{अथ पञ्चाशदधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
सुब्विभक्तसिद्धरूपं
स्कन्द+उवाच
विभक्तिसिद्धरूपञ्च कात्यायन वदामि ते ।
द्वे विभक्ती सुप्तिङश् चय सुपः सप्त विभक्तयः ॥००१॥
मूलम्

सु+औजसिति प्रथमा अमौट्शसो द्वितीया ।
टाभ्यां भिसिति तृतीया ङेभ्याम्भ्यसश् चतुर्थ्यपि ॥००२॥

ङसिभ्याम्भ्यसः पञ्चमी स्यात्ङसोमिति षष्ठ्यपि ।
ङि+ओस्सुविति सप्तमी स्यात् स्युः प्रातिपदिकात्पराः ॥००३॥

[[२४१]]
विश्वास-प्रस्तुतिः
प्रत्येकं त्रिविधं तत् स्यात् पुमांस्त्री च नपुंसकं ॥००४॥

दर्श्यन्ते नायकास्तेषामनुक्तानाञ्च वीर्यतः ।
वृक्षः सर्वो ऽथ पूर्वश् च प्रथमश् च द्वितीयकः ॥००५॥

तृतीयः खण्डपा वह्निः सखापतिरहर्पतिः ।
पटुर्नीर्ग्रामनीन्द्रश् च खलपूर्मित्रभूः स्वभूः ॥००६॥

औश्रीः सुधीः पिता भ्राता ना कर्त क्रोष्टुनप्तृनप्तृकौ ।
सुरा रा गौस् तथा द्यौर्ग्लौः स्वरान्ताः पुंसि नायकाः ॥००७॥

सुवाक् त्वक् पृषत् सम्राट् जन्मभाक् च अवेडपि ।
आपो मरुद्भवन् दीव्यन् भवांश् च मघवान् पिवन् ॥००८॥

भगवानधवानर्वान्वह्निमत् सर्वित्सुपृत् ।
सुसीमा कुण्डी राजा च श्वा युवा मघवा तथा ॥००९॥

पूषा सुकर्मा यज्वा च सुवर्मा च सुधर्मणा ।
अर्यमा वृत्रहा पन्थाः सुककुदादिपञ्च च ॥०१०॥

प्रशान् सुतांश् च पञ्चाद्याः सुगीः सुराः सुपूरपि ।
चन्द्रमाः सुवचाः श्रेयान् विद्वांश्चेशनसा सह ॥०११॥

पेचिवान् गौरवानड्वान् गोधूङ्मित्रद्रुहौ श्वलिट् ।
स्त्रियां जाया जरा बाला एड्का सह वृद्धया ॥०१२॥

क्षत्रिया बहुराजा च बहुदा माथ बालिका ।
माया कौमुदगन्धा च सर्वा पूर्वा सहान्यया ॥०१३॥

द्वितीया च तृतीया च बुद्धिः स्त्री श्रीर् नदी सुधैः ।
भवन्ती चैव दीव्यन्ती भाती भान्ती च यान्यपि ॥०१४॥

शृण्वतौ तुदती कर्त्री तुदन्ती कुर्वती मही ।
रुन्धती क्रीड्ती दन्ती पालयन्ती सुराण्यपि ॥०१५॥

[[२४२]]
विश्वास-प्रस्तुतिः
गरुरी पुत्रवती नीश् च वधूर्देवतया भुवा ।
तिस्रो द्वे कति वर्षाभूः स्वसा माता वरा गौः ॥०१६॥

नौर्वाक्त्वक्प्राच्यवाक्षीति तिरश्ची समुदीच्यपि ।
शरद्विद्युत् सरिद्योषित् अग्निवित् सस्पदा दृशत् ॥०१७॥

यैषा सा वेदवित्संवित् बह्वी राज्ञी त्वया मया ।
सोमा पञ्चादयो राजी धूः पूश् चैव दिशा1 गिरा ॥०१८॥

चतस्रो विदुषी चैव केयं दिक् दृक्च तादृशी ।
असौ स्त्रियां नायकाश् च नायकाश् च नपुंसके ॥०१९॥

