{अथ द्विषष्ट्यधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
भूमिवनौषध्यादिवर्गाः
अग्निर् उवाच
वक्ष्ये भूपुराद्रिवनौषधिसिंहादिनर्गकान् ।
भूरनन्ता कक्षमा धात्री क्ष्माप्याकुः स्याद्धरित्र्यपि ॥००१॥
मूलम्

मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका ।
जगत्त्रपिष्टपं लोकं भुवनं जगती समा ॥००२॥

अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः ।
सरणिः पद्धत्तिः पद्या वर्तन्येकपदीति च ॥००३॥

पूः स्त्री पुरीनगर्यौ वा पात्तनं पुटभेदनम् ।
स्थानीयं निगमो ऽन्यत्तु यन्मूलनगरात्पुरम् ॥००४॥

तच्छाखानगरं वेशो वेश्याजनसमाश्रयः ।
आपणस्तु निषद्यायां विपणिः पण्यवीथिका ॥००५॥

रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियां ।
प्राकारो वरणः शालः प्राचीरं प्रान्ततो वृतिः ॥००६॥

[[२८०]]
विश्वास-प्रस्तुतिः
भित्तिः स्त्री कुह्यमेडूकं यदन्तर्नस्तकीकसं ।
वासः कूटो द्वयोः शाला सभा सञ्जवनन्त्विदम् ॥००७॥

चतुःशालं मुनीनान्तु पर्णशालोटजो ऽस्त्रियां ।
चैत्यमायतनन्तुल्ये वाजिशाला तु मन्दुरा ॥००८॥

हर्म्यादि धनिनां वासःप्रासादो देवभूभुजां ।
स्त्री द्वार्द्वारं प्रतीहारः स्याद्वितर्दिस्तु वेदिका ॥००९॥

कपोतपालिकायन्तु विटङ्कं पुं नपुंसकं ।
कवाटमवरन्तुल्ये निःश्रेणिस्त्वधिरोहिणी ॥०१०॥

सम्मार्जनी शोधनी स्यात् सङ्करो ऽवकरस् तथा ।
अद्रिगोत्रिगिरिग्रावा गहनं काननं वनं ॥०११॥

आरामः स्यादुपवनं कृत्रिमं वनमेव यत् ।
स्यादेतदेव प्रमदवनमन्तःपुरोचितं ॥०१२॥
मूलम्
आरामः स्यादुपवनं कृत्रिमं वनमेव यत् ।
स्यादेतदेव प्रमदवनमन्तःपुरोचितं ॥०१२॥
विश्वास-प्रस्तुतिः
वीथ्यालिरावलिः पङ्क्तिश्रेणीलेखास्तु राजयः ।
वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः(?) ॥०१३॥

ओषध्यः फलपाकान्ताः पलाशी द्रुद्रुमागमाः ।
स्थाणु वा ना ध्रुवः शङ्कुः प्रफुल्लोत्फुल्लसंस्फुटाः ॥०१४॥

पलाशं छदनं पर्णमिध्ममेधः समित् स्त्रियां ।
बोधिद्रुमश् चलदलो दधित्थग्राहिमन्मथाः ॥०१५॥

तस्मिन् दधिफलः पुष्पफलदन्तशठावपि ।
उडुम्बरे हेमदुग्धः कोविदारे द्विपत्रकः ॥०१६॥

सप्तपर्णो विशालत्वक् कृतमालं सुवर्णकः ।
आरेवतव्याधिघातसम्पाकचतुरङ्गुलाः ॥०१७॥
मूलम्
सप्तपर्णो विशालत्वक् कृतमालं सुवर्णकः ।
आरेवतव्याधिघातसम्पाकचतुरङ्गुलाः ॥०१७॥
[[२८१]]
विश्वास-प्रस्तुतिः
पुत्रागे पुरुषस्तुङ्गः केशरो देववल्लभः ॥०१८॥

पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः ।
वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ ॥०१९॥

आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ ।
पीलौ गुडफलः स्रंसी नादेयी चाम्बुवेतसः ॥०२०॥

शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीरमोचकाः ।
रक्तो ऽसौ मधुशिग्रुः स्यादरिष्टः फेणिलः समौ ॥०२१॥

गालवःशावरो लोध्रस्तिरीटस्तिल्वमार्जनौ ।
शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः ॥०२२॥

वैकङ्कतः श्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि ।
तिन्दुकः स्फूर्जकः कालो नादेयी भूमिजम्बुकः ॥०२३॥

काकतिन्दौ पीलुकः स्यात् पाटलिर्मोक्षमुष्ककौ ।
क्रमुकः पट्टिकाख्यः स्यात्कुम्भी कैटर्यकट्फले ॥०२४॥

वीरवृक्षो ऽरुष्करो ऽग्निमुखी भल्लातकीं त्रिषु ।
सवर्जकासनजीवाश् च पीतसाले ऽथ मालके ॥०२५॥

सर्जाश्वकर्णौ वीरेन्द्रौ इन्द्रद्रुः ककुभो ऽर्जुनः ।
इङ्गुदी तापसतरुर्मोचा शाल्मलिरेव च ॥०२६॥

