३४२ शब्दालङ्काराः

{अथ द्विचत्वारिंशदधिकत्रिशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

शब्दालङ्काराः

अग्निरुचाच
स्यादावृत्तिरनुप्रासो वर्णानां पदवाक्ययोः ।
एकवर्णानेकवर्णावृत्तेर्वर्णगुणो द्विधा ॥००१॥

मूलम्

एकवर्णगतावृत्तेर्जायन्ते पञ्च वृत्तयः ।
मधुरा ललिता प्रौटा भद्रा परुषया सह ॥००२॥

मधुरायाश् च वर्गन्तादधो वर्ग्या रणौ स्वनौ1
ह्रस्वस्वरेणान्तरितौ संयुक्तत्वं नकारयोः ॥००३॥

न कार्या वर्ग्यवर्णानामावृत्तिः पञ्चमाधिका ।
महाप्राणोष्मसंयोगप्रविमुक्तलघूत्तरौ2 ॥००४॥

ललिता बलभूयिष्ठा3 प्रौटा या पणवर्गजा ।
ऊर्ध्वं रेफेण युज्यन्ते नटवर्गोनपञ्चमाः ॥००५॥

भद्रायां परिशिष्टाः स्युः परुषा साभिधीयते ।
भवन्ति यस्यामूष्माणः संयुक्तास्तत्तदक्षरैः ॥००६॥

अकारवर्जमावृत्तिः स्वराणामतिभूयसी ।
अनुस्वारविसर्गौ च पारुष्याय निरन्तरौ ॥००७॥

शषसा रेफसंयुक्ताश्चाकारश्चापि भूयसा ।

:न्

[[२१८]]

विश्वास-प्रस्तुतिः

अन्तस्थाभिन्नमाभ्याञ्च हः पारुष्याय संयुतः ॥००८॥

अन्यथापि गुरुर्वर्णः संयुक्तेपरिपन्थिनि ।
पारुष्यायादिमांस्तत्र पूजिता न तु पञ्चमो ॥००९॥

क्षेपे शब्दानुकारे च परुषापि प्रयुज्यते ।
कर्णाटी कौन्तली कौन्ती कौङ्कणी वामनासिका1 ॥०१०॥

द्रावणी माधवी पञ्चवर्णान्तस्थोष्मभिः क्रमात् ।
अनेकवर्णावृत्तिर्या भिन्नार्थप्रतिपादिका ॥०११॥

यमकं साव्यपेतञ्च व्यपेतञ्चेति तद्द्विधा ।
आनन्तर्यादव्यपेतं व्यपेतं व्यवधानतः ॥०१२॥

द्वैविध्येनानयोः स्थानपादभेदाच्चतुर्विधम् ।
आदिपादादिमध्यान्तेष्वेकद्वित्रिनियोगतः ॥०१३॥

सप्तधा सप्तपूर्वेण2 चेत् पादेनोत्तरोत्तरः ।
एकद्वित्रिपदारम्भस्तुल्यः षोढा तदापरं ॥०१४॥

तृतीयं त्रिविधं पादस्यादिमध्यान्तगोचरम् ।
पादान्तयमकञ्चैव काञ्चीयमकमेव च ॥०१५॥

संसर्गयमकञ्चैव3 विक्रान्तयमकन्तथा ।
पादादियमकञ्चैव तथाम्रेडितमेव च ॥०१६॥

मूलम्

संसर्गयमकञ्चैव3 विक्रान्तयमकन्तथा ।
पादादियमकञ्चैव तथाम्रेडितमेव च ॥०१६॥

विश्वास-प्रस्तुतिः

चतुर्व्यवसितञ्चैव मालायमकमेव च ।
दशधा यमकं श्रेष्ठं तद्भेदा बहवो ऽपरे ॥०१७॥

स्वतन्त्रस्यान्यतन्त्रस्य पदस्यावर्तना द्विधा ।

:न्

[[२१९]]

विश्वास-प्रस्तुतिः

भिन्नप्रयोजनपदस्यावृत्तिं मनुजा विदुः ॥०१८॥

द्वयोरावृत्तपदयोः समस्ता स्यात्समासतः ।
असमासात्तयोर्व्यस्ता पादे त्वेकत्र विग्रहात् ॥०१९॥

वाक्यस्यावृत्तिरप्येवं यथासम्भवमिष्यते ।
अलङ्काराद्यनुप्रासो लघुमध्येवमर्हणात्1 * ॥०२०॥

यया कयाचिद्वृत्या यत् समानमनुभूयते ।
तद्रूपादिपदासत्तिः सानुप्रसा रसावहा ॥०२१॥

गोष्ठ्यां कुतूहलाध्यायी वाग्बन्धश्चित्रमुच्यते ।
प्रश्नः प्रहेलिका गुप्तं च्युतदत्ते तथोभयम् ॥०२२॥

समस्या सप्त तद्भेदा नानार्थस्यानुयोगतः ।
यत्र प्रदीयते तुल्यवर्णविन्यासमुत्तरं ॥०२३॥

