{अथ चतुःषष्ट्यधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
ब्रह्मवर्गः
अग्निर् उवाच
वंशो ऽन्ववायो गोत्रं स्यात् कुलान्यभिजनान्वयौ ।
मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती ॥००१॥
मूलम्

यष्टा च यजमानः स्यात् ज्ञात्वारम्भ उपक्रमः ।
सतीर्थ्याश् चैकगुरवः सभ्याः सामाजिकास् तथा ॥००२॥

सभासदः सभास्तारा ऋत्विजो याजकाश् च ते ।
अध्वर्यूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात् ॥००३॥

चषालो यूपकटकः समे स्थण्डिलचत्वरे ।
आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः ॥००४॥

पृषदाज्यं सदध्याज्ये परमान्नन्तु पायसम् ।
उपाकृतः पशुरसौ यो ऽभिमन्त्र्य क्रतौ हतः ॥००५॥

[[२९०]]
विश्वास-प्रस्तुतिः
पूजा नमस्यापिचितिः सपर्यार्चार्हणाः समाः ॥००६॥

वरिवस्या तु शुश्रूषा परिचर्याप्युपासनम् ।
नियमो ब्रतमस्त्री तच्चोपवासादि पुण्यकम् ॥००७॥

मुख्यः स्यात् प्रथमः कल्पो ऽनुकल्पस्तु ततो ऽधमः ।
कल्पे विधिक्रमौ ज्ञेयौ विवेकः पृथगात्मता ॥००८॥

संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः ।
भिक्षुः परिव्राट् कर्मन्दी पाराशर्यपि मस्करी ॥००९॥

ऋषयः सत्यवचसःस्नातकश्चाप्लुतव्रती ।
ये निर्जितेन्द्रियग्रामा यतिनो यतयश् च ते ॥०१०॥

शरीरसाधनापेक्षं नित्यं यत् कर्म तद्यमः ।
नियमस्तु स यत् कर्मानित्यमागन्तुसाधनम् ।०११।
स्याद् ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ॥०११॥

{इत्य् आग्नेये महापुराणे ब्रह्मवर्गो नाम चतुःषष्ट्यधिकत्रिशततमो ऽध्यायः }