३४९ सन्धिसिद्धरूपं

{अथोनपञ्चाशदधिकत्रिशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

सन्धिसिद्धरूपं

स्कन्द+उवाच
वक्ष्ये सन्धिसिद्धरूपं स्वरसन्धिमथादितः ।
दण्डाग्रमं सागता दधीदं नदीहते मधूदकं ॥००१॥

मूलम्

पितृषभः ॡकारश् च तवेदं सकलोदकं ।
अर्धर्चो ऽयं तवल्कारः सैषा सैन्द्री तवौदनम् ॥००२॥

खट्टौघो ऽभवदित्येवं व्यसुधीर्वस्वलङ्कृतं ।
पित्रर्थोपवनं दात्री नायको लावको नयः ॥००३॥

त+इह तयिहेत्यादि ते ऽत्र यो ऽत्र जले ऽकजं ।
प्रकृतिर्नो अहो एहि अ अवेहि इ इन्द्रकं ॥००४॥

उ उत्तिष्ठ कवी एतौ वायु एतौ वने इमे ।
अमी एते यज्ञभूते एहि देव इमन्नय ॥००५॥

मूलम्

उ उत्तिष्ठ कवी एतौ वायु एतौ वने इमे ।
अमी एते यज्ञभूते एहि देव इमन्नय ॥००५॥

विश्वास-प्रस्तुतिः

वक्ष्ये सन्धिं व्यञ्जनाणां वाग्यतो ऽजेकमातृकः ।
षडेते तदिमे वादिवाङ्नीतिः षण्मुखादिकम् ॥००६॥

वाङ्मनसं वग्भावादिर्वाक् श्लक्ष्णं तच्छरीरकं ।
तल्लु नाति तच्चरेच्च क्रुङ्ङास्ते च सुगणिह ॥००७॥

भवांश् चरन् भवांश्छात्रो भवांष्टीका
भवांष्ठकः ।
भवांस्तीर्थं भवांस्थेयात् भवांल्लेखा भवाञ्जयः ॥००८॥

भवाञ्छेते भवाञ्चशेते भवाञ्शेते भवाण्डीनः ।
स्वम्भर्ता त्वङ्करोष्यादिः सन्धिर्ज्ञेयो विसर्गजः ॥००९॥

[[२४०]]

विश्वास-प्रस्तुतिः

कश्छिन्द्यात् कश् चरेत् कष्टः कष्ठः कस्थश् च कश् चलेत् ।
क ॥ खनेत् क ॥ करोति स्म क ,, पठेत् क ,, वा ॥०१०॥

कश्श्वशुरः कःश्वशुरः कस्सावरः कःसावरः ।
कः फलेत कः शयिता को ऽत्र योधः क उत्तमः ॥०११॥

देवा एते भो इह सोदरा यान्ति भगो व्रज ।
सुपूः सुदूरात्रिरत्र वायुर्याति पुनर्न हि ॥०१२॥

पुनरेति स यातीह एष याति क ईश्वरः ।
ज्योतीरूपं तवच्छत्रं म्लेच्छधीश्छिद्रमच्छिदत् ॥०१३॥

{इत्य् आग्नेये महापुराणे व्याकरणे सन्धिसिद्धरूपं नामोनपञ्चाशदधिकत्रिशततमो ऽध्यायः }