कुण्डं सर्वं सोमपञ्च दधि वारि खलप्वथ ।
मधु त्रपु कर्तृ भक्तृ अतिवक्तृ पयः पुरः ॥०२०॥

प्राक्प्रत्यक् च तिर्यगुदक् जगद् जाग्रत्तथा सकृत् ।
सुसम्पच्च सुदण्डीह अहः किञ्चेदमित्यपि ॥०२१॥

षट्सर्पिः श्रेयश् चत्वारि अदो ऽन्ये हीदृशाः परे ।
एतेभ्यः प्रथमादयश् च स्युः प्रातिपदिकात्पराः ॥०२२॥

धातुप्रत्ययहीनं यत्स्यात् प्रातिपदिकन्तु तत् ।
प्रातिपदिकात् स्वलिङ्गार्थवचने प्रथमा भवेत् ॥०२३॥

सम्बोधने च प्रथमा उक्ते कर्मणि कर्तरि ।
कर्म यत् क्रियते तत्स्यात् द्वितीया कर्मणि स्मृता ॥०२४॥

क्रियते येन करणं कर्ता यश् च करोति सः ।
अनुक्ते तिङ्कृत्तद्धितैस्तृतीया करणे भवेत् ॥०२५॥

कारके कर्तरि च सा सम्प्रदाने चतुर्थ्यपि ।
यस्मै दित्सा धारयते सम्प्रदानं तदोरितं ॥०२६॥

:न्
[[२४३]]
विश्वास-प्रस्तुतिः
अपादानं यतो ऽपैति आदत्ते च भयं यतः ।
अपादाने पञ्चमी स्यात् स्वस्वाम्यादौ च षष्ठ्यपि ॥०२७॥

आधारो यो ऽधिकरणं विभक्तिस्तत्र सप्तमी ।
एकार्थे चैकवनचं द्व्यर्थे द्विवचनं भवेत् ॥०२८॥

बहुषु बहुवचनं सिद्धरूपाण्यथो वदे ।
वृक्षः सूर्यो ऽम्बुवाहो ऽर्क हेरवे हेद्विजातयः ॥०२९॥

विप्रौ गजान्महेन्द्रेण यमाभ्यामनलैः कृतं ।
रामाय मुनिवर्याभ्यां केभ्यो धर्मात् हरौ रतिः ॥०३०॥

शराभ्यां पुस्तकेभ्यश् च अर्थस्येश्वरयोर्गतिः ।
बालानां सज्जने प्रीतिर्हंसयोः कमलेषु च ॥०३१॥

एवं काममहेशाद्याः शब्दा ज्ञेयाञ्च वृक्षवत् ।
सर्वे विश्वे च सर्वस्मै सर्वस्मात्कतरो मतः ॥०३२॥

सर्वेषां स्वञ्च विश्वस्मिन् शेषं रूपञ्च वृक्षवत् ।
एवञ्चोभयकतरकतमान्यतरादयः ॥०३३॥

पूर्वे पूर्वाश् च पूर्वस्मै पूर्वस्मात् सुसमागतः ।
पूर्वे बुद्धिश् च पूर्वस्मिन् शेषरूपन्तु सर्ववत् ॥०३४॥

एवं परावराद्याश् च दक्षिणोत्तरकान्तराः ।
अपरश्चाधरो नेमाः प्रथमाः प्रथमे ऽर्कवत् ॥०३५॥

एवं चरमायतया अल्पार्धा नेम+आदयः ।
द्वितीयस्मै द्वितीयाय द्वितीयस्मात् द्वितीयकात् ॥०३६॥

द्वितीयस्मिन् द्वितीये च तृतीयश् च तथार्कवत् ।
सोमपाः सोमपौ ज्ञेयौ सोमपाः सोमपां व्रज ॥०३७॥

[[२४४]]
विश्वास-प्रस्तुतिः
सोमपाभ्यां सोमपाभ्यः सोमपः सोमपोः कुलं ॥०३८॥

एवं कीलालपाद्याः स्युः कविरग्निस् तथारयः ।
हेकवे कविमग्नी तान् हरीन् सात्यकिना हृतं ॥०३९॥

