३४३ अर्थालङ्काराः

{अथ त्रिचत्वारिंशदधिकत्रिशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

अर्थालङ्काराः

अग्निर् उवाच
अलङ्करणमर्थानामर्थालङ्कार इष्यते ।
तं विना शब्दसौन्दर्यमपि नास्ति मनोहरम् ॥००१॥

मूलम्

अर्थालङ्काराः

अग्निर् उवाच
अलङ्करणमर्थानामर्थालङ्कार इष्यते ।
तं विना शब्दसौन्दर्यमपि नास्ति मनोहरम् ॥००१॥

विश्वास-प्रस्तुतिः

अर्थालङ्काररहिता विधवेव1 सरस्वती ।
स्वरूपमथ सादृश्यमुत्प्रेक्षातिशयावपि ॥००२॥

मूलम्

अर्थालङ्काररहिता विधवेव1 सरस्वती ।
स्वरूपमथ सादृश्यमुत्प्रेक्षातिशयावपि ॥००२॥

विश्वास-प्रस्तुतिः

विभावना विरोधश् च हेतुश् च सममष्टधा ।
स्वभाव एव भावानां स्वरूपमभिधीयते ॥००३॥

मूलम्

विभावना विरोधश् च हेतुश् च सममष्टधा ।
स्वभाव एव भावानां स्वरूपमभिधीयते ॥००३॥

विश्वास-प्रस्तुतिः

निजमागन्तुकञ्चेति द्विविधं तदुदाहृतम् ।
सांसिद्धिकं नियं नैमित्तिकमागन्तुकं तथा ॥००४॥

मूलम्

निजमागन्तुकञ्चेति द्विविधं तदुदाहृतम् ।
सांसिद्धिकं नियं नैमित्तिकमागन्तुकं तथा ॥००४॥

:न्

[[२२४]]

विश्वास-प्रस्तुतिः

सादृश्यं धर्मसामान्यमुपमा रूपकं तथा ।
महोक्त्यर्थान्तरन्यासाविति स्यात्तु चतुर्विधम् ॥००५॥

मूलम्

सादृश्यं धर्मसामान्यमुपमा रूपकं तथा ।
महोक्त्यर्थान्तरन्यासाविति स्यात्तु चतुर्विधम् ॥००५॥

विश्वास-प्रस्तुतिः

उपमा नाम सा यस्यामुपमानोपमेययोः ।
सत्ता चान्तरसामान्ययोगित्वेपि विवक्षितं ॥००६॥

मूलम्

उपमा नाम सा यस्यामुपमानोपमेययोः ।
सत्ता चान्तरसामान्ययोगित्वेपि विवक्षितं ॥००६॥

विश्वास-प्रस्तुतिः

किञ्चिदादाय सारूप्यं लोकयात्रा प्रवर्तते ।
समासेनासमासेन सा द्विधा प्रतियोगिनः ॥००७॥

मूलम्

किञ्चिदादाय सारूप्यं लोकयात्रा प्रवर्तते ।
समासेनासमासेन सा द्विधा प्रतियोगिनः ॥००७॥

विश्वास-प्रस्तुतिः

विग्रहादभिधानस्य ससमासान्यथोत्तरा ।
उपमाद्योतकपदेनोपमेयपदेनच ॥००८॥

मूलम्

विग्रहादभिधानस्य ससमासान्यथोत्तरा ।
उपमाद्योतकपदेनोपमेयपदेनच ॥००८॥

विश्वास-प्रस्तुतिः

ताभ्याञ्च विग्रहात्त्रेधा ससमासान्तिमात् त्रिधा ।
विशिष्यमाणा उपमा भवन्त्यष्टादश स्फुटाः ॥००९॥

मूलम्

ताभ्याञ्च विग्रहात्त्रेधा ससमासान्तिमात् त्रिधा ।
विशिष्यमाणा उपमा भवन्त्यष्टादश स्फुटाः ॥००९॥

विश्वास-प्रस्तुतिः

यत्र साधारणो धर्मः कथ्यते गम्यते ऽपि वा ।
ते धर्मवस्तुप्राधान्याद्धर्मवस्तूपमे उभे ॥०१०॥

मूलम्

यत्र साधारणो धर्मः कथ्यते गम्यते ऽपि वा ।
ते धर्मवस्तुप्राधान्याद्धर्मवस्तूपमे उभे ॥०१०॥

विश्वास-प्रस्तुतिः

तुल्यमेवोपमीयेते यत्रान्योन्येन धर्मिणौ ।
परस्परोपमा सा स्यात् प्रसिद्धेरन्यथा तयोः ॥०११॥

