{अथ अधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
एकाक्षराभिधानं
अग्निर् उवाच
एकाक्षराभिधनञ्च मातृकान्तं वदामि ते ।
अ विष्णुः प्रतिषेधः स्यादा पितामहवाक्ययोः ॥००१॥
मूलम्

सीमायामथाव्ययं आ भवेत्सङ्क्रोधपीडयोः ।
इः कामे रतिलक्ष्म्योरी उः शिवे रक्षकाद्य ऊः1 ॥००२॥

ऋ शब्दे चादितौ ऋस्यात् ऌ ॡ ते वै दितौ गुहे ।
ए देवी ऐ योगिनी स्यादो ब्रह्मा औ महेश्वरः ॥००३॥

अङ्कामः अः प्रशस्तः स्यात्2 को ब्रह्मादौ कु कुत्सिते ।
खं शून्येन्द्रियं खङ्गो गन्धर्वे च विनायके ॥००४॥

गङ्गीते गो गायने स्यद् घो घण्टा किङ्किणीमुखे ।
ताडने ङश् च विषये स्पृहायाञ्चैव भैरवे ॥००५॥

चो दुर्जने निर्मले छश्छेदे जिर्जयने तथा ।
जं गीते झः प्रशस्ते स्याद्बले3 ञो गायने च टः ॥००६॥

ठश् चन्द्रमण्डले शून्ये शिवे चोद्बन्धने मतः ।
डश् च रुद्रे ध्वनौ त्रासे ढक्वायां ढो ध्वनौ मतः ॥००७॥

णो निष्कर्षे निश् चये च तश् चौरे क्रोडपुच्छके ।
भक्षणे थश्छेदने दो धारणे शोभने मतः ॥००८॥

:न्
[[२३६]]
विश्वास-प्रस्तुतिः
धो धातरि चधूस्तूरे नो वृन्दे सुगते तथा ।
प उपवने विख्यातः फश् च झञ्झानिले मतः ॥००९॥

फुः फुत्कारे निष्फले च विः पक्षी भञ्च तारके ।
मा श्रीर्मानञ्च माता स्याद्याग यो यातृवीरणे ॥०१०॥

रो बह्नौ च लः शक्रे च लो विधातरि ईरितः ।
विश्लेषणे वो वरुणे शयने शश् च शं सुखे ॥०११॥

षः श्रेष्ठे सः परोक्षे च सालक्ष्मीः सं कचे
मतः ।
धारणे हस् तथा रुद्रे क्षः क्षत्त्रे चाक्षरे मतः ॥०१२॥

क्षो नृसिंहे हरौ तद्वत् क्षेत्रपालकयोरपि ।
मन्त्र एकाक्षरो देवो भुक्तिमुक्तिप्रदायकः ॥०१३॥

हैहयशिरसे नमः सर्वविद्याप्रदो मनुः ।
अकाराद्यास् तथा मन्त्रा मातृकामन्त्र उत्तमः ॥०१४॥

एकपद्मे ऽर्चयेदेतान्नव दुर्गाश् च पूजयेत् ।
भगवती कात्यायनी कौशिकी चाथ चण्डिका ॥०१५॥

प्रचण्डा सुरनायिका उग्रा पार्वती दुर्गया ।
ॐ चण्डिकायै विद्महे भगवत्यै धीमहि तन्नो दुर्गा
प्रचोदयात्
क्रमादि तु षडङ्गं स्याद्गणो गुरुर्गुरुः क्रमात् ॥०१६॥

अजितापराजिता चाथ जया च विजया ततः ।
कात्यायनी भद्रकाली मङ्गला सिद्धिरेवती ॥०१७॥

सिद्धादिवटुकाः पूज्या हेतुकश् च कपालिकः ।
एकपादो भीमरूपो दिक्पालान्मध्यतो नव ॥०१८॥

ह्रीं दुर्गे दुर्गे रक्षणि स्वाहामन्त्रार्थसिद्धये ।
गौरी पूज्या च धर्माद्याः स्कन्दाद्याः शक्तयो यजेत् ॥०१९॥

[[२३७]]
विश्वास-प्रस्तुतिः
प्रज्ञा ज्ञाना क्रिया वाचा वागीशी ज्वालिनी तथा ।
कामिनी काममाला च इन्द्राद्याः शक्तिपूजनं ॥०२०॥

ओङ्गं स्वाहा मूलमन्त्रो ऽयं गं वा गणपतये नमः ।
षडङ्गो रक्तशुक्लश् च दन्ताक्षपरशूतकटः ॥०२१॥

समोदको ऽथ1 गन्धादिगन्धोल्कायेति च क्रमात् ।
गजो महागणपतिर्महोल्कः पूज्य एव च ॥०२२॥

कुष्माण्डाय एकदन्तत्रिपुरान्तकाय
श्यामदन्तविकटहरहासाय
लम्बनाशाननाय पद्मदंष्ट्राय मेघोल्काय धूमोल्काय
विश्वास-प्रस्तुतिः
वक्रतुण्दाय विघ्नेश्वराय विकटोत्कटाय गजेन्द्रगमनाय
भुजगेन्द्रहाराय शशाङ्कधराय गणाधिपतये स्वाहा
एतैर् मनुभिः स्वाहान्तैः पूज्य तिलहोमादिनार्थभाक् ।
काद्यैर् वा वीजसंयुक्तैस्तैर् आद्यैश् च नमो ऽन्तकैः ॥०२३॥

मन्त्राः पृथक् पृथग्वा स्युर्द्विरेफद्विर्मुखाक्षिणः2* ।
कात्यायनं अकन्द आह यत्तद्व्याकरणं वदे ॥०२४॥

{इत्य् आग्नेये महापुराणे एकाक्षराभिधानं नाम सप्तचत्वारिंशदधिकत्रिशततमो ऽध्यायः }
:न्
समे देशे ऽथेति ज॥
द्विरेफद्विर्मूखाक्षिण इत्य् अयं पाथ आदर्शदोषेण
समीचीनो भवितुं नार्हति
[[२३८]]