{अथैकचत्वारिंशदधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
अभिनयादिनिरूपणं
अग्निर् उवाच
आभिमुख्यन्नयन्नर्थान्विज्ञेयो ऽभिनयो बुधैः ।
चतुर्धा सम्भवः सत्त्ववागङ्गाहरणाश्रयः ॥००१॥
मूलम्

स्तम्भादिः सात्त्विको वागारम्भो वाचिक आङ्गिकः ।
शरीरारम्भ आहार्यो बुद्ध्यारम्भप्रवृत्तयः ॥००२॥

रसादिविनियोगो ऽथ कथ्यते ह्य् अभिमानतः ।
तमन्तरेण सर्वे षामपार्थैव स्वतन्त्रता ॥००३॥

[[२१४]]
विश्वास-प्रस्तुतिः
प्रच्छन्नश् च प्रकाशश् च तावपि द्विविधौ पुनः ॥००४॥

विप्रलम्भाभिधानो यः शृङ्गारः स चतुर्विधः ।
पूर्वानुरागानाख्यः प्रवामकरुणात्मकः ॥००५॥

एतेभ्यो ऽन्यतरं जायमानमम्भोगलक्षणम् ।
विवर्तते चतुर्धैव न च प्रागतिवर्तते ॥००६॥

स्त्रीपुंसयोस्तदुदयस्तस्य निर्विर्तिका रतिः ।
निखिलाः सात्त्विकास्तत्र वैवर्ण्यप्रलयौ विना ॥००७॥

धर्मार्थकाममोक्षैश् च शृङ्गार उपचीयते ।
आलम्वनविशेषैश् च तद्विशेषैर् निरन्तरः ॥००८॥

शृङ्गारं द्विविधं विद्याद्वाङ्नेपथ्यक्रियात्मकम् ।
हासश् च तुर्विधो ऽलक्ष्यदन्तः स्मित इतीरितः ॥००९॥

किञ्चिल्लक्षितदन्ताग्रं हसितं फुल्ललोचनम् ।
विहसितं सस्वनं स्याज्जिह्मोपहसितन्तु तत् ॥०१०॥

सशब्दं पापहसितमशब्दमतिहासितं ।
यश्चासौ करुणो नाम स रसस्त्रिविधो भवेत् ॥०११॥

धर्मोपघातजश्चित्तविलासजनितस् तथा ।
शोकः शोकाद्भवेत् स्थायी कः स्थायी पूर्वजो मतः ॥०१२॥

अङ्गनेपथ्यवाक्यैश् च रौद्रो ऽपि त्रिविधो रसः ।
तस्य निर्वर्तकः क्रोधः स्वेदो रोमाञ्चवपथुः ॥०१३॥

दानवीरो धर्मवीरो युद्धवीर इति त्रयम् ।
वीरस्तस्य च निष्पत्तिहेतुरुत्साह इष्यते ॥०१४॥

[[२१५]]
विश्वास-प्रस्तुतिः
भयानको नाम रसस्तस्य निर्वर्तकं भयं ॥०१५॥

उद्वेजनः क्षोभणश् च वीभत्सो द्विविधः स्मृतः ।
उद्वेजनः स्यात् प्लुत्याद्यैः क्षोभणो रुधिरादिभिः ॥०१६॥

जगुप्सारम्भिका तस्य सात्त्विकांशो निवर्तते ।
काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्ष्यते ॥०१७॥

अलङ्करिष्णवस्ते च शब्दमर्थमुभौ त्रिधा ।
ये व्युत्पत्त्यादिना शब्दमलङ्कर्तुमिह क्षमाः ॥०१८॥

शब्दालङ्कारमाहुस्तान् काव्यमीमांसका विदः ।
छाया मुद्रा तथोक्तिश् च युक्तिर्गुम्फनया सह ॥०१९॥

वाकोवाक्यमनुप्रासश्चित्रं दुष्करमेव च ।
ज्णेया नवालङ्कृतयः शब्दानामित्यसङ्करात् ॥०२०॥

तत्रान्योक्तेरनुकृतिश्छाया सापि चत्रुव्विधा ।
लोकच्छेकार्भकोक्तीनामेकोक्तेरनुकारतः ॥०२१॥

आभाणकोक्तिर्लोकोक्तिः सर्वसामान्य एव ताः ।
यानुधावति लोकोक्तिश्छायामिच्छन्ति तां बुधाः ॥०२२॥

छेका विदग्धा वैदग्ध्यं कलासु कुशला मतिः ।
तामुल्लिखन्ती छेकोक्तिश्छाया कविभिरिष्यते ॥०२३॥

अव्युत्पन्नोक्तिरखिलैर् अर्भकोक्त्योपलक्ष्यते ।
तेनार्भकोक्तिश्छाया तन्मात्रोक्तिमनुकुर्वती ॥०२४॥

विप्लुताक्षरमश्लीलं वचो मत्तस्य तादृशी ।
या सा भवति मत्तोक्तिश्छायोक्ताप्यतिशोभते ॥०२५॥

[[२१६]]
विश्वास-प्रस्तुतिः
मुत्प्रदायिनीति सा मुद्रा सैव शय्यापि नो मते ॥०२६॥

उक्तिः सा कथ्यते यस्यामर्थको ऽप्युपपत्तिमान् ।
लोकयात्रार्थविधिना धिनोति हृदयं सतां ॥०२७॥

उभौ विधिनिषेधौ च नियमानियमावपि ।
विकल्पपरिसङ्ख्ये च तदीयाः षडथोक्तयः ॥०२८॥

अयुक्तयोरिव मिथो वाच्यवाचकयोर्द्वयोः ।
योजनायै कल्प्यमाना युक्तिरुक्ता मनीषिभिः ॥०२९॥

पदञ्चैव पदार्थश् च वाक्यं वाक्यर्थमेव च ।
विषयो ऽस्त्याः प्रकरणं प्रपञ्चश्चेति षड्विधः ॥०३०॥

गुम्फना रचनाचर्या शब्दार्थक्रमगोचरा ।
शब्दानुकारादर्थानुपूर्वार्थेयं क्रमात्त्रिधा ॥०३१॥

उक्तिप्रत्युक्तिमद्वाक्यं वाकोवाक्यं द्विधैव तत् ।
ऋजुवक्रोक्तिभेदेन तत्राद्यं सहजं वचः ॥०३२॥

सा पूर्वप्रश्निका प्रश्नपूर्विकेति द्विधा भवेत् ।
वक्रोक्तिस्तु भवेड्भङ्ग्या काकुस्तेन कृता द्विधा ॥०३३॥

{इत्य् आग्नेये महापुराणे अलङ्कारे अभिनयादिनिरूपणं नामैकचत्वारिंशदधिकत्रिशततमो ऽध्यायः }
[[२१७]]