मूलम्

तुल्यमेवोपमीयेते यत्रान्योन्येन धर्मिणौ ।
परस्परोपमा सा स्यात् प्रसिद्धेरन्यथा तयोः ॥०११॥

विश्वास-प्रस्तुतिः

विपरीतोपमा सा स्याद्व्यावृत्तेर् नियमोपमा ।
अन्यत्राप्यनुवृत्तेस्तु भवेदनियमोपमा ॥०१२॥

मूलम्

विपरीतोपमा सा स्याद्व्यावृत्तेर् नियमोपमा ।
अन्यत्राप्यनुवृत्तेस्तु भवेदनियमोपमा ॥०१२॥

विश्वास-प्रस्तुतिः

समुच्चयोपमातो ऽन्यधर्मवाहुल्यकीर्तनात् ।
वहोर्धम्मस्य साम्येपि वैलक्ष्ण्यं विवक्षितं ॥०१३॥

मूलम्

समुच्चयोपमातो ऽन्यधर्मवाहुल्यकीर्तनात् ।
वहोर्धम्मस्य साम्येपि वैलक्ष्ण्यं विवक्षितं ॥०१३॥

विश्वास-प्रस्तुतिः

यदुच्यते ऽतिरिक्तत्वं व्यतिरेकोपमा तु सा ।
यत्रोपमा स्याद्वहुभिः सदृशैः सा बहूपमा ॥०१४॥

मूलम्

यदुच्यते ऽतिरिक्तत्वं व्यतिरेकोपमा तु सा ।
यत्रोपमा स्याद्वहुभिः सदृशैः सा बहूपमा ॥०१४॥

विश्वास-प्रस्तुतिः

धर्माः प्रत्युपमानञ्चेदन्ये मालोपमैव सा
उपमानविकारेण तुलना विक्रियोपमा ॥०१५॥

मूलम्

धर्माः प्रत्युपमानञ्चेदन्ये मालोपमैव सा
उपमानविकारेण तुलना विक्रियोपमा ॥०१५॥

त्रिलोक्यासम्भवि किमप्यारोप्य प्रतियोगिनि ।

[[२२५]]

विश्वास-प्रस्तुतिः

कविनोपमीयते या प्रथते साद्भुतोपमा ॥०१६॥

मूलम्

कविनोपमीयते या प्रथते साद्भुतोपमा ॥०१६॥

विश्वास-प्रस्तुतिः

प्रतियोगिनमारोप्य तदभेदेन कीर्तनम् ।
उपमेयस्य सा मोहोपमासौ भ्रान्तिमद्वचः ॥०१७॥

मूलम्

प्रतियोगिनमारोप्य तदभेदेन कीर्तनम् ।
उपमेयस्य सा मोहोपमासौ भ्रान्तिमद्वचः ॥०१७॥

विश्वास-प्रस्तुतिः

उभयोर्धर्मिणोस्तथ्यानिश् चयात् संशयोपमा ।
उपमेयस्य संशय्य निश् चयान्निश् चयोपमा ॥०१८॥

मूलम्

उभयोर्धर्मिणोस्तथ्यानिश् चयात् संशयोपमा ।
उपमेयस्य संशय्य निश् चयान्निश् चयोपमा ॥०१८॥

विश्वास-प्रस्तुतिः

वाक्यार्थनैव वाक्यार्थोपमा स्यादुपमानतः ।
आत्मनोपमानादुपमा साधारण्यतिशायिनी ॥०१९॥

मूलम्

वाक्यार्थनैव वाक्यार्थोपमा स्यादुपमानतः ।
आत्मनोपमानादुपमा साधारण्यतिशायिनी ॥०१९॥

विश्वास-प्रस्तुतिः

उपमेयं यद्न्यस्य तद्न्यस्योपमा मता ।
यद्युत्तरोत्तरं याति तदासौ गगनोपमा1 ॥०२०॥

मूलम्

उपमेयं यद्न्यस्य तद्न्यस्योपमा मता ।
यद्युत्तरोत्तरं याति तदासौ गगनोपमा1 ॥०२०॥

विश्वास-प्रस्तुतिः

प्रशंसा चैव निन्दा च कल्पिता सदृशी तथा ।
किञ्चिच्च सदृशी ज्ञेया उपमा पञ्चधा पुरः ॥०२१॥

मूलम्

प्रशंसा चैव निन्दा च कल्पिता सदृशी तथा ।
किञ्चिच्च सदृशी ज्ञेया उपमा पञ्चधा पुरः ॥०२१॥

विश्वास-प्रस्तुतिः

उपमानेन यत्तत्वमुपमेयस्य रूप्यते ।
गुणानां समतां दृष्ट्वा रूपकं नाम तद्विदुः ॥०२२॥

