{अथ षट्पञ्चाशदधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
उणादिसिद्धरूपम्
कुमार उवाच
उणादयो ऽभिधास्यन्ते प्रत्यया धातुतः परे ।
उणि कारुश् च शिल्पी स्यात् जायुर्मायुश् च पित्तकं ॥००१॥
मूलम्

:न्
पाठो ऽयम्, एतत्पाठस्थलाभिसिक्तपाठान्तरञ्च न सम्यक्
प्रतिभाति
[[२५८]]
विश्वास-प्रस्तुतिः
आयुः स्वादुश् च हेत्वाद्याः किंशारुर्धान्यशूककः ॥००२॥

कृकवाकुः कुक्कुटः स्याद् गुरुर्भर्ता मरुस् तथा ।
शयुश्चाजगरो ज्ञेयः स हरायुधमुच्यते ॥००३॥

स्वरुर्वञ्ज्ञं त्रपुरुसि समसारं फल्गुरीरितं ।
गृध्नश् च क्रनि किरचि मन्दिरं तिमिरं तमः ॥००४॥

इलचि सलिलं वारि कल्याणं भण्डिलं स्मृतं ।
बुधो विद्वान् क्वसौ स्याच्च शिविरं गुप्तसंस्थितिः ॥००५॥

ओतुर्विडालश् च तुनि अभिधानादुगादयः ।
कर्णः कामी च गृहभूर्वास्तुर्जैवातृकः स्मृतः ॥००६॥

अनड्वान् वहतेर्विनि स्याज्जातौ जीवार्णवौषधं ।
नौ वह्निरिननि हरिणः मृगः कामी च भाजनम्1 ॥००७॥

कम्बोजो भाजनम्भाण्डं सरण्डश् च चतुष्पदः ।
तरुरेरण्डः सङ्घातो वरूडः साम निर्भरं ॥००८॥

स्फारं प्रभूतं स्यान्नान्तप्रत्यये चीरवल्कलं ।
कातरो भीरुरुग्रस्तु प्रचण्डो जवसं तृणं ॥००९॥

जगच्चैव तु भूर्लोको कृशानुर्ज्योतिरर्ककः ।
वर्वरः कुटिलो धूर्तश् चत्वरञ्च चतुष्पथं ॥०१०॥

चीवरं भिक्षुप्रावृत्तिरादित्यो मित्र ईरितः ।
पुत्र सूनुः पिता तातः पृदाकुर्व्याघ्रवृश्चिके ।०११।
गर्तो ऽवटो ऽथ भरतो नटो ऽपरेप्युणादयः ॥०११॥

{इत्य् आग्नेये महापुराणे व्याकरणे उणादिसिद्धरूपं नाम षत्पञ्चाशटधिकत्रिशततमो ऽध्यायः }
:न्
[[२५९]]