{अथ चतुःपञ्चशदधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
समासः
स्कन्द उवाच
षोढा समासं वक्ष्यामि अष्टाविंशतिधा पुनः ।
नित्यानित्यविभागेन लुग्लोपेन च द्विधा ॥००१॥
मूलम्

कुम्भकारश् च नित्यः स्याद्धेमकारादिकस् तथा ।
राज्ञः पुमान् राजपुमान् नित्यो ऽयञ्च समासकः ॥००२॥

:न्
[[२५३]]
विश्वास-प्रस्तुतिः
कष्टश्रितो लुक्समासः कण्ठेकालादिकस्त्वलुक् ।
स्यादष्टधा तत्पुरुषः प्रथमाद्यसुपा सह ॥००३॥

प्रथमातत्पुरुषो ऽयं पूर्वं कायस्य विग्रहे ।
पूर्वकायो ऽपरकायो ह्य् अधरोत्तरकायकः ॥००४॥

अर्धं कणाया अर्धकणा भिक्षातूर्यमथेदृशम् ।
आपन्नजीविकस्तद्वत् द्वितीया चाधराश्रितः ॥००५॥

वर्षम्भोग्यो वर्षभोग्यो धान्यार्थश् च तृतीयया ।
चतुर्थी स्याद्विष्णुबलिर्वृकभीतिश् च पञ्चमी ॥००६॥

राज्ञः पुमान् राजपुमान् षष्ठी वृक्षफलं तथा ।
सप्तमी चाक्षशौण्डो ऽयमहितो नञ्समासकः ॥००७॥

कर्मधारयः सप्तधा नीलोत्पलमुखाः स्मृताः ।
विशेषणपूर्वपदो विशेष्योत्तरतस् तथा ॥००८॥

वैयाकरणखमूचिः शीतोष्णं द्विपदं शुभम् ।
उपमानपूर्वपदः शङ्खपाण्डर इत्य् अपि ॥००९॥

उपमानोत्तरपदः पुरुशव्याघ्र इत्य् अपि ।
सम्भावनापूर्वपदो गुणवृद्धिरितीदृशम् ॥०१०॥

गुण इति वृद्धिर्वाच्या सुहृदेव सुवन्धुकः ।
अवधारणपूर्वपदो बहुब्रीहिश् च सप्तधा ॥०११॥

द्विपदश् च बहुव्रीहिरारूढ्भवनो नरः ।
अर्चिताशेषपूर्वोयं बह्वङ्घ्रिः परिकीर्तितः ॥०१२॥

एते विप्राश्चोपदशाः सङ्ख्योत्तरपदस्त्वयम् ।
सङ्ख्योभयपदो यद्वद्द्वित्रा द्व्येकत्रयो नरः ॥०१३॥

[[२५४]]
विश्वास-प्रस्तुतिः
व्यतिहारलक्षणार्थः केशाकेशि नखानखि ॥०१४॥

दिग्लक्ष्या स्याद्दक्षिणपूर्वा द्विगुराभाषितो द्विधा ।
एकवद्भावि द्विशृङ्गं पञ्चमूली त्वेकधा ॥०१५॥

द्वन्द्वः समासो द्विविधो हीतरेतरयोगकः ।
रुद्रविष्णू समाहारो भेरीपटहमीदृशम् ॥०१६॥

द्विधाख्यातो ऽव्ययीभावो नामपूर्वपदो यथा ।
शाकस्य मात्रा शाकप्रति यथाव्ययपूर्वकः ॥०१७॥

उपकुम्भञ्चोपरथ्यं प्राधान्येन चतुर्विधः ।
उत्तरपदार्थमुख्यो द्वन्द्वश्चोभयमुख्यकः ।०१८।
पूर्वार्थेशो ऽव्ययीभावो बहुव्रीहिश् च वाह्यगः ॥०१८॥

{इत्य् आग्नेये महापुराणे व्याकरणे समासो नाम चतुःपञ्चाशदधिकत्रिशततमो ऽध्यायः }