{अथ चत्वारिंशदधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
नृत्यादावङ्गकर्मनिरूपणं
अग्निर् उवाच
चेष्टाविशेषमप्यङ्गप्रत्यङ्गे कर्म चानयोः ।
शरीरारम्भमिच्छन्ति प्रायः पूर्वो ऽवलाश्रयः ॥००१॥
मूलम्

लीला विलासो विछित्तिर्विभ्रमं किलकिञ्चितं ।
मोट्टायितं कुट्टमितं विव्वोको ललितन्तथा ॥००२॥

विकृतं क्रीडितं केलिरिति द्वादशधैव सः ।
लीलेष्टजनचेष्टानुकरणं संवृतक्षये ॥००३॥
मूलम्
विकृतं क्रीडितं केलिरिति द्वादशधैव सः ।
लीलेष्टजनचेष्टानुकरणं संवृतक्षये ॥००३॥
विश्वास-प्रस्तुतिः
विशेषान् दर्शयन् किञ्चिद्विलासः सद्भिरिष्यते ।
हसितक्रान्दितादीनां सङ्करः किलकिञ्चितं ॥००४॥

विकारः कोपि विव्वोको ललितं सौकुमार्यतः ।
शिरः पाणिरुरः पार्श्वङ्कटिरङ्घ्रिरिति क्रमात् ॥००५॥

:न्
[[२१२]]
विश्वास-प्रस्तुतिः
अङ्गप्रत्यङ्गयोः कर्म प्रयत्नजनितं विना ॥००६॥

न प्रयोगः क्वचिन्मुख्यन्तिरश्चीनञ्च तत् क्वचित् ।
आकम्पितं कम्पितञ्च1 धूतं विधूतमेव च ॥००७॥

परिवाहितमाधूतमवधूतमथाचितं ।
निकुञ्चितं परावृत्तमुत्क्षिप्तञ्चाप्यधोगतम् ॥००८॥

ललितञ्चेति विज्ञेयं त्रयोदशविधं शिरः ।
भ्रूकर्म सप्तधा ज्ञेयं पातनं भ्रूकुटीमुखं ॥००९॥

दृष्तिस्त्रिधा रमस्थायिसञ्चारिप्रतिबन्धना ।
षट्त्रिंशद्भेदविधुरा रसजा तत्र चाष्टधा ॥०१०॥

नवधा तारकाकर्म भ्रमणञ्चलनादिकं ।
षोढा च नासिका ज्ञेया निश्वासो नवधा मतः ॥०११॥

षोटौष्ठकर्मकं पापं सप्तधा चिवुकक्रिया ।
कलुषादिमुखं षोढा ग्रीवा नवविधा स्मृता ॥०१२॥

असंयुतः संयुतश् च भूम्ना हस्तः प्रमुच्यते ।
पताकस्त्रिपाताकश् च तथा वै कर्तरीमुखः ॥०१३॥

अर्धचन्द्रोत्करालश् च शुकतुण्डस्तथैव च ।
सुष्टिश् च शिखरश् चैव कपित्थः खेटकामुखः ॥०१४॥

सूच्यास्यः पद्मकोषो हि शिराः समृगशीर्षकाः ।
काम्मूलकालपद्मौ2* च चतुरभ्रमरौ तथा ॥०१५॥

काम्मूलकालपद्मौ काङ्गूलकालपद्मौ एतत्पाठद्वयं न
समीचीनं
[[२१३]]
विश्वास-प्रस्तुतिः
उर्णनाभस्ताम्रचूडश् चतुर्विंशतिरित्यमी ॥०१६॥

असंयुतकराः प्रोक्ताः संयुतास्तु त्रयोदश ।
अञ्जलिश् च कपोतश् च कर्कटः स्वस्तिकस् तथा ॥०१७॥

कटको वर्धमानश्चाप्यसङ्गो निषधस् तथा ।
दोलः पुष्पपुटश् चैव तथा मकर एव च ॥०१८॥
मूलम्
कटको वर्धमानश्चाप्यसङ्गो निषधस् तथा ।
दोलः पुष्पपुटश् चैव तथा मकर एव च ॥०१८॥
विश्वास-प्रस्तुतिः
गजदन्तो वहिस्तम्भो वर्धमानो ऽपरे कराः ।
उरः पञ्चविधं स्यात्तु आभुग्ननर्तनादिकम् ॥०१९॥

उदरन्दुरतिक्षामं खण्डं पूर्णमिति त्रिधा ।
पार्श्वयोः पञ्चकर्माणि जङ्घाकर्म च पञ्चधा ।०२०।
अनेकधा पादकर्म नृत्यादौ नाटके स्मृतम् ॥०२०॥

{इत्य् आग्नेये महापुराणे अलङ्कारे नृत्यादावङ्गकर्मनिरूपणम् नाम चत्वरिंशदधिकत्रिशततमो } ऽध्यायः ॥