{अथैकषष्ट्यधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
नानार्थवर्गाः
अग्निर् उवाच
आकाशे त्रिदिवे नाको लोकस्तु भवने जने ।
पद्ये यशसि च श्लोकःशरे खड्गे च सायकः ॥००१॥
मूलम्

आनकः पटहो भेरी कलङ्को ऽङ्कापवादयोः ।
मारुते वेधसि व्रध्ने पुंसि कः कं शिरो ऽम्बुनोः ॥००२॥

स्यात् पुलाकस्तुच्छधान्ये सङ्क्षेपे भक्तसिक्थके ।
महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः ॥००३॥

शालावृकौ कपिश्वानौ मानं स्यान्मितिसाधनं ।
सर्गः स्वभावनिर्मोक्षनिश् चयाध्यायस्मृष्टिषु ॥००४॥

[[२७६]]
विश्वास-प्रस्तुतिः
भोगः सुखे स्त्र्यादिभृतावब्जौ शङ्कनिशाकरौ ॥००५॥

काके भगण्डौ करटौ दुश् चर्मा शिपिविष्टकः ।
रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे ॥००६॥

व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञाने ऽक्ष्णि दर्शने ।
निष्ठानिष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि ॥००७॥

भूगोवाचस्त्विडा इलाः प्रगाढं भृषकृच्छ्रयोः ।
भृशप्रतिज्ञयोर्वाढं शक्तस्थूलौ दृढौ त्रिषु ॥००८॥

विन्यस्तसंहतौ व्यूढौ कृष्णो व्यासे ऽर्जुने हरौ ।
पणो दूयतादिषूत्सृष्टे भृतौ मूल्ये धने ऽपि च ॥००९॥

मौर्व्यां द्रव्याश्रिते सत्वशुक्लसन्ध्यादिके गुणः ।
श्रेष्ठे ऽधिपे ग्रामणीः स्यात् जुग्प्साकरुणे घृणे ॥०१०॥

तृष्णा स्पृहापिपासे द्वे विपणिः स्याद्वणिक्पथे ।
विषाभिमरलोहेषु तीक्ष्णं क्लीवे खरे त्रिषु ॥०११॥

प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु ।
करणं क्षेत्रगात्रादावीरिणं शून्यमूषरं ॥०१२॥

यन्ता हस्तिपके सूते वह्निज्वाला च हेतयः ।
स्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतं ॥०१३॥

ख्याते हृष्टे प्रतीतो ऽभिजातस्तु कुलजे बुधे ।
विविक्तौ पूतविजनौ मूर्छितौ मूड्सोच्छयौ ॥०१४॥

अर्थो ऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु ।
निदानागमयोस्तीर्थमृषिजुष्टजले गुरौ ॥०१५॥

प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदो ऽस्त्रियां ।
स्त्री सम्बिज्ज्ञानसम्भाषाक्रियाकाराजिनामसु ॥०१६॥

[[२७७]]
विश्वास-प्रस्तुतिः
धर्मे रहस्युपनिषत् स्यादृतौ वत्सरे शरत् ।
पदं व्यवसितित्राणस्थानलक्ष्माङ्घ्रिवस्तुषु ॥०१७॥

त्रिष्वष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ ।
सत्ये साधौ विद्यमाने प्रशस्ते ऽभ्यर्हिते च सत् ॥०१८॥

विधिर्विधाने दैवे ऽपि प्रणिधिः प्रार्थने चरे ।
वधूर्जाया स्नुषा च सुधालेपो ऽमृतं स्नुही ॥०१९॥

स्पृहा सम्प्रत्ययः श्रद्धा पण्डितम्मन्यगर्वितौ ।
ब्रह्मबन्धुरधिक्षेपे भानू रष्मिदिवाकरौ ॥०२०॥

