{अथ षष्ट्यधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
अव्ययवर्गाः
अग्निर् उवाच
आङीषदर्थे ऽभिव्याप्तौ सीमार्थे धातुयोगजे ।
आ प्रगृह्यः स्मृतौ वाक्ये ऽप्यास्तु स्यात् कोपपीड्योः ॥००१॥
मूलम्

पापकुत्सेषदर्थे कु धिग्जुगुप्सननिन्दयोः ।
चान्वाचयसमाहारेतरेतरसमुच्चये ॥००२॥

[[२७२]]
विश्वास-प्रस्तुतिः
स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घने ऽप्यति ।
स्वित्प्रश्ने च वितर्के च तु स्याद्भेदे ऽवधारणे ॥००३॥

सकृत्सहैकवारे स्यादाराद्दूरसमीपयोः ।
प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः ॥००४॥

पुनःसदार्थयोः शश्वत् साक्षात् प्रत्यक्षतुल्ययोः ।
खेदानुकम्पासन्तोषविस्मयामन्त्रणे वत ॥००५॥

हन्त हर्षे ऽनुकम्पायां वाक्यारम्भविषादयोः ।
प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः ॥००६॥

इति हेतौ प्रकरणे प्रकाशादिसमाप्तिषु ।
प्राच्यां पुरस्तात् प्रथमे पुरार्थे ऽग्रत इत्य् अपि ॥००७॥

यावत्तावच्च साकल्ये ऽवधौ माने ऽवधारणे ।
मङ्गलानन्तरारम्भप्रश्नकार्त्स्नेष्व् अथोथ च ॥००८॥

वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः ।
नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु ॥००९॥

प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु ।
गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्व् अपि ॥०१०॥

उपमायां विकल्पे वा सामित्वर्धे जुगुप्सिते ।
अमा सह समीपे च कं वारिणि च मूर्धनि ॥०११॥

इवेत्थमर्थयोरेवं नूनं तर्के ऽर्थनिश् चये ।
तूष्णीमर्थे सुखे जोषं किम्पृच्छायां जुगुप्सने ॥०१२॥

नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने ।
अलं भूषणपर्याप्तिशक्तिवारणवाचकम् ॥०१३॥
मूलम्
नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने ।
अलं भूषणपर्याप्तिशक्तिवारणवाचकम् ॥०१३॥
[[२७३]]
विश्वास-प्रस्तुतिः
हूं वितर्के परिप्रश्ने समयान्तिकमध्ययोः ।
पुनरप्रथमे भेदे निर्निश् चयनिषेधयोः ॥०१४॥

स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा ।
उरर्युरी चोररी च विस्तारे ऽङ्गीकृते त्रयम् ॥०१५॥

स्वर्गे परे च लोके स्वर्वार्तासम्भावयोः किल ।
निषेधवाक्यालङ्कारे जिज्ञासावसरे1 खलु ॥०१६॥

समीपोभयतःशीघ्रसाकल्याभिमुखे ऽभितः ।
नामप्रकाशयोः प्रादुर्मिथो ऽन्योन्यं रहस्यपि ॥०१७॥

तिरो ऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु ।
अहहेत्यद्भुते खेदे हि हेताववधारणे ॥०१८॥

चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः ।
मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत् समाः ॥०१९॥

स्राग्झटित्यञ्चसाह्नाय सपदि द्राङ्मङ्खु च द्रुते ।
बलवत् सुष्ठु किमुत विकल्पे किं किमूत च ॥०२०॥

तु हि च स्म ह वै पादपूरणे पूजनेप्यति ।
दिवाह्नीत्यथ दोषा च नक्तञ्च रजनाविति ॥०२१॥

तिर्यगर्थे साचि तिरो ऽप्यथ सम्बोधनार्थकाः ।
स्युः प्याट्पाड्ङ्ग हे है भोः समया निकषा हिरुक् ॥०२२॥

अतर्किते तु सहसा स्यात् पुरः पुरतो ऽग्रतः ।
स्वाहा देवहविर्दाने श्रौषट् वौषट् वषट् स्वधा ॥०२३॥

:न्
[[२७४]]
विश्वास-प्रस्तुतिः
यथा तथा चैव साम्ये अहो हो इति विस्मये ॥०२४॥

मौने तु तूष्णीं तूष्णीकं सद्यः सपदि तत्क्षणे ।
दिष्ट्या शमुपयोषञ्चेत्यानन्दे ऽथान्तरे ऽन्तरा ॥०२५॥

अन्तरेण च मध्ये स्युः प्रसह्य तु हटार्थकम् ।
युक्ते द्वे साम्प्रतं स्थाने ऽभीक्ष्णं शस्वदनारते ॥०२६॥

अभावे नह्यनो नापि मास्म मालञ्च वारणे ।
पक्षान्तरे चेद्यदि च तत्त्वे त्व् अद्धाञ्जसा द्वयम् ॥०२७॥

प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते ।
समन्ततस्तु परितः सर्वतो विश्वगित्यपि ॥०२८॥

अकामानुमतौ काममसूयोपगमे ऽस्तु च ।
ननु च स्याद्विरोधोक्तौ कच्चित् कामप्रवेदने ॥०२९॥

निःषमं दुःषमं गर्ह्ये यथास्वन्तु यथायथं ।
मृषा मिथ्या च वितथे यथार्थन्तु यथातथं ॥०३०॥

स्युरेवन्तु पुनर्वैवेत्यवधारणवाचकाः ।
प्रागतीतार्थकं नूनमवश्यं निश् चये द्वयं ॥०३१॥

संवद्वर्षे ऽवरे त्वर्वागामेवं स्वयमात्मना ।
अल्पे नीचैर् महत्युच्चैः प्रायोभूम्न्य् अद्रुते शनैः ॥०३२॥

सना नित्ये वहिर्वाह्ये स्मातीते ऽस्तमदर्शने ।
अस्ति सत्त्वे रुषोक्तावूमुं प्रश्ने ऽनुनये त्वयि ॥०३३॥

हूं तर्के स्यादुषा रात्रेरवसाने नमो नतौ ।
पुनरर्थे ऽङ्गनिन्दायां दुष्ठु सुष्ठु प्रशंसने ॥०३४॥

सायं साये प्रगे प्रातः प्रभाते निकषान्तिके ।
परुत्परार्यैसमो ऽब्दे पूर्वे पूर्वतरे यति ॥०३५॥

[[२७५]]
विश्वास-प्रस्तुतिः
अद्यात्राह्न्य् अथ पूर्वेह्नीत्यादौ पूर्वोत्तरा परात् ।
तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः ॥०३६॥

उभयद्युश्चोभयेद्युः परे त्वह्नि परेद्यपि ।
ह्यो गते ऽनागते ऽह्नि श्वः परश्वः श्वःपरे ऽहनि ॥०३७॥

तदा तदानीं युगपदेकदा सर्वदा सदा ।
एतर्हि सम्प्रतीदानीमधुना साम्प्रतन्तथा ॥०३८॥

{इत्य् आग्नेये महापुराणे अव्ययवर्गा नाम षष्ट्यधिकत्रिशततमो ऽध्यायः }