३३९ रीतिनिरूपणं

{अथोनचत्वारिंशदधिकत्रिशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

रीतिनिरूपणं

अग्निरुचाच
वाग्विद्यासम्प्रतिज्ञाने रीतिः सापि चतुर्विधा ।
पाञ्चाली गौडदेशीया वैदर्भी लाटजा तथा ॥००१॥

मूलम्

उपचारयुता मृद्वी पाञ्चाली ह्रस्वविग्रहा ।
अनवस्थितसन्दर्भा गौडीया दीर्घविग्रहा ॥००२॥

उपचारैर् न बहुभिरुपचारैर् विवर्जिता ।
नातिकोमलसन्दर्भा वैदर्भी मुक्तविग्रहा ॥००३॥

लाटीया स्फुटसन्धर्भा नातिविस्फुरविग्रहा ।
परित्यक्तापि भूयोभिरुपचारैर् उदाहृता ॥००४॥

क्रियास्वविषमा वृत्तिर्भारत्यारभटी तथा ।
कौशिकी सात्वती चेति सा चतुर्धा प्रतिष्ठिता ॥००५॥

वाक्प्रधाना नरप्राया स्त्रीयुक्ता प्राकृतोक्तिता ।
भरतेन प्रणीतत्वाद् भारती रीतिरुच्यते ॥००६॥

चत्वार्यङ्गानि भारत्या वीथी प्रहसनन्तथा ।
प्रस्तावना नाटकादेर्वीथ्यङ्गाश् च त्रयोदश ॥००७॥

उद्घातकं तथैव स्याल्लपितं स्याद्द्वितीयकम् ।
असत्प्रलापो वाक्श्रेणी1 नालिका विपणन्तथा ॥००८॥

व्याहारस्तिमतञ्चैव[^२] छलावस्कन्दिते तथा ।

:न्

[[२११]]

विश्वास-प्रस्तुतिः

गण्डो ऽथ मृदवश् चैव त्रयोदशमथाचितम् ॥००९॥

तापसादेः प्रहसनं परिहासपरं वचः ।
मायेन्द्रजालयुद्धादिबहुलारभटी स्मृता ।०१०।
मङ्क्षिप्तकारपातौ च1 वस्तूत्थापनमेव च ॥०१०॥

{इत्य् आग्नेये महापुराणे अलङ्कारे रीतिनिरूपणं नामोनचत्वारिंशदधिकत्रिशततमो ऽध्यायः }

  1. वाग्वेणीति क॥ , ञ॥ , ट॥ च ↩︎ ↩︎ ↩︎ ↩︎