चिरविल्वो नक्तमालः करजश् च करञ्जके ।
प्रकीर्यः पूतिकरजो मर्कट्यङ्गारवल्लरी ॥०२७॥

रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः ।
गायत्री बालतनयः खदिरो दन्तधावनः ॥०२८॥
मूलम्
रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः ।
गायत्री बालतनयः खदिरो दन्तधावनः ॥०२८॥
विश्वास-प्रस्तुतिः
अरिमेदो विट्खदिरे कदरः खदिरे सिते ।
पञ्चाङ्गुलो वर्धमानश् चञ्चुर्गन्धर्वहस्तकः ॥०२९॥

[[२८२]]
विश्वास-प्रस्तुतिः
पिण्डीतको मरुवकः पीतदारु च दारु च ।
देवदारुः पूतिकाष्ठं श्यामा तु महिलाह्वया ॥०३०॥

लता गोवन्दनी गुन्दा प्रियङ्गुः फलिनी फली ।
मण्डूकपर्णपत्रोर्णनटकट्वङ्गटुण्टुकाः ॥०३१॥

श्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः ।
पीतद्रुः सरलश्चाथ निचुलो ऽम्बुज इज्जलः ॥०३२॥

काकोडुम्बरिका फल्गुररिष्टः पिचुमर्दकः ।
सर्वतोभद्रको निम्बे शिरीषस्तु कपीतनः ॥०३३॥

वकुलो वञ्जुलः प्रोक्तः पिच्छिलागुरुशिंशपाः ।
जया जयन्ती तर्कारी कणिका गणिकारिका ॥०३४॥

आपर्णमग्नमन्थः स्याद्वत्सको गिरिमल्लिका ।
कालस्कन्धस्तमालः स्यात् तण्डुलीयो ऽल्पमारिषः ॥०३५॥

सिन्धुवारस्तु निर्गुण्डी सैवास्फोता वनोद्भवा ।
गणिका यूथिकाम्बष्ठा सप्तला नवमालिका ॥०३६॥

अतिमुक्तः पुण्ड्रकः स्यात्कुमारी तरणिः सहा ।
तत्र शोणे कुरुवकस्तत्र पीते कुरुण्टकः ॥०३७॥

नीला झिण्टी द्वयोर्वाणा भिण्टी सैरीयकस् तथा ।
तस्मिन्रक्ते कुरुवकः पीते सहचरी द्वयोः ॥०३८॥

धुस्तूरः कितवो धूर्तो रुचको मातुलङ्गके ।
समीरणो मरुवकः प्रस्थपुष्पः फणिज्झकः ॥०३९॥

कुठेरकस्तु पर्णासे ऽथास्फोतो वसुकार्कके ।
शिवमल्ली पाशुपतो वृन्दा वृक्षादनी तथा ॥०४०॥

[[२८३]]
विश्वास-प्रस्तुतिः
सोमवल्ली मधुर्णी मूर्वा तु मोरटी तथा ॥०४१॥

मधुलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि ।
पाठाम्बष्ठा विद्धकर्णी प्राचीना वनतिक्तिका ॥०४२॥

कटुः कटुम्भरा चाथ चक्राङ्गी शकुलादनी ।
आत्मगुप्ता प्रावृषायी कपिकच्छुश् च मर्कटी ॥०४३॥

अपामार्गः शैखरिकः प्रत्यक्पर्णी मयूरकः ।
फञ्जिका ब्राह्मणी भार्गी द्रवन्ति शम्बरी वृषा ॥०४४॥

मण्डूकपर्णी भण्डीरी समङ्गा कालमेषिका ।
रोदनी कच्छुरानन्ता समुद्रान्ता दुरालभा ॥०४५॥

पृश्निपर्णी पृथक्पर्णी कलशिर्धावनिर्गुहा ।
निदिग्धिका स्पृशी व्याघ्री क्षुद्रा दुस्पर्शया सह ॥०४६॥

अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका ।
कालमेषी कृष्णफला वकुची पूतिफल्य् अपि ॥०४७॥

कणोषणोपकुल्या स्याच्छ्रेयसी गजपिप्पली ।
चव्यन्तु चविका काकचिञ्ची गुञ्जे तु कृष्णला ॥०४८॥

विश्वा विषा प्रतिविषा वनशृङ्गाटगोक्षुरौ ।
नारायणी शतमूली कालेयकहरिद्रवः ॥०४९॥

दार्वी पचम्पचा दारु शुक्ला हैमवती वचा ।
वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका ॥०५०॥

आस्फोता गिरिकर्णी स्यात् सिंहास्यो वासको वृषः ।
मिशी मधुरिकाच्छत्रा कोकिलाक्षेक्षुरक्षुरा ॥०५१॥

विडङ्गो ऽस्त्री कृमिघ्नः स्यात् वज्रद्रुस्नुक्स्नुही सुधा ।
मृद्वीका गोस्तनी द्राक्षा वला वाट्यालकस् तथा ॥०५२॥