स प्रश्नः स्यादेकपृष्टद्विपृष्टोत्तरभेदतः ।
द्विधैकपृष्टो द्विविधः समस्तो व्यस्त एव च ॥०२४॥

द्वयोरप्यर्थयोर्गुह्यमानशब्दा प्रहेलिका ।
सा द्विधार्थो च शाब्दी च तत्रार्थी चार्थबोधतः ॥०२५॥

शब्दावबोधतः शाब्दी प्राहुः षोढा प्रहेलिकां ।
यस्मिन् गुप्ते ऽपि वाक्याङ्गे भाव्यर्थो ऽपारमार्थिकः ॥०२६॥

तदङ्गविहिताकाङ्क्षस्तद्गुप्तं गूढमप्यदः ।
यत्रार्थान्तरनिर्भासो वाक्याङ्गच्यवनादिभिः ॥०२७॥

तदङ्गविहिताकाङ्क्षस्तच्चुतं स्याच्चतुर्विधम् ।

:न्

लघुमध्येवमर्हणात्, लघुमप्येवमर्हणात्, लघुमध्येव
वर्हणात् एतत् पाठत्रयं न सम्यक् प्रतिभाति

[[२२०]]

विश्वास-प्रस्तुतिः

स्वरव्यञ्जनविन्दूनां विसर्गस्य च विच्युतेः ॥०२८॥

दत्तेपि यत्र वाक्याङ्गे द्वितीयोर्थः प्रतीयते ।
दत्तन्तदाहुस्तद्भेदाः स्वराद्यैः पूर्ववन्मताः ॥०२९॥

अपनीताक्षरस्थाने न्यस्ते वर्णान्तरे ऽपि च ।
भासते ऽर्थान्तरं यत्र च्युतदत्तं तदुच्यते ॥०३०॥

सुश्लिष्टपद्यमेकं यन्नानाश्लोकांशनिर्मितम् ।
सा ममस्या परस्यात्मपरयोः कृतिसङ्करात् ॥०३१॥

दुःखेन कृतमत्यर्थं कविसामर्थ्यसूचकम् ।
दुष्करं नीरसत्वेपि विदग्धानां महोत्सवः ॥०३२॥

नियमाच्च विदर्भाच बन्धाच्च भवति त्रिधा ।
कवेः प्रतिज्ञा निर्माणरम्यस्य नियमः स्मृतः ॥०३३॥

स्थानेनापि स्वरेणापि व्यञ्जनेनापि स त्रिधा ।
विकल्पः प्रातिलोम्यानुलोम्यादेवाभिधीयते ॥०३४॥

प्रतिलोम्यानुलोम्यञ्च शब्देनार्थेन जायते ।
अनेकधावृत्तवर्णविन्यासैः शिल्पकल्पना ॥०३५॥

तत्तत्प्रसिद्धवस्तूनां बन्ध इत्य् अभिधीयते ।
गोमूत्रिकार्धभ्रमणे सर्वतोभद्रमम्बुजम् ॥०३६॥

चक्रञ्चक्राब्जकं दण्डो मुरजाश्चेति चाष्टधा ।
प्रत्यर्धं प्रतिपादं स्यादेकान्तरसमाक्षरा ॥०३७॥

द्विधा गोमूत्रिकां पूर्वामाहुरश्वपदां परे ।
अन्त्याङ्गोमूत्रिकां धेनुं जालबन्धं1 वदन्ति हि ॥०३८॥

अर्धाभ्यामर्धपादैश् च कुर्याद्विन्यासमेतयोः ।

:न्

[[२२१]]

विश्वास-प्रस्तुतिः

न्यस्तानामिह वर्णानामधोधः क्रमभागिनां ॥०३९॥

अधोधःस्थितवर्णानां यावत्तूर्यपदन्नयेत् ।
तुर्यपादान्नयेदूर्ध पादार्धं प्रातिलोम्यतः ॥०४०॥

तदेव सर्वतोभद्रं त्रिविधं सरसीरुहं ।
चतुष्पत्रं ततो विघ्नं चतुष्पत्रे उभे अपि ॥०४१॥

अथ प्रथमपादस्य मूर्धन्यस्त्रिपदाक्षरं ।
सर्वेषामेव पादानामन्ते तदुपजायते ॥०४२॥

मूलम्

अथ प्रथमपादस्य मूर्धन्यस्त्रिपदाक्षरं ।
सर्वेषामेव पादानामन्ते तदुपजायते ॥०४२॥

विश्वास-प्रस्तुतिः

प्राक्पदस्यान्तिमं प्रत्यक् पादादौ प्रातिलोम्यतः ।
अन्त्यपादान्तिमञ्चाद्यपादादावक्षरद्वयं ॥०४३॥

चतुश्छदे भवेदष्टच्छदे वर्णत्रयं पुनः ।
स्यात् षोडशच्छदे त्वेकान्तरञ्चेदेकमक्षरं ॥०४४॥

