{अथ द्विपञ्चाशदधिकत्रिशततमो । अध्यायः}
विश्वास-प्रस्तुतिः
नपुंसकशब्दसिद्धरूपं
स्कन्द उवाच
नपुंसके किं के कानि किं के कानि ततो जलं ।
सर्वं सर्वे च पूर्वाद्याः सोमपं सोमपानि च ॥००१॥
मूलम्

ग्रामणि ग्रामणिनी च ग्रामणि ग्रामणीन्यपि ।
वारि वारिणी वारीणि वारिणां वारिणीदृशं ॥००२॥

शुचये शुचिने देहि मृदुने मृदवे तथा ।
त्रपु त्रपुणि त्रपुणाञ्च खलपूनि खलप्वि च ॥००३॥

कर्त्रा च कर्तृणे कर्त्रे अतिर्यतिरिणान्तथा ।
अभिन्यभिनिनी चैवे सुवचांसि सुवचांसि सुवाक्षु च ॥००४॥

यद्यत्त्विमे तत् कर्माणि इदञ्चेमे त्विमानि च ।
ईदृक्त्वदो ऽमुनी अमूनि अमुना स्यादमीषु च ॥००५॥

अहमावां वयं मां वै आबामस्मान्मया कृतं ।
आवाभ्याञ्च तथास्माभिर्मह्यमस्मभ्यमेव च ॥००६॥

मदावाभ्यां मदस्मच्च पुत्रो ऽयं मम चावयोः ।
अस्माकमपि चास्मासु त्वं युवां यूयमीजिरे ॥००७॥

त्वां युवाञ्च युष्मांश् च त्वया युष्माभिरीरितं ।
तुभ्यं युवाभ्यां युम्मभ्यं त्वत् युवाभ्याञ्च युष्मत् ॥००८॥

तव युवयोर्युष्माकं त्वयि युष्मासु भारती ।
उपलक्षणमत्रैव अज्झलन्ताश् च ते स्मृताः ॥००९॥

{इत्य् आग्नेये महापुराणे व्याकरणे नपुंसकशब्दसिद्धरूपं नाम द्विपञ्चाशदधिकत्रिशततमो ऽध्यायः }
[[२५०]]