{अथ पञ्चपञ्चाशदधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
तद्धितं
स्कन्द उवाच
तद्धितं त्रिविधं वक्ष्ये सामान्यवृत्तिरीदृशी ।
ले व्यंसलो वत्सलः स्यादिलचि स्यात्तुफेनिलं ॥००१॥
मूलम्

लोमशः शे पामनो ने इलचि स्यात्तु पिच्छिलं ।
अणि प्राज्ञ आर्चकः स्यात् दन्तादुरचि दन्तुरः ॥००२॥

[[२५५]]
विश्वास-प्रस्तुतिः
हिरण्यं ये मालवो वे वलचि स्याद्रजस्वलः ॥००३॥

इनौ धनी करी हस्ती धनिकं टिकनीरितं ।
पयस्वी विनि मायावी ऊर्णायुर्युचि ईरितं ॥००४॥

वाग्मो मिनि आलचि स्याद्वाचालश्चाटचीरितं ।
फलिनो वर्हिणः केकी वृन्दारकस् तथा कनि ॥००५॥

आलुचि शीतन्न सहते शीतालुः श्वालुरीदृशः ।
हिमालुरालुचि स्याच्च हिमं न सहते तथा ॥००६॥

रूपं वातादुलचि स्याद् वातुलश्चानपत्यके ।
वाशिष्ठः कौरवो वासः पाञ्चालः सोस्य वासकः ॥००७॥

तत्र वासो माथुरः स्याद्वेत्त्यधीते च चान्द्रकः ।
व्युत्क्रमं वेत्ति क्रमकः नरश् चक्राम कौशकः ॥००८॥

प्रियङ्गूनां भवं क्षेत्रं प्रैयङ्गवीनकं खञि ।
मौद्गीनं कौद्रवीणञ्च वैदेहश्चानपत्यके ॥००९॥

इञि दाक्षिर्दाशरथिः कचि नारायणादिकं ।
आश्वायनः स्याच्च फञि यचि गार्ग्यश् च वात्सकः ॥०१०॥

ढ्हकि स्याद्वैनतेयादिश्चाटकेरस्तथैरकि(?) ।
ढ्रकि गौधेरको रूपं गौधारश्चारकीरितं ॥०११॥

क्षत्रियो घे कुलीनः खे ण्ये कैरव्यादयः स्मृताः(?) ।
यति मूर्धन्यमुख्यादिः सुगन्धिरिति रूपकं ॥०१२॥

तारकादिभ्य इतचि नभस्तारकितादयः ।
अनङि स्याच्च कुण्डोध्नी पुष्पधन्वसुधन्वनी ॥०१३॥

चञ्चुपि वित्तवञ्चुः स्याद्वित्तमस्य च शब्दके ।
चणपि स्यात् केशचणः रूपे स्यात् पटरूपकम् ॥०१४॥

[[२५६]]
विश्वास-प्रस्तुतिः
ईयसौ च पटीयान् स्यात् तरप्यक्षतरादिकम् ।
पचतितराञ्च तरपि तमप्यटतितमामपि ॥०१५॥

मृद्वीतमा कल्पपि स्यादिन्द्रकल्पो ऽर्ककल्पकः ।
राजदेशीयो देशीये देश्ये देश्यादिरूपकम् ॥०१६॥

पटुजातीयो जातीये जानुमात्रञ्च मात्रचि ।
ऊरुद्वयसो द्वयसचि उरुदघ्नञ्च दघ्नचि ॥०१७॥

तयटि स्यात् पञ्चतयः दौवारिकष्ठकीरितं ।
सामान्यवृत्तिरुक्ताथ अव्ययाख्यश् च तद्धितः ॥०१८॥

यस्माद्यततसिलि च यत्र तत्र त्रलीरितं ।
अस्मिन् काले ह्य् अधुनास्यादिदानीञ्चैव दान्यपि ॥०१९॥

सर्वस्मिन् सर्वदा दास्यात्तस्मिन्काले र्हिलीरितं ।
तर्हि हो ऽमिन् काल इह कर्हि कस्मिंश् च कालके ॥०२०॥

यथा थालि थमि कथं पूर्वस्यान्दिशि सञ्चयेत् ।
अस्ताति चैव पूर्वस्याः पूर्वादिग्रामणीयकाः ॥०२१॥

पुरस्तात् सञ्चरेद् गच्छेत् सद्यस्तुल्ये ऽहनीरितं ।
उति पूर्वाब्दे च परुत् पूर्वतरे परार्यपि ॥०२२॥

ऐषमो ऽस्मिन् सम्बत्सरे रूपं समसि चेरितं ।
एद्यवौ परेद्यवि स्यात् परस्मिन्नहनीरितं ॥०२३॥

अद्यास्मिन्नहनि द्ये स्यात् पूर्वेद्युश् च तथैद्युसि ।
दक्षिणस्यान्दिशि वसेत् दक्षिणाद्दक्षिणाद्युभौ ॥०२४॥

उत्तरस्यान्दिशि वसेदुत्तरादुत्तराद्युभौ ।
उपरि वसेदुपरिष्टाद् भवेद्रिष्टाति ऊर्ध्वकात् ॥०२५॥

[[२५७]]
विश्वास-प्रस्तुतिः
आहौ दक्षिणाहि वसेद्द्विप्रकारं द्विधा च धा ॥०२६॥

ध्यमुञि चैकध्यं कुरु त्वं द्वैधन्धमुञि चेदृशं ।
द्वौ प्रकारौ द्विधा धाचि[^१] आसुसुरतरं यथा[^२]* ॥०२७॥

निपातास्तद्धिताः प्रोक्ताः तद्धितो भाववाचकः ।
पटोर्भावः पटुत्वन्त्वे पदुता तलिचेरितं ॥०२८॥

प्रथिमा चेमनि पृथोः सौख्यं सुखात् ष्यञीरितम् ।
स्तेयं याति च स्तेनस्य ये सख्युः सख्यमीरितं ॥०२९॥

कपेर्भावश् च कापेयं सैन्यं पथ्यं यकीरितं ।
आश्वं कौमारकं चाणि रूपं चाणि च यौवनम् ।०३०।
आचार्यकं कणि प्रोक्तमेवमन्येपि तद्धिताः ॥०३०॥

{इत्य् आग्नेये महापुराणे व्यकरणे तद्धितसिद्धरूपं नाम पञ्चपञ्चाशदधिकत्रिशततमो ऽध्यायः }