{अथ षट्चत्वारिंशदधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
काव्यदोषविवेकः
अग्निर् उवाच
उद्वेगजनको दोषः सभ्यानां स च सप्तधा ।
वक्तृवाचकवाच्यानामेकद्वित्रिनियोगतः ॥००१॥
मूलम्

तत्र वक्ता कविर्नाम प्रथते स च भेदतः ।
सन्दिहानो ऽविनीतः सन्नज्ञो ज्ञाता चतुर्विधः ॥००२॥

निमित्तपरिभाषाभ्यामर्थसंस्पर्शिवाचकम् ।
तद्भेदो पदवाक्ये द्वे कथितं लक्षणं द्वयोः ॥००३॥

असाधुत्वाप्रयुक्त्वे द्वावेव पदनिग्रहौ ।
शब्दशास्त्रविरुद्धत्वमसाधुत्वं विदुर्बुधाः ॥००४॥

व्युत्पन्नैर् अनिबद्वत्वमप्रयुक्तत्वमुच्यते ।
छान्दसत्वमविस्पष्टत्वञ्च कष्टत्वमेव च ॥००५॥

तदसामयिकत्वञ्च ग्राम्यत्वञ्चेति पञ्चधा ।
छान्दसत्वं न भाषायामविस्पष्टमबोधतः ॥००६॥

गूडार्थता विपर्यस्तार्थता संशयितार्थता ।
अविष्पष्टार्थता भेदास्तत्र गूढार्थतेति सा ॥००७॥

यत्रार्थो दुःखसवेद्यो विपर्यस्तार्थता पुनः ।
विवक्षितान्यशब्दार्थप्रतिपातिर्मलीमसा1 ॥००८॥

:न्
[[२३२]]
विश्वास-प्रस्तुतिः
सन्दिह्यमानवाच्यत्वमाहुः संशयितार्थतां ॥००९॥

दोषत्वमनुबध्नाति सज्जनोद्वेजनादृते ।
असुखोच्चार्यमाणत्वं कष्टत्वं समयाच्युतिः ॥०१०॥

असामयिकता नेयामेताञ्च मुनयो जगुः ।
ग्राम्यता तु जघन्यार्थप्रतिपातिः खलीकृता ॥०११॥

वक्तव्यग्राम्यवाच्यस्य वचनात्स्मरणादपि ।
तद्वाचकपदेनाभिसाम्याद्भवति सा त्रिधा ॥०१२॥

दोषः साधारणः प्रातिस्विको ऽर्थस्य स तु द्विधा ।
अनेकभागुपालम्भः साधारण इति स्मृतः ॥०१३॥

क्रियाकारकयोर्भ्रंशो विसन्धिः पुनरुक्ता ।
व्यस्तसम्बन्धता चेति पञ्च साधारणा मताः1 ॥०१४॥

अक्रियत्वं क्रियाभ्रंशो भ्रष्टकारकता पुनः ।
कर्त्र्यादिकारकाभावो विसन्धिःसन्धिदूषणम् ॥०१५॥

विगतो वा विरुद्धो वा सन्धिः स भवति द्विधा ।
सन्धेर्विरुद्धता कष्टपादादर्थान्तरागमात्2 ॥०१६॥

पुनरुक्तत्वमाभीक्ष्ण्यादभिधानं द्विधैव तत् ।
अर्थावृत्तिः पदावृत्तिरर्थावृत्तिरपि द्विधा ॥०१७॥

प्रयुक्तवरशब्देन3 तथा शब्दान्तरेण च ।
नावर्तते पदावृत्तौ वाच्यमावर्तते पदम् ॥०१८॥

व्यस्तसम्बन्धता सुष्ठुसम्बन्धो व्यवधानतः ।
सम्बन्धान्तरनिर्भाषात् सम्बन्धान्तरजन्मनः ॥०१९॥

[[२३३]]
विश्वास-प्रस्तुतिः
अभावेपि तयोरन्तर्व्यवधानास्त्रिधैव सा ।
अन्तरा पदवाक्याभ्यां प्रतिभेदं पुनर्द्विधा ॥०२०॥

वाच्यमर्थार्थ्यमानत्वात्तद्द्विधा पदवाक्ययोः ।
व्युत्पादितपूर्ववाच्यं व्युत्पाद्यञ्चेति भिद्यते ॥०२१॥

