{अथैकपञ्चाशदधिकत्रिशततमो । अध्यायः}
विश्वास-प्रस्तुतिः
स्त्रीलिङ्गशब्दसिद्धरूपम्
स्कन्द उवाच
रमा रमे रमाः शुभा रमां रमे रसास् तथा ।
रमया च रमाभ्याञ्च रमाभिः कृतमव्ययं ॥००१॥
मूलम्

रमायै च रमाभ्याश् च रमाया रमयोः शुभं ।
रमाणाञ्च रमायाञ्च रमास्वेवं कलाद्यः ॥००२॥

जरा जरसौ जर इति जरसश् च जरा जरां ।
जरसञ्च जरास्वेवं सर्वा सर्वे च सर्वया ॥००३॥

सर्वस्यै देहि सर्वस्याः सर्वस्याः सर्वस्योस् तथा ।
शेषं रमावद्रूपं स्याद् द्वे द्वे तिस्रश् च तिसृणां ॥००४॥

बुद्धीर्बुद्ध्या बुद्धये च बुद्ध्यै बुद्धेश् च हेमते ।
कविवत्स्यान्मुनीनाञ्च नदी नद्यौ नदीं नदीः ॥००५॥

नद्या नदीभिर्नद्यै च नद्याञ्चैव नदीषु च ।
कुमारी जृम्भणीत्येवं श्रीः श्रियौ च श्रियः श्रिया ॥००६॥

[[२४८]]
विश्वास-प्रस्तुतिः
श्रियै श्रिये स्त्रीं स्त्रियञ्च स्त्रीश् च स्त्रियः स्त्रिया स्त्रियै ।
स्त्रियाः स्त्रीणां स्त्रियाञ्च ग्रामण्यां धेन्वै च धेनवे ॥००७॥

जम्बूर्जम्ब्वौ च जम्बूश् च जम्बूनाञ्च फलम्पिव ।
वर्षाभ्वौ च पुनर्भ्वौ च मातॄर्वापि च गौश् च नौः ॥००८॥

वाग्वाचा वाग्भिश् च वाक्षु श्रग्भ्यां स्रजि स्त्रजोस् तथा ।
विद्वद्भ्याञ्चैव विद्वत्सु भवती स्याद् भवन्त्यपि ॥००९॥

दीव्यन्ती भाती भान्ती च तुदन्ती च तुदत्यपि ।
रुदती रुन्धती देवी गृह्नती चोर्यन्त्यपि ॥०१०॥

दृषत् दृषद्भ्यां दृषदि विशेसविदुषी कृतिः ।
समित् समिद्भ्यां समिधि सीमा सीम्नि च सीमनि ॥०११॥

दामनीभ्यां ककुद्भ्याञ्च केयमाभ्यां तथासु च ।
गीर्भ्याञ्चैव गिरा गीर्षु सुभूः सुपूः पुरा पुरि ॥०१२॥

द्यौर्द्युभ्यां दिवि द्युषु तादृश्या तादृशो दिशः ।
यादृश्यां यादृशी तद्वत् सुवचोभ्यां सुवचःस्वपि ।०१३।
असौ चामूममू चामूरमूभिरमुयामुयोः ॥०१३॥

{इत्य् आग्नेये महापुराणे व्याकरणे स्त्रीलिङ्गशब्दसिद्धरूपं नामैकपञ्चाशदधिकत्रिशततमो ऽध्यायः ॥ }
[[२४९]]