मूलम्

उपमानेन यत्तत्वमुपमेयस्य रूप्यते ।
गुणानां समतां दृष्ट्वा रूपकं नाम तद्विदुः ॥०२२॥

विश्वास-प्रस्तुतिः

उपमैव तिरोभूतभेदा रूपकमेव वा ।
सहोक्तिः सहभावेन कथनं तुल्यधर्मिणां ॥०२३॥

मूलम्

उपमैव तिरोभूतभेदा रूपकमेव वा ।
सहोक्तिः सहभावेन कथनं तुल्यधर्मिणां ॥०२३॥

विश्वास-प्रस्तुतिः

भवेदर्थान्तरन्यासः सादृश्येनोत्तरेण सः ।
अन्यथोपस्थिता वृत्तिश्चेतनस्येतरस्य च ॥०२४॥

मूलम्

भवेदर्थान्तरन्यासः सादृश्येनोत्तरेण सः ।
अन्यथोपस्थिता वृत्तिश्चेतनस्येतरस्य च ॥०२४॥

विश्वास-प्रस्तुतिः

अन्यथा मन्यते यत्र तामुत्प्रेक्षां प्रचक्षते ।
लोकसीमान्वृत्तस्य वस्तुधर्मस्य कीर्तनम् ॥०२५॥

मूलम्

अन्यथा मन्यते यत्र तामुत्प्रेक्षां प्रचक्षते ।
लोकसीमान्वृत्तस्य वस्तुधर्मस्य कीर्तनम् ॥०२५॥

विश्वास-प्रस्तुतिः

भवेदतिशयो नाम सम्भवासम्भवाद्द्विधा ।
गुणजातिक्रियादीनां यत्र वैकल्यर्दर्शनं ॥०२६॥

मूलम्

भवेदतिशयो नाम सम्भवासम्भवाद्द्विधा ।
गुणजातिक्रियादीनां यत्र वैकल्यर्दर्शनं ॥०२६॥

विशेषदर्शनायैव सा विशेषोक्तिरुच्यते ।

:न्

[[२२६]]

विश्वास-प्रस्तुतिः

प्रसिद्धहेतुव्यावृत्या यत् किञ्चित् कारणान्तरम् ॥०२७॥

मूलम्

प्रसिद्धहेतुव्यावृत्या यत् किञ्चित् कारणान्तरम् ॥०२७॥

विश्वास-प्रस्तुतिः

यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ।
सङ्गतीकरणं युक्त्या यदसङ्गच्छमानयोः ॥०२८॥

मूलम्

यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ।
सङ्गतीकरणं युक्त्या यदसङ्गच्छमानयोः ॥०२८॥

विश्वास-प्रस्तुतिः

विरोधपूर्वकत्वेन तद्विरोध इति स्मृतं ।
सिसाधयिषितार्थस्य हेतुर्भवति साधकः ॥०२९॥

मूलम्

विरोधपूर्वकत्वेन तद्विरोध इति स्मृतं ।
सिसाधयिषितार्थस्य हेतुर्भवति साधकः ॥०२९॥

विश्वास-प्रस्तुतिः

कारको ज्ञापक इति द्विधा सो ऽप्युपजायते ।
प्रवर्तते कारकाख्यः प्राक् पश्चात् कार्यजन्मनः ॥०३०॥

मूलम्

कारको ज्ञापक इति द्विधा सो ऽप्युपजायते ।
प्रवर्तते कारकाख्यः प्राक् पश्चात् कार्यजन्मनः ॥०३०॥

विश्वास-प्रस्तुतिः

पूर्वशेष इति ख्यातस्तयोरेव विशेषयोः ।
कार्यकारणभावाद्वा स्वमावाद्वा नियामकात् ॥०३१॥

मूलम्

पूर्वशेष इति ख्यातस्तयोरेव विशेषयोः ।
कार्यकारणभावाद्वा स्वमावाद्वा नियामकात् ॥०३१॥

विश्वास-प्रस्तुतिः

ज्ञापकाख्यस्य भेदो ऽस्ति नदीपूरादिदर्शनात् ।
अविनाभावनियमो ह्य् अविनाभावदर्शनात् ॥०३२॥

मूलम्

ज्ञापकाख्यस्य भेदो ऽस्ति नदीपूरादिदर्शनात् ।
अविनाभावनियमो ह्य् अविनाभावदर्शनात् ॥०३२॥

{इत्य् आग्नेये महापुराणे अलङ्कारे अर्थालङ्कारनिरूपणं नाम त्रिचत्वारिंशदधिकत्रिशततमो ऽध्यायः }


  1. विधुरेवेति ख॥ , ट॥ च ↩︎ ↩︎ ↩︎ ↩︎