३४५ काव्यगुणविवेकः

{अथ पञ्चचत्वारिंशदधिकत्रिशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

काव्यगुणविवेकः

अग्निर् उवाच
अलङ्कृतमपि प्रीत्यै न काव्यं निर्गुणं भवेत् ।
वपुष्यललिते स्त्रीणां हारो भारायते परं ॥००१॥

मूलम्

न च वाच्यं गुणो दोषो भाव एव भविष्यति ।
गुणाः श्लेषादयो दोषा गूडार्थाद्याः पृथक्
कृताः ॥००२॥

यः काव्ये महतीं छायामनुगृह्णात्यसौ गुणैः ।
सम्भवत्येष सामान्यो वैशेषिक इति द्विधा ॥००३॥

सर्वसाधारणीभूतः सामन्य इति मन्यते ।
शब्दमर्थमुभौ प्राप्तः सामान्यो भवति त्रिधा ॥००४॥

शब्दमाश्रयते काव्यं शरीरं यः स तद्गुणः ।

[[२२९]]

विश्वास-प्रस्तुतिः

श्लोषो लालित्यागाम्भीर्यसौकुमार्यमुदारता ॥००५॥

सत्येव यौगिकी चेति गुणाः शब्दस्य सप्तधा ।
सुश्लिष्टसन्निवेशत्वं शब्दानां श्लेष उच्यते ॥००६॥

गुणादेशादिना पूर्वं पदसम्बद्धमक्षरं ।
यत्रसन्धीयते नैव तल्लालित्यमुदाहृतं ॥००७॥

विशिष्टलक्षणोल्लेखलेख्यमुत्तानशब्दकम् ।
गाम्भीर्यं कथयन्त्यार्यास्तदेवान्येषु शब्दतां ॥००८॥

अनिष्ठुराक्षरप्रायशब्दता सुकुमारता ।
उत्तानपदतौदर्ययुतश्लाघ्यैर् विशेषणैः ॥००९॥

ओजः समासभूयस्त्वमेतत्पद्यादिजीवितं ।
आब्रह्म स्तम्भपर्यन्तमोजसैकेन पौरुषं ॥०१०॥

उच्यमानस्य शब्देन येन केनापि वस्तुनः ।
उत्कर्षमावहन्नर्थो गुण इत्य् अभिधीयते ॥०११॥

माधुर्यं सम्बिधानञ्च कोमलत्वमुदारता ।
प्रौढिः सामयिकत्वञ्च तद्भेदाः षट्चकाशति ॥०१२॥

क्रोधेर्ष्याकारगाम्भीर्यात्माधुर्यं धैर्यगाहिता ।
सम्बिधानं परिकरः स्यादपेक्षितसिद्धये ॥०१३॥

यत्काठिन्यादिनिर्मुक्तसन्निवेशविशिष्टता ।
तिरस्कृत्यैव मृदुता भाति कोमलतेति सा ॥०१४॥

लक्ष्यते स्थूललक्षत्वप्रवृत्तेर्यत्र लक्षणम् ।
गुणस्य तदुदारत्वमाशयस्यातिसौष्ठवं ॥०१५॥

अभिप्रेतं प्रति यतो निर्वाहस्योपपादिकाः ।
युक्तयो हेतुगर्भिण्यः प्रौढाप्रौढिरुदाहृता ॥०१६॥

[[२३०]]

विश्वास-प्रस्तुतिः

स्वतन्त्रस्यान्यतन्त्रस्य वाह्यान्तःसमयोगतः ।
तत्र व्युत्पत्तिरर्थस्य या सामयिकतेति सा ॥०१७॥

शब्दार्थवुपकुर्वाणो नाम्नोभयगुणः स्मृतः ।
तस्य प्रसादः सौभाग्यं यथासङ्ख्यं प्रशस्तता ॥०१८॥

पाको राग इति प्राज्ञैः षट्प्रपञ्चविपञ्चिताः ।
सुप्रसिद्धर्थपदता प्रसाद इति गीयते ॥०१९॥

उत्कर्षवान् गुणः कश्चिद्यस्मिन्नुक्ते प्रतीयते ।
तत्सौभाग्यमुदारत्वं प्रवदन्ति मनीषिणः ॥०२०॥

यथासङ्ख्यमनुद्देशः सामन्यमतिदिश्यते ।
समये वर्णनीयस्य दारुणस्यापि वस्तुनः ॥०२१॥

अदारुणेन शब्देन प्राशस्त्यमुपवर्णनं ।
उच्चैः परिणतिः कापि पाक इत्य् अभिधीयते ॥०२२॥

मृद्वीकानारिकेलाम्बुपाकभेदाच्चतुर्विधः ।
आदावन्ते च सौरस्यं मृद्वीकापाक एव सः ॥०२३॥

काव्येच्छया विशेषो यः सराग इति गीयते ।
अभ्यासोपहितः कान्तिं सहजामपि वर्तते ॥०२४॥

हारिद्रश् चैव कौसुम्भो नीली रागश् च स त्रिधा ।
वैशेषिकः परिज्ञेयो यः स्वलक्षणगोचरः ॥०२५॥

{इत्य् आग्नेये महापुराणे काव्यगुणविवेको नाम पञ्चचत्वारिंशदधिकत्रिशततमो ऽध्यायः }

[[२३१]]