{अथ त्रिषष्ट्यधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
नृब्रह्मक्षत्रविट्शूद्रवर्गाः
अग्निर् उवाच
नृब्रह्मक्षत्रविट्शूद्रवर्गान्वक्ष्ये ऽथ नामतः ।
नरः पञ्चजना मर्त्य यद्योषावंला वधूः ॥००१॥
मूलम्

कान्तार्थिनी तु या याति सङ्केतं साभिसारिका ।
कुलटा पुंश् चल्यसती नग्निका स्त्री च कोटवी ॥००२॥

कात्यायन्यर्धवृद्धा या सैरिन्ध्री परवेश्मगा ।
असिक्री स्यादवृद्धा या मलिनी तु रजस्वला ॥००३॥

वारस्त्री गणिका वेश्या भ्रातृजायास्तु यातरः ।
ननान्दा तु स्वसा पत्युः सपिण्डास्तु सनाभयः ॥००४॥

[[२८७]]
विश्वास-प्रस्तुतिः
समानोदर्यसोदर्यसगर्भसहजास्समाः ।
सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः ॥००५॥

दम्पती जम्पती भार्यापती जायापती च तौ ।
गर्भाशयो जरायुः स्यादुल्वञ्च कललो ऽस्त्रियां ॥००६॥

गर्भो भ्रुण इमौ तुल्यौ क्लीवं शण्डो नपुंसकम् ।
स्यादुत्तानशया डिम्भा बालो माणवकः स्मृतः ॥००७॥

पिचिण्डिलो वृहत्कुक्षिरवभ्रटो नतनासिके ।
विकलाङ्गस्तु पोगण्ड आरोग्यं स्यादनामयम् ॥००८॥

स्यादेडे वधिरः कुब्जे गडुलः कुकरे कुनिः ।
क्षयः शोषश् च यक्ष्मा च प्रतिश्यायुस्तु पीनसः ॥००९॥

स्त्री क्षुत्क्षुतं क्षयं पुंसि कासस्तु क्षवथुः पुमान् ।
शोथस्तु श्वयथुः शोफः पादस्फोटो विपादिका ॥०१०॥

किलासं सिध्नकच्छान्तु पाम पामा विचर्चिका ।
कोठो मण्डलकं कुष्ठं श्वित्रे द्रुर् नामकार्शसी ॥०११॥

अनाहस्तु विबन्धः स्याद्ग्रहणी रुक्प्रवाहिका ।
वीजवीर्येन्द्रयं शुक्रं पललं क्रव्यमामिषं ॥०१२॥

वुक्काग्रमांसं हृदयं हन्मेदस्तु वपा वसा ।
पश्चाद्ग्रीवा शिरा मन्या नाडी तु धमनिः शिरा ॥०१३॥

तिलकं क्तोम मस्तिष्कं द्रूषिका नेत्रयोर्मलम् ।
अन्त्रं पुरी तद्गुल्मस्तु प्लीहा पुंस्य् अथ वस्नसा ॥०१४॥

स्नायुः स्त्रियां कालखण्डयकृती तु समे इमे ।
स्यात् कर्पूरः कपालो ऽस्त्री कीकसङ्कुल्यमस्थि च ॥०१५॥

[[२८८]]
विश्वास-प्रस्तुतिः
शिरो ऽस्थनि करोटिः स्त्री पार्श्वास्थनि तु पर्शुका ॥०१६॥

अङ्गं प्रतीको ऽवयवः शरीरं वर्ष्म विग्रहः ।
कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती ॥०१७॥

पश्चान्नितम्बः स्त्रीकट्याः क्लीवे तु जघनं पुरः ।
कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे ॥०१८॥

स्त्रियां स्फिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः ।
भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी ॥०१९॥

पिचिण्डकुक्षी जठरोदरं तुन्दं कुचौ स्तनौ ।
चूचुकन्तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम् ॥०२०॥

स्कन्धो भुजशिरो ऽंशो ऽस्त्री सन्धी तस्यैव जत्रुणी ।
पुनर्भवः कररुहो नखो ऽस्त्री नखरो ऽस्त्रियां ॥०२१॥

प्रदेशतालगोकर्णास्तर्जन्यादियुते तते ।
अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुलः ॥०२२॥

पाणौ च पेटप्रतलप्रहस्ता विस्तृताङ्गुलौ ।
बद्धमुष्टिकरो रत्निररत्निः स कनिष्ठवान् ॥०२३॥

कम्बुग्रीवा त्रिरेखा सावटुर्घाटा कृकाटिका ।
अधः स्याच्चिवुकञ्चौष्ठादथ गण्डौ गलो हनुः ॥०२४॥

अपाङ्गौ नेत्रयोरन्तौ कटाक्षो ऽपाङ्गदर्शने ।
चिकुरः कुन्तलो बालः प्रतिकर्म प्रसाधनम् ॥०२५॥

आकाल्पवेशौ नेपथ्यं प्रत्यक्षं खेलयोगजम् ।
चूडामणिः शिरोरत्नं तरलो हारमध्यगः ॥०२६॥

कर्णिका तालपत्रं स्याल्लम्बनं स्याल्ललन्तिका ।
मञ्जीरो नूपुरं पादे किङ्किणी क्षुद्रघण्टिका ॥०२७॥

[[२८९]]
विश्वास-प्रस्तुतिः
दैर्घ्यमायाम आरोहः परिणाहो विशालता ।
पटच्चरं जीर्णवस्त्रं संव्यानञ्चोत्तरीयकम् ॥०२८॥

रचना स्यात् परिस्पन्द आभोगः परिपूर्णता ।
समुद्गकः सम्पुटकः प्रतिग्राहः पतद्ग्रहः ॥०२९॥

{इत्य् आग्नेये महापुराणे नृवर्गो नाम त्रिषष्ट्यधिकत्रिशततमो ऽध्यायः }