।
निर्वासनं सञ्ज्ञपनं सारणं प्रतिघातनं ॥०२२॥

स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयो ऽत्ययः ।
विशो भूमिस्पृषो वैश्या वृत्तिर्वर्तनजीवने ॥०२३॥

कृष्यादिवृत्तयो ज्ञेयाः कुसीदं वृद्धिजीविका ।
उद्धरो ऽर्थप्रयोगः स्यात्कणिशं सस्यमञ्जरी ॥०२४॥

किंशारुः सस्यशूकं स्यात् स्तम्बो गुत्सस्तृणादिनः ।
धाम्यं व्रीहिः स्तम्बकरिः कडङ्गरो वुपं स्मृतं ॥०२५॥

[[२९३]]
विश्वास-प्रस्तुतिः
माषादयः शमीधान्ये शुकधान्ये यवादयः ।
तृणधान्यानि नीवाराः शूर्पं प्रस्फोटनं स्मृतं ॥०२६॥

स्यूतप्रसेवौ कण्डोलपिटौ कटकिनिञ्जकौ ।
समानौ रसवत्यान्तु पाकस्थानमहानसे ॥०२७॥
मूलम्
स्यूतप्रसेवौ कण्डोलपिटौ कटकिनिञ्जकौ ।
समानौ रसवत्यान्तु पाकस्थानमहानसे ॥०२७॥
विश्वास-प्रस्तुतिः
पौरोगवस्तदध्यक्षः सूपकारास्तु वल्लवाः ।
आरालिका आन्धसिकाः सूदा औदनिका गुणाः ॥०२८॥

क्लीवे ऽम्बरीषं भ्राष्टो ना कर्कर्यालुर्गलन्तिका ।
आलिञ्जरः स्यान्मणिकं सुषवी कृषजीरके ॥०२९॥

आरनालस्तु कुल्माषं वाह्लीकं हिङ्गु रामठं ।
निशा हरिद्रा पीता स्त्री खण्डे मत्स्यण्डिफाणिते ॥०३०॥

कूर्चिका क्षिरविकृतिः स्निग्धं मसृणचिक्कणं ।
पृथुकः स्याच्चिपिटको धाना भ्रष्टयवास्त्रियः ॥०३१॥

जेमनं लेप आहारो माहेयी सौरभी च गौः ।
युगादीनाञ्च बोढारो युग्यप्रसाङ्ग्यशाटकाः ॥०३२॥

चिरसूता वष्कयणी धेनुः स्यान्नवसूतिका ।
सन्धिनी वृषभाक्रान्ता वेहद्गर्भोपघातिनी ॥०३३॥

पण्याजीवो ह्य् आपणिको न्यासश्चोपनिधिः पुमान् ।
विपणो विक्रयः सङ्ख्या सङ्ख्येये ह्य् आदश त्रिषु ॥०३४॥

विंशत्याद्याः सदैकत्वे सर्वाः सङ्ख्येयसङ्ख्ययोः ।
सङ्ख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः ॥०३५॥

पङ्क्तेः शतसहस्रादि क्रमाद्दशगुणोत्तरं ।
मानन्तु लाङ्गुलिप्रस्थैर् गुञ्जाः पञ्चाद्यमाषकः ॥०३६॥

[[२९४]]
विश्वास-प्रस्तुतिः
सुवर्णविस्तौ हेम्नो ऽक्षे कुरुविस्तस्तु तत्पले ॥०३७॥

तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः ।
कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः ॥०३८॥

द्रव्यं वित्तं स्वापतेयं रिक्थमृथक्थं धनं वसु ।
रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् ॥०३९॥

शुल्वमौदुम्बरं लौहे तीक्ष्णं कालांयसायसी ।
क्षारः काचो ऽथ चपलो रसः सूतश् च पारदे ॥०४०॥

गरलं माहिषं शृङ्गं त्रपुसीसकपिच्चटं ।
हिण्डीरो ऽब्धिकफः फेणो मधूच्छिष्टन्तु सिक्थकम् ॥०४१॥

रङ्गवङ्गे पिचुस्थूलो कूलटी तु मनःशिला ।
यवक्षारश् च पाक्यः स्यात् त्वक्क्षीरा वंशलोचनाः ॥०४२॥

वृषला जधन्यजाः शूद्राश्चाण्डालान्त्याश् च
शङ्कराः ।
कारुः शिल्पी संहतैस्तैर् द्वयोः श्रेणिः सजातिभिः ॥०४३॥

रङ्गाजीवश्चित्रकरस्त्वष्टा तक्षा च वर्धकिः ।
नाडिन्धमः स्वर्णकारो नापितान्तावसायिनः ॥०४४॥

जावालः स्यादजाजीवो देवाजीवस्तु देवलः ।
जायाजीवस्तु शैलूषा भृतको भृतिभुक्तथा ॥०४५॥

विवर्णः पामरो नीचः प्राकृतश् च पृथग्जनः ।
विहीनोपसदो जाल्मो भृत्ये दासेरचेटकाः ॥०४६॥

पटुस्तु पेशलो दक्षो मृगयुर्लुब्धकः स्मृतः ।
चाण्डालस्तु दिवाकीर्तिः पुस्तं लेप्यादिकर्मणि ॥०४७॥

[[२९५]]
विश्वास-प्रस्तुतिः
प्रतिमा स्यात् प्रतिकृतिर्वर्गा ब्रह्मादयः स्मृताः ॥०४८॥

{इत्य् आग्नेये महापुराणे क्षत्रविट्शीद्रवर्गा माम पञ्चषष्ट्यधिकत्रिशततमो ऽध्यायः ॥ }