{अथाष्टत्रिंशदधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
शृङ्गारादिरसनिरूपणम्
अग्निर् उवाच
अक्षरं परमं ब्रह्म सनातनमजं विभुं ।
वेदान्तेषु वदन्त्येकं चैतन्यं ज्योतिरीश्वरम् ॥००१॥
मूलम्

आनन्दः सहजस्तस्य व्यज्यते स कदाचन ।
व्यक्तिः सा तस्य चैतन्यचमत्काररसाह्वया ॥००२॥

[[२०५]]
विश्वास-प्रस्तुतिः
आद्यस्तस्य विकारो यः सो ऽहङ्कार इति स्मृतः ।
ततो ऽभिमानस्तत्रेदं समाप्तं भुवनत्रयं ॥००३॥

अभिमानाद्रतिः सा च परिपोषमुपेयुषी ।
व्यभिचार्यादिसामान्यात् शृङ्गार इति गीयते ॥००४॥

तद्भेदाः काममितरे हास्याद्या अप्