{अथ त्रिपञ्चाशदधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
कारकं
सुकन्द उवाच
कारकं सम्प्रवक्ष्यामि विभक्त्यर्थसमन्वितं ।
ग्रामो ऽस्ति हेमहार्केह नौमि विष्णुं श्रिया सह ॥००१॥
मूलम्

स्वतन्त्रः कर्ता विद्यान्तं कृतिनः समुपासते ।
हेतुकर्तालम्भयते हितं वै कर्मकर्तरि ॥००२॥

स्वयं भिद्येत् प्राकृतधीः स्वयञ्च छिद्यते तरुः ।
कर्ताभिहित उत्तमः कर्तानभिहितो ऽधमः ॥००३॥

कर्तानभिहितो धर्मः शिष्ये व्याख्यायते यथा ।
कर्ता पञ्चविधः प्रोक्तः कर्म सप्तविधं शृणु ॥००४॥

ईप्सितं कर्म च यथा श्रद्दधाति हरिं यतिः ।
अनीप्सितं कर्म यथा अहिं लङ्घयते भृशं ॥००५॥

नैवेप्सितं नानीप्सितं दुग्धं सम्भक्ष्यन्रजः ।
भक्ष्येद्प्यकथितं गोपालो दोग्धि गां पयः ॥००६॥

कर्तृकर्माथ गमयेच्छिष्यं ग्रामं गुरुर्यथा ।
कर्म चाभिहितं पूजा क्रियते वै श्रिये हरेः ॥००७॥

कर्मानभिहितं स्तोत्रं हरेः कुर्यात् सर्वदं ।
करणं द्विविधं प्रोक्तं वाह्यमभ्यन्तरं तथा ॥००८॥

चक्षुषा रूपं गृह्णीति वाह्यं दात्रेण तल्लुनेत् ।
सम्प्रदानं त्रिधा प्रोक्तं प्रेरकं ब्राह्मणाय गां ॥००९॥

[[२५१]]
विश्वास-प्रस्तुतिः
नरो ददापि नृपतये दासन्तदनुमन्तृकं ।
अनिराकर्तृकं भर्त्रे दद्यात् पुष्पाणि सज्जनः ॥०१०॥

अपदानं द्विधा प्रोक्तं चलमश्वात्तु धावतः ।
पतितश्चाचलं ग्रामादागच्छति स वैष्णवः ॥०११॥

चतुर्धा चाधिकरणं व्यापकन्दध्नि घृतम् ।
तिलेषु तैलं देवार्थमौपश्लेषिकमुच्यते ॥०१२॥

गृहे तिष्ठेत् कपिर्वृक्षे स्मृतं वैषयिकं यथा ।
जले मत्स्यो वने सिंहः स्मृतं सामीप्यकं यथा ॥०१३॥

गङ्गायां घो षो वसति औपचारिकमीदृशं ।
तृतीया वाथ वा षष्ठी स्मृतानभिहिते तथा ॥०१४॥

विष्णुः सम्पूज्यते लोकैर् गन्तव्यन्तेन तस्य वा ।
प्रथमाभिहितकर्तृकर्मणोः प्रणमेद्धरिम् ॥०१५॥

हेतौ तृतीया चान्नेन वसेद्वृक्षाय वै जलं ।
चतुर्थी तादर्थ्ये ऽभिहिता पञ्चमी पर्युपाङ्मुखैः ॥०१६॥

योगे वृष्टः परि ग्रामाद्देवो ऽयं बलवत् पुरा ।
पूर्वो ग्रामादृते विष्णोर्न मुक्तिरितरो हरेः ॥०१७॥

पृथग्विनाद्यैस्तृतीया पञ्चमी च तथा भवेत् ।
पृथग्ग्रामाद्विहारेण विना श्रीश् च श्रिया श्रियः ॥०१८॥

कर्मप्रवचनीयाख्यैर् द्वितीया योगतो भवेत् ।
अन्वर्जुनञ्च योद्धारो ह्य् अभितो ग्राममीरितं ॥०१९॥

नमःस्वाहास्वधास्वस्तिवषडाद्यैश् चतुर्थ्यपि ।
नमो देवाय ते स्वस्ति तुमर्थाद्भावाचिनः ॥०२०॥

[[२५२]]
विश्वास-प्रस्तुतिः
हेत्वर्थे कुत्सिते ऽङ्गे सा तृतीया च विशेषणे ॥०२१॥

पितागात्सह पुत्रेण काणो ऽक्ष्णा गदया हरिः ।
अर्थेन निवसेद्भृत्यः काले भावे च सप्तमौ ॥०२२॥

विष्णौ नते भवेन्मुक्तिर्वसन्ते स गतो हरिम् ।
नृणां स्वामी नृषु स्वामी नृणामीशः
सताम्पतिः ॥०२३॥

नृणां साक्षी नृषु साक्षी गोषु नाथो गवाम्पतिः ।
गोषु सूतो गवां सूतो राज्ञां दायादको ऽस्त्विह ॥०२४॥

अन्नस्य[^१] हेतोर्वसति षष्ठी स्मृत्यर्थकर्मणि ।
मातुः स्मरति गोप्तारं नित्यं स्यात् कर्तृकर्मणोः ।०२५।
अपां भेत्ता तव कृतिर्न निष्ठादिषु षष्ठ्यपि ॥०२५॥

{इत्य् आग्नेये महापुराणे व्याकरणे कारकं नाम त्रिपञ्चाशदधिकत्रिशततमो ऽध्यायः }