{अथाषटपञ्चाशदधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
कृत्सिद्धरूपम्
कुमार उवाच
कृतस्त्रिष्वपि विज्ञेया भावे कर्मणि कर्तरि ।
अज्ल्युट् क्तिन् घञो भावे युजकारत एव च ॥००१॥
मूलम्

अचि धर्मस्य विनय उत्करः प्रकरस् तथा ।
देवो भद्रः श्रीकरश् च ल्पुटि रूपन्तु शोभनम् ॥००२॥

क्तिनि वृद्धिस्तुतिमती घञि भावो ऽथ युच्यपि ।
कारणा भावनेत्यादि अकारे च चिकित्सया ॥००३॥

तथा तव्यो ह्य् अनीयश् च कर्तव्यं कर्णीयकम् ।
देयं ध्येयञ्चैव यति ण्यति कार्यञ्च कृत्यकाः ॥००४॥

कर्तरि क्तादयो ज्ञेया भावे कर्मणि च क्वचित् ।
गतो ग्रामं गतो ग्राम आश्लिष्टश् च गुरुस्त्वया ॥००५॥

शतृङ् शानचौ भवन् एधमानो भवन्त्यपि ।
वुण् तृचौ सर्वधातुभ्यो भावको भविता पथा ॥००६॥

क्विबन्तश् च स्वयम्भूश् च भूते लिटः क्वन्सु कान च ।
बभूविवान् पेचिवांश् च पेचानः श्रद्दधानकः ॥००७॥

अणि स्युः कुम्भकाराद्या भूतेप्युणादयः स्मृताः ।
वायुः पायुश् च कारुः स्याद्वहुलं छन्दसीरितं ॥००८॥

{इत्य् आग्नेये महापुराणे व्याकरणे कृत्सिद्धरूपं नामाष्टपञ्चाशदधिकत्रिशततमो ऽध्यायः }
[[२६३]]