{अथ चतुश् चत्वारिंशदधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
शब्दार्थालङ्काराः
अग्निर् उवाच
शब्दार्थयोरलङ्कारो द्वावलङ्कुरुते समं ।
एकत्र निहितो हारः स्तनं ग्रीवामिव स्त्रियाः ॥००१॥
मूलम्

प्रशस्तिः कान्तिरौचित्यं सङ्क्षेपो यावदर्थता ।
अभिव्यक्तिरिति व्यक्तं षड्भेदास्तस्य जाग्रति ॥००२॥

प्रशस्तिः परवन्मर्मद्रवीकरणकर्मणः ।
वाचो युक्तिर्द्विधा सा च प्रेमोक्तिस्तुतिभेदतः ॥००३॥

[[२२७]]
विश्वास-प्रस्तुतिः
प्रेमोक्तिस्तुतिपर्यायौ प्रियोक्तिगुणकीर्तने ।
कान्तिः सर्वमनोरुच्यवाच्यवात्तकसङ्गतिः ॥००४॥

यथा वस्तु तथा रीतिर्यथा वृत्तिस् तथा रसः ।
ऊर्जस्विमृदुसन्दर्भादौचित्यमुपजायते ॥००५॥

सङ्क्षेपो वाचकैर् अल्पैर् वहोरर्थस्य सङ्ग्रहः ।
अन्यूनाधिकता शब्दवस्तुनोर्यावदर्थता ॥००६॥

प्रकटत्वमभिव्यक्तिः श्रुतिराक्षेप इत्य् अपि ।
तस्या भेदौ श्रुतिस्तत्र शब्दं स्वार्थसमर्पणम् ॥००७॥

भवेन्नैमित्तिकी पारिभाषिकी द्विविधैव सा ।
सङ्केतः परिभाषेति ततः स्यात् पारिभाषिकी ॥००८॥

मुख्यौपचारिकी चेति सा च सा च द्विधा द्विधा ।
स्वाभिधेयस्खलद्वृत्तिरमुख्यार्थस्य वाचकः ॥००९॥

यया शब्दो निमित्तेन केनचित्सौपचारिकी ।
सा च लाक्षणिकी गौणी लक्षणागुणयोगतः ॥०१०॥

अभिधेयाविनाभूता प्रतीतिर् लक्षणोच्यते ।
अभिधेयेन सम्बन्धात्सामीप्यात्समवायतः ॥०११॥

वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता ।
गौणीगुणानामानन्त्यादनन्ता तद्विवक्षया ॥०१२॥

अन्यधर्मस्ततो ऽन्यत्र लोकसीमानुरोधिना ।
सम्यगाधीयते यत्र स समाधिरिह स्मृतः ॥०१३॥

श्रूतेरलभ्यमानो ऽर्थो यस्माद्भाति सचेतनः ।
स आक्षेपो धनिः स्याच्च ध्वनिना व्यज्यते यतः ॥०१४॥

[[२२८]]
विश्वास-प्रस्तुतिः
प्रतिषेध इवेष्टस्य यो विशेषो ऽभिधित्सया ॥०१५॥

तमाक्षेपं व्रुवन्त्यत्र स्तुतं स्तोत्रमिदं पुनः ।
अधिकारादपेतस्य वस्तुनो ऽन्यस्य या स्तुतिः ॥०१६॥

यत्रोक्तं गम्यते नार्थस्तत्समानविशेषणं ।
सा समासोकितिरुदिता सङ्क्षेपार्थतया बुधैः ॥०१७॥

अपह्नुतिरपह्नुत्य किञ्चिदन्यार्थसूचनम् ।
पर्यायोक्तं यदन्येन प्रकारेनाभिधीयते ।०१८।
एषामेकन्तमस्येव समाख्या ध्वनिरित्यतः ॥०१८॥

{इत्य् आग्नेये महापुराणे अलङ्कारे शब्दर्थालङ्कारनिरूपणं नाम चतुश् चत्वारिंशदधिकत्रिशततमो ऽध्यायः ॥ }