कर्णिकां तोलयेदूर्ध्वं पत्राकाराक्षरावलिं ।
प्रवेशयेत् कर्णिकायाञ्चतुष्पत्रसरोरुहे ॥०४५॥

कर्णिकायां लिखेदेकं द्वे द्वे दिक्षु विदिक्षु च ।
प्रवेशनिर्गमौ दिक्षु कुर्यादष्टच्छदे ऽम्बुजे ॥०४६॥

विश्वग्विषमवर्णानां तावत् पत्राबलीजुषां ।
मध्ये समाक्षरन्यासःसरोजे षोडशच्छदे ॥०४७॥

द्विधा चक्रं चतुररं षडरन्तत्र चादिमं ।
पूर्वार्धे सदृशा वर्णाः पादप्रथमपञ्चमाः ॥०४८॥

अयुजो ऽश्वयुजश् चैव तुर्यावप्यष्टमावपि ।
तस्योपपादप्राक्प्रत्यगरेषु च यथाक्रमं ॥०४९॥

स्यात्पादार्धचतुष्कन्तु नाभौ तस्याद्यमक्षरं ।
पश्चिमारावधि नयेन्नेमौ शेषे पदद्वयी ॥०५०॥

[[२२२]]

विश्वास-प्रस्तुतिः

तृतीयं तुर्यपादान्ते प्रथमौ सदृशावुभौ ।
वर्णौ पादत्रयस्यापि दशमः सदृशो यदि ॥०५१॥

प्रथमे चरमे तस्य षड्तर्णाः पथिमे यदि ।
भवन्ति द्व्यन्तरं तर्हि वृहच्च क्रमुदाहृतं ॥०५२॥

सम्मुखारद्वये पादमेकैकं क्रमशो लिखेत् ।
नाभौ तु वर्णं दशमं नेमौ तूर्यपदन्नयेत् ॥०५३॥

श्लोकस्याद्यन्तदशमाः समा आद्यन्तिमौ युजोः ।
आदौ वर्णः समौ तुर्यपञ्चमावाद्यतर्ययोः ॥०५४॥

द्वितीयप्रातिलोम्येन तृतीयं जायते यदि ।
पदं विदध्यात् पत्रस्य दण्डश् चक्राब्जकं कृतेः ॥०५५॥

द्वितीयौ प्राग्दले तुल्यौ सप्तमौ च तथापरौ ।
सदृशावुत्तरदलौ द्वितीयाभ्यामथार्धयोः ॥०५६॥

द्वितीयषष्ठाः सदृशाश् चतुर्थपञ्चमावपि ।
आद्यन्तपादयोस्तुल्यौ परार्धसप्तमावपि ॥०५७॥

समौ तुर्यं पञ्चमन्तु क्रमेण विनियोजयेत् ।
तुर्यौ योज्यौ तु तद्वच्च दलान्ताः क्रमपादयोः ॥०५८॥

अर्धयोरन्तिमाद्यौ तु मुरजे सदृशावभौ ।
पादार्धपतितो वर्णः प्रातिलोम्यानुलोमतः ॥०५९॥

अन्तिमं परिबध्नीयाद्यावत्तुर्यमिहादिमत् ।
पादात्तुर्याद्यदेवाद्यं नवमात् षोडशादपि ॥०६०॥

अक्षरात् पुटके मध्ये मध्ये ऽक्षरचतुष्टयम् ।
कृत्वा कुर्याद्यथैतस्य मुरजाकारता भवेत् ॥०६१॥

द्वितीयं चक्रशार्दूलविक्रीडितकसम्पदम् ।

[[२२३]]

विश्वास-प्रस्तुतिः

गोमूत्रिका सर्ववृत्तैर् अन्ये बन्धास्त्वनुष्टुभा ॥०६२॥

नामधेयं यदि न चेदमीषु कविकाव्ययोः ।
मित्रधेयाभितुष्यन्ति नामित्रः खिद्यते तथा ॥०६३॥

वाणवाणासनव्योमखड्गमुद्गरशक्तयः ।
द्विचतुर्थत्रिशृङ्गाटा दम्भोलिमुषलाङ्कुशाः ॥०६४॥

पदं रथस्य नागस्य पुष्करिण्यसिपुत्रिका ।
एते बन्धास् तथा चान्ये एवं ज्ञेयाः स्वयं बुधैः ॥०६५॥

{इत्य् आग्नेये महापुराणे अलङ्कारे शब्दालङ्कारनिरूपणं नाम द्विचत्वारिंशदधिकत्रिशततमो ऽध्यायः }

  1. रशौ घनाविति ञ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. महाप्राणोष्मसंयोगादवियुक्तलघूत्तराविति ट॥ ↩︎ ↩︎ ↩︎ ↩︎

  3. ललिता वनभूयिष्ठेति ख॥ । ललिता वत्सभूयिष्ठेति ट॥ ↩︎ ↩︎ ↩︎ ↩︎