{अथ सप्तपञ्चाशदधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
तिङ्विभक्तिसिद्धरूपं
कुमार उवाच
तिङ्विभक्तिं प्रवक्ष्यामि तथादेशं समासतः ।
तिङ्स्त्रिष्वपि वर्तन्ते भावे कर्मणि कर्तरि ॥००१॥
मूलम्

सकर्मकार्मकाच्च कर्तरि द्विपदे स्मृताः ।
सकर्मकाकर्मणि च तदादेशस्तथेरितः ॥००२॥

वर्तमाने लडाख्यातो विध्याद्यर्थे लिङीरितः ।
विध्यादौ लोडाशिषि च भूतानद्यतने च लङ् ॥००३॥

भूते लुङ्लिट् परोक्षे ऽथ भाविन्यद्यतने च लुट् ।
लिङाशिषि च शेषे ऽर्थे लड्भविष्यति ऌङ्भवेत् ॥००४॥

लिङ्निमिमित्ते क्रियातिपत्तौ परे नवात्मनेपदम् ।
पूर्वं नव परस्मैपदन्तिप्तसन्तीति प्रथमः पुमान ॥००५॥

सिप्थस्थ मध्यमनरो मिप्वस्मस्चोत्तमः पुमान् ।
त आतां अन्तात्मने मुख्यः थासाथां ध्वञ्च मध्यमः ॥००६॥

उत्तम इ वहि महि भूवाद्या धातवः स्मृताः ।
भुविरेधिः पचिर्नन्दिर्ध्वंसिः श्रंसिः पदिस्त्वदिः ॥००७॥

शीङः क्रीडो जुहोतिश् च जहातिश् च दधात्यपि ।
दीव्यतिः स्वपितिर्नहिः सुनोतिर्वसिरेव च ॥००८॥

तुदिर्मृशतिर्मुञ्चतिः रुधिर्भुजिस्त्यजिस्तनिः ।
शवादिके विकरणे मनिश् चैव करोत्यपि ॥००९॥

[[२६०]]
विश्वास-प्रस्तुतिः
क्रीड्तिर्वृङो ग्रहिश्चोरिः पा नीरर्चिश् च नायकाः ।
भुवि स्यात् तिङ् भवति सः भवतस्तौ भवन्ति ते ॥०१०॥

भवसि त्वं युवां भवथो यूयं भवथ चाप्यहं ।
भवाम्यावां भवावश् च भवामो ह्य् एधते कुलं ॥०११॥

एधेते द्वे तथैधन्ते एधसे त्वं हि मेधया ।
एधेथे च समेधध्वे एधे ह्य् एधावहे धिया ॥०१२॥

एधामहे हरेर्भक्त्या पचतीत्यादि पूर्ववत् ।
भूयते ऽनुभूयते ऽसौ भावे कर्मणि वै यकि ॥०१३॥

वुभूषति समीत्येवं णिचि भावयतीश्वरं ।
यङि वोभूयते वाद्यं वोभोतेइ स्याच्च यङ्लुकि ॥०१४॥

पुत्रीयति पुत्रकाम्यत्येवं पटपटायते ।
घटयत्य् अथ सनि णिचि बुभूषयति रूपकं ॥०१५॥

भवेद्भवेताञ्च लिङि भवेयुश् च भवेः परे ।
भवेतञ्च भवेतैवं भवेयञ्च भवेव च भवेम च ॥०१६॥

एधेत एधेयातामेधेरन् मनसा श्रिया ।
एधेथाश् च एधेयाथामेधेध्वमेधेय एधेवहि एधेमहि ॥०१७॥

अस्तु तावद्भवताम् लोटि भवन्तु भवताद्भव ।
भवतं भवत भवानि भवाव च भवाम च ॥०१८॥

एधतामेधेतामेधन्तामेधै पचावहै पचामहै ।
अभ्यनन्ददपचतामचन्नपचस् तथा ॥०१९॥
मूलम्
एधतामेधेतामेधन्तामेधै पचावहै पचामहै ।
अभ्यनन्ददपचतामचन्नपचस् तथा ॥०१९॥
विश्वास-प्रस्तुतिः
अभवतमभवतापचमपचावापचाम च ।
ऐधतैर्धेतामैधध्वं ऐधे चैधामहीरितं(?) ॥०२०॥

[[२६१]]
विश्वास-प्रस्तुतिः
ऐधिष्टैधिसातां नरावैधिष्ठा एइधिषीदृशं ॥०२१॥

लिटि बभूव बभूवतुः बभूवुश् च बव्हूविथ ।
बभूवथुर्वभूव च बभूविव बभूविम ॥०२२॥
मूलम्
लिटि बभूव बभूवतुः बभूवुश् च बव्हूविथ ।
बभूवथुर्वभूव च बभूविव बभूविम ॥०२२॥
विश्वास-प्रस्तुतिः
पेचे पेचाते पेचिरे त्वमेधाञ्चकृषे तथा ।
एधाञ्चक्राथे पेचिध्वे पेचे पेचिमहे तथा ॥०२३॥

लुटि भविता भवितारौ भवितारो हरादयः ।
भवितासि भवितास्थो भवितास्मस् तथा वयं ॥०२४॥

पक्ता पक्तारौ पक्तारः पक्तासे त्वं शुभौदनं ।
पक्ताध्वे पक्ताहे चाहं पक्तास्महे हरेश् चरुं ॥०२५॥

लिङाशिषि सुखं भूयात् भूयास्तां हरिशङ्करौ ।
भूयासुस्ते च भूयास्त्वं युवां भूयास्तमीश्वरौ ॥०२६॥

भूयास्त यूयं भूयासमहं भूयास्म सर्वदा ।
यक्षीष्ट ह्य् एधिषीयास्तां यक्षीरन्नेधिसीय च ॥०२७॥

यक्षीवह्येधिसीमहि लिङि चायक्ष्यतेति ऌङ् ।
अयक्ष्येतामयक्ष्यन्तायक्ष्ये ऽयक्ष्येथां युवां ॥०२८॥

अयक्ष्यध्वमैधिष्यावह्यैधिष्यामह्यरेर्वयम् ।
ऌटि स्याद्भविष्यतीति एधिष्यामह ईदृशम् ॥०२९॥

एवं विभावयिष्यन्ति बोभविष्यति रूपकं ।
घटयेत् पटयेत्तद्वत् पुत्रीयति च काम्यति ॥०३०॥

{इत्य् आग्नेये महापुराणे व्याकरणे तिङ्सिद्धरूपं नाम सप्तपञ्चाशदधिकत्रिशततमो ऽध्यायः }
[[२६२]]