ग्रावाणौ शैलपाषानौ मूर्खनीचौ पृथग्जनौ ।
तरुशैलौ शिखरिणौ तनुस्त्वग्देहयोरपि ॥०२१॥

आत्मा यत्नो धृतिर्वुद्धिः स्वभावो ब्रह्मवर्ष्म च ।
उत्थानं पौरुषे तन्त्रे व्युत्थानं प्रतिरोधने ॥०२२॥

निर्यातनं वैरशुद्धौ दाने न्यासार्पणे ऽपि च ।
व्यसनं विपदि भ्रशे दोषे कामजकोपजे ॥०२३॥

मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः ।
तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥०२४॥

पैशून्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् ।
वाग्दण्डश् चैव पारुष्यं क्रोधजो ऽपि गणो ऽष्टकः ॥०२५॥

अकर्मगुह्ये कौपीनं मैथुनं सङ्गतौ रतौ ।
प्रधानं परमार्था धीः प्रज्ञानं बुद्धिचिह्नयोः ॥०२६॥

क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः ।
आराधनं साधने स्यादवाप्तौ तोषणे ऽपि च ॥०२७॥

[[२७८]]
विश्वास-प्रस्तुतिः
कलापो भूषणे वर्हे तूणीरे संहते ऽपि च ॥०२८॥

तल्पं शय्याट्टारेषु डिम्भौ तु शिशुवालिशौ ।
स्तम्भौ स्थूणाजडीभावौ सभ्ये संसदि वै सभा ॥०२९॥

किरणप्रग्रहौ रश्मी धर्माः पुण्ययमादयः ।
ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु ॥०३०॥

प्रत्ययो ऽधीनशपथज्ञानविश्वासहेतुषु ।
समयाः शपथाचारकालसिद्धान्तसंविदः ॥०३१॥
मूलम्
प्रत्ययो ऽधीनशपथज्ञानविश्वासहेतुषु ।
समयाः शपथाचारकालसिद्धान्तसंविदः ॥०३१॥
विश्वास-प्रस्तुतिः
अत्ययो ऽतिक्रमे कृच्छ्रे सत्यं शपथतथ्ययोः ।
वीर्यं बलप्रभावौ च रूप्यं रूपे प्रशस्तके ॥०३२॥

दुरोदरो द्यूतकारे पणे द्यूते दुरोदरं ।
महारण्ये दुर्गपथे कान्तारः पुन्नपुंसकं ॥०३३॥

यमानिलेन्द्रचन्द्रार्कविष्णुसिंहादिके हरिः ।
दरो ऽस्त्रियां भये श्वभ्रे जठरः कठिने ऽपि च ॥०३४॥

उदारो दातृमहतोरितरस्त्वन्यनीचयोः ।
चूडा किरीटं केशाश् च संयता मौलयस्त्रयः ॥०३५॥

बलिः करोपहारादौ सैन्यस्थैर् यादिके बलं ।
स्त्रीकटीवस्त्रबन्धे ऽपि नीवी परिपणे ऽपि च ॥०३६॥

शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः ।
द्यूताक्षे सारिफलके ऽप्याकर्षो ऽथाक्षमिन्द्रिये ॥०३७॥

ना द्यूताङ्गे च कर्षे च व्यवहारे कलिद्रुमे ।
ऊष्णीषः स्यात् किरीटादौ कर्षूः कुल्याभिधायिनी ॥०३८॥

प्रत्यक्षे ऽधिकृते ऽध्यक्षः सूर्यवह्नी विभावसू ।
शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः ॥०३९॥

[[२७९]]
विश्वास-प्रस्तुतिः
तेजःपुरीषयोर्वर्च आगः पापापराधयोः ।
छन्दः पद्ये ऽभिलासे च साधीयान् साधुवाढयोः ।०४०।
व्यूहो वृन्दे ऽप्यहिर्वृत्रे ऽप्यग्नीन्द्वर्कास्तमोनुदः ॥०४०॥

{इत्य् आग्नेये महापुराणे नानार्थवर्गा नमैकषष्ट्यधिकत्रिशततमो ऽध्यायः }