रविभ्यां रविभिर्देहि वह्णये यः समागतः ।
अग्नेरग्न्योस् तथाग्नीनां कवौ कव्योः कविष्व् अथ ॥०४०॥

एवं सुसृतिरभ्रान्तिः सुकीर्तिः सुधृतिस् तथा ।
सखा सखायौ सखायः हेसखे व्रज सत्पतिं ॥०४१॥

सखायञ्च सखायौ च सखीन् सख्या गतो दद ।
सख्ये सख्युश् च सख्युश् च सख्योः शेषः कवेरिव ॥०४२॥

पत्या पत्ये च पत्युश् च पत्युः पत्योस् तथाग्निवत् ।
द्वौ द्वौ द्वाभ्यां द्वाभ्यां द्वित्वाद्यर्थे द्वयोर्द्वयोः ॥०४३॥

त्रयस्त्रींश् च त्रिभिस्त्रिभ्यस्त्रयाणाञ्च त्रिषु क्रमात् ।
कविवत् कतिकतीतिशेषं वहुवचनं स्मृतम् ॥०४४॥

नीर्नियौ च नियो हेनीः नियं नियो नियो निया ।
नीभ्यां नीभिर्निये नीभ्यः नियान्नियि नियोस् तथा ॥०४५॥

सुश्रीः सुधीः प्रभृतयो ग्रामणीः पूजयेद्धरिं ।
ग्रामण्यौ ग्रामण्यो ग्रामण्यं ग्रामण्या ग्रामणीभिः ॥०४६॥

ग्रामण्यो ग्रामण्यामेवं सेनानीप्रमुखाः सुभूः ।
सुभुवौ च स्वयम्भुवः स्वयम्भुञ्च स्वयम्भुवः ॥०४७॥

स्वयम्भुवा स्वयम्भुवि एवं प्रतितेभुवादयः ।
खलपूः खलप्वौ श्रेष्ठौ खलप्वञ्च खलप्वि च ॥०४८॥

एवं शरपूमुखाः स्युः क्रोष्टा क्रोष्टार ईरिताः ।
क्रोष्टूंश् च क्रोष्टुना क्रोष्ट्रा क्रोष्टूनां
क्रोष्टरीद्दृशं ॥०४९॥

[[२४५]]
विश्वास-प्रस्तुतिः
पिता पितरौ पितरः हेपितः पितरौ शुभौ ।
पितॄन् पितुः पितुः पित्रोः पितॄणां पितरीदृशं ॥०५०॥

एवं भ्राता च जामातृमुखा नॄणां नृणां तथा ।
कर्ता कर्तारौ कर्तॄंश् च कर्तॄणां कर्तरीदृशं ॥०५१॥

पितृवच्चैवमुद्गाता स्वसा नप्त्रादयः स्मृताः ।
सुराः सुरायौ सुरायः सुरायाञ्च सुराय्यपि ॥०५२॥

गौः गावौ गाङ्गा गवा च गोर्गवोश् च गवां गवि ।
एवं द्यौर्लौश्चापि तथा स्वरान्ताः पुंसि नायकाः ॥०५३॥

सुवाक् सुवाचौ सुवाचा सुवाग्भ्याञ्च सुवाक्ष्वपि ।
एवं दिक्प्रमुखाः प्राङ्च प्राञ्चौ प्राञ्चञ्च भो व्रज ॥०५४॥

प्राग्भ्यां प्राग्भिः प्राचाञ्च प्राचि च प्राङ्सु प्राङ्क्ष्वपि ।
एवं ह्य् उदङुदीची वा सम्यङ् प्रत्यक्समीच्यपि ॥०५५॥

तिर्यङ्तिरश् च सध्र्यङ् च विश्वद्र्यङ् पूर्ववत् स्मृताः ।
अदद्र्यङदमुयङ् स्यात् तथामुमुयङीरितः ॥०५६॥