इष्टव्याघातकारित्वं हेतोः स्यादसमर्थता ।
असिद्धत्वं विरुद्धत्वमनैकान्तिकता तथा ॥०२२॥

एवं सत्प्रतिपक्षत्वं कालातीतत्वसङ्करः ।
पक्षे सपक्षेनास्तितत्वं विपक्षे ऽस्तित्वमेव तत् ॥०२३॥

काव्येषु परिषद्यानां न भवेदप्यरुन्तुदम् ।
एकादशनिरर्थत्वं1 दुष्करादौ न दुष्यति ॥०२४॥

दुःखीकरोति दोषज्ञान्गूढार्थत्वं न दुष्करे ।
न ग्राम्यतोद्वेगकारी प्रसिद्धेर् लोकशास्त्रयोः ॥०२५॥

क्रियाभ्रंशेन लक्ष्मास्ति क्रियाध्याहारयोगतः ।
भ्रष्टकारकताक्षेपबलाध्याहृतकारके ॥०२६॥

प्रगृह्ये गृह्यते नैव क्षतं विगतसन्धिना ।
कष्टपाठाद्विसन्धित्वं दुर्वचादौ न दुर्भगम् ॥०२७॥

अनुप्रासे पदावृत्तिर्व्यस्तसम्बन्धता शुभा ।
नार्थसङ्ग्रहणे दोषो व्युत्क्रमाद्यैर् न लिप्यते ॥०२८॥

विभक्तिसञ्ज्ञालिङ्गानां यत्रोद्वेगो न धीमतां ।
सङ्ख्यायास्तत्र भिन्नत्वमुपमानोपमेययोः ॥०२९॥

अनेकस्य तथैकेन बहूनां बहुभिः शुभा ।
कवीमां समुदाचारः समयो नाम गीयते ॥०३०॥
मूलम्
अनेकस्य तथैकेन बहूनां बहुभिः शुभा ।
कवीमां समुदाचारः समयो नाम गीयते ॥०३०॥
:न्
[[२३४]]
विश्वास-प्रस्तुतिः
समान्यश् च विशिष्टश् च धर्मवद्भवति द्विधा ।
सिद्धसैद्धान्तिकानाञ्च कवीनाञ्चाविवादतः ॥०३१॥

यः प्रसिध्यति सामान्य इत्य् असौ समयो मतः ।
सर्वेसिद्धान्तिका येन सञ्चरन्ति निरत्ययं ॥०३२॥

कियन्त एव वा येन सामान्यस्तेन सद्विधा ।
छेदसिद्धन्ततो ऽन्यः स्यात् केषाञ्चिद्भ्रान्तितो यथा ॥०३३॥

तर्कज्ञानं मुनेः कस्य कस्यचित् क्षणभङ्गिका ।
भूतचैतन्यता कस्य ज्ञानस्य सुप्रकाशता ॥०३४॥

प्रज्ञातस्थूलताशब्दानेकान्तत्वं तथार्हतः ।
शैववैष्णवशाक्तेयसौरसिद्धान्तिनां मतिः ॥०३५॥

जगतः कारणं ब्रह्म साङ्ख्यानां सप्रधानकं ।
अस्मिन् सरस्वतीलोके सञ्चरन्तः परस्परम् ॥०३६॥

बध्नन्ति व्यतिपश्यन्तो यद्विशिष्टैः स उच्यते ।
परिग्रहादप्यसतां सतामेवापरिग्रहात् ॥०३७॥

भिद्यमानस्य तस्यायं द्वैविध्यमुपगीयते ।
प्रत्यक्षादिप्रमाणैर् यद् बाधितं तदसद्विदुः ॥०३८॥

कविभिस्तत् प्रतिग्राह्यं ज्ञानस्य द्योतमानता ।
यदेवार्थक्रियाकारि तदेव परमार्थसत् ॥०३९॥

अज्ञानाज्ज्ञानतस्त्वेकं ब्रह्मैव परमार्थसत् ।
विष्णुः स्वर्गादिहेतुः स शब्दालङ्काररूपवान् ।०४०।
अपरा च परा विद्या तां ज्ञात्वा मुच्यते भवात् ॥०४०॥

{इत्य् आग्नेये महापुराणे अलङ्कारे काव्यदोषविवेको नाम षट्चत्वारिंशदधिकत्रिशततमो ऽध्यायः }
[[२३५]]