[[२८४]]
विश्वास-प्रस्तुतिः
काला मसूरविदला त्रिपुटा त्रिवृता त्रिवृत् ।
मधुकं क्लीतकं यष्टिमधुका मधुयष्टिका ॥०५३॥

विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्ट्री च या सिता ।
गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा ॥०५४॥

मोचा रम्भा च कदली भण्टाकी दुष्प्रधर्षिणी ।
स्थिरा ध्रुवा सालपर्णी शृङ्गी तु वृषभो वृषः ॥०५५॥

गाङ्गेरुकी नागबला मुषली तालमूलिका ।
ज्योत्स्नी पटोलिका जाली अजशृङ्गी विषाणिका ॥०५६॥

स्याल्लाङ्गलिक्यग्निशिखा ताम्बूली नागवल्ल्यपि ।
हरेणू रेणुका कौन्ती ह्रीवेरो दिव्यनागरं ॥०५७॥

कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु ।
शैलेयं तालपर्णी तु दैत्या गन्धकुटी मुरा ॥०५८॥

ग्रन्थिपर्णं शुकं वर्हि वला तु त्रिपुटा त्रुटिः ।
शिवा तामलकी चाथ हनुर्हट्टविलासिनी ॥०५९॥

कुटं नटं दशपुरं वानेयं परिपेलवम् ।
तपस्वनी जटामांसी पृक्का देवी लता लशूः ॥०६०॥

कर्चुरको द्राविडको गन्धमूली शठी स्मृता ।
स्यद्दृक्षगन्धा छगलान्त्रा वेगी वृद्धदारकः ॥०६१॥

तुण्डिकेरी रक्तफला विम्बिका पीलुपर्ण्य् अपि ।
चाङ्गेरी चुक्रिकाम्बष्टा स्वर्णक्षीरी हिमावती ॥०६२॥

सहस्रवेधी चुक्रो ऽम्लवेतसः शतवेध्यपि ।
जीवन्ती जीवनी जीवा भूमिनिम्वः किरातकः ॥०६३॥

[[२८५]]
विश्वास-प्रस्तुतिः
दद्रुघ्नः स्यादेडगजो वर्षाभूः शीथहानिणी ॥०६४॥

कुनन्दती निकुम्भस्त्रा1 यमानी वार्षिका तथा ।
लशुनङ्गृञ्चनारिष्टमहाकन्दरसोनकाः ॥०६५॥

वाराही वदरा गृष्टिः काकमाची तु वायसी ।
शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः ॥०६६॥

अवाक्पुष्पी कारवी च सरणा तु प्रसारणी ।
कटम्भरा भद्रवला कर्वूरश् च शटी ह्य् अथ ॥०६७॥

पटोलः कुलकस्तिक्तः कारवेल्लः कटिल्लकः ।
कुष्माण्डकस्तु कर्कारुरिर्वारुः कर्कटी स्त्रियौ ॥०६८॥

इक्ष्वाकुः कटुतुम्बी स्याद्विशाला त्विन्द्रवारुणी ।
अर्शेघ्नः शूरणः कन्दो मुस्तकः कुरुविन्दकः ॥०६९॥

वंशे त्वक्सारकर्मारवेणुमस्करतेजनाः ।
छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे ॥०७०॥

तृणराजाह्वयस्तालो घोण्टा क्रमुकपुगकौ ।
शार्दूलद्वीपिनौ व्यघ्रे हर्यक्षः केशरी हरिः ॥०७१॥

कोलः पौत्री वराहः स्यात् कोक ईहामृगो वृकः ।
लूतोर्णनाभौ तु समौ तन्तुवायश् च मर्कटे ॥०७२॥

वृश्चिकः शूककीटः स्यात्सारङ्गस्तोककौ समौ ।
कृकवाकुस्ताम्रचूडः पिकः कोकिल इत्य् अपि ॥०७३॥

कके तु करटारिष्टौ वकः कह्व उदाहृतः ।
कोकश् चक्रश् चक्रवाको कादम्बः कलहंसकः ॥०७४॥

:न्
[[२८६]]
विश्वास-प्रस्तुतिः
द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरा।अलयः ॥०७५॥

केकी शिख्यस्य वाक्केका शकुन्तिशकुनिद्विजाः ।
स्त्री पक्षतिः पक्षमूलञ्चञ्चुस्तोटिरुभे स्त्रियौ ॥०७६॥

गतिरुड्डिनसण्डीनौ कुलायो नीडमस्त्रियां ।
पेशी कोषो द्विहीने ऽण्डं पृथुकः शावकः शिशुः ॥०७७॥

पोतः पाको ऽर्भको डिम्भः सन्दोहव्यूहको गणः ।
स्तोमौघनिकरव्राता निकुरम्बं कदम्बकं ।०७८।
सङ्घातसञ्चयौ वृन्दं पुञ्जराशी तु कूटकं ॥०७८॥

{इत्य् आग्नेये महापुराणे भूमिवनौषध्यादिवर्गा नाम द्विषष्ट्यधिकत्रिशततमो ऽध्यायः }