अदद्र्यञ्चो ह्य् अमुद्रीचः अदद्र्यग्भ्याञ्च पूर्ववत् ।
तत्त्वतृट् तत्त्वतृषौ च तत्त्वतृङ्भ्यां समागतः ॥०५७॥

तत्त्वतृषि तत्त्वतृट्सु एवं काष्ठतडादयः ।
भिषक् भिषग्भ्यां भिषजि जन्मभागादयस् तथा ॥०५८॥

मरुत् मरुद्भ्यां मरुति एवं शुत्रुजिदादयः ।
भवान् भवन्तौ भवतां भवंश् चैव भवत्यपि ॥०५९॥

महान्महान्तौ महतामेवं भगवदादयः ।
एवं मघवान्मघवन्तौ अग्निचिच्चाग्निचित्यपि ॥०६०॥

[[२४६]]
विश्वास-प्रस्तुतिः
वेदविदामेवमन्यत् यः समस्तेन सर्ववित् ॥०६१॥

राजा राजानौ राज्ञः रज्ञि राजनि राजन् ।
यज्वा यज्वानस्तद्वत् करी दण्डी च दन्डिना ॥०६२॥

पन्थाः पन्थानौ च पथः पथिभ्यां पथि चेदृशम् ।
मन्था ऋभुक्षाः पथ्याद्याः पञ्च पञ्च च पञ्चभिः ॥०६३॥

प्रतान् प्रतानौ प्रतान्भ्यां हेप्रतांश् च सुशर्मणः ।
आपः अपः अद्भिरप्येवं प्रशांश् चैव प्रशाम्यपि ॥०६४॥

कः केन सर्ववत् केषु अयं चेमे इमान्नयः ।
अनेन चाभ्यामेभिश् च अस्मै चेभ्यः स्वमस्य च ॥०६५॥

अनयोरेषामेषु स्याच्चत्वारश् चतुर्स् तथा ।
चतुर्णाञ्च चतुर्ष्व् अस्ति सुगीः श्रेष्ठः सुगिर्यपि ॥०६६॥

सुद्यौः सुदिवौ सुद्युभ्यां दिड्विषौ विट्सु यादृशः ।
यादृग्भ्याञ्चैव विड्भ्याञ्च षट् षट् षणाञ्च
षट्स्वपि ॥०६७॥

सुवचाः सुवचसा च सुवचोभ्यामथेदृशम् ।
हे सुवचो हे उशनन् उशना वोशनस्यपि ॥०६८॥
मूलम्
सुवचाः सुवचसा च सुवचोभ्यामथेदृशम् ।
हे सुवचो हे उशनन् उशना वोशनस्यपि ॥०६८॥
विश्वास-प्रस्तुतिः
पुरदंशा अनेहा हेविद्वन् विद्वाम्स उत्तमाः ।
विदुषे नमो विद्वद्भ्यां विद्वत्सु च वभूविवान् ॥०६९॥

एवञ्च पेचिवान् श्रेयान् श्रेयांसौ श्रेयसस् तथा ।
असौ अमू अमी श्रेष्ठा अमुं अमूनिहामुना ॥०७०॥

अमीभिरमुस्मै वामुस्मादमुस्य वामुयोस् तथा ।
अमीषाममुस्मिन्नित्येवं गोधुक् गोधुग्भिरागतः ॥०७१॥

गोधुक्ष्वित्येवमन्येपि मित्रद्रुहो मित्रदुहा ।
मित्रध्रुग्भ्यां मित्रध्रुग्भरेवं चित्तद्रुहादयः ॥०७२॥

[[२४७]]
विश्वास-प्रस्तुतिः
स्वलिट् स्वलिड्भ्यां स्वलिहि अनड्वाननडुत्सु च ।
अजन्ताश् च हलन्ताश् च पुंस्यथो ऽथ स्त्रियां वदे ॥०७३॥

{इत्य् आग्नेये महापुराणे व्यकरणे पुंलिङ्गशब्दसिद्धरूपं नाम पञ्चाशदधिकत्रिशततमो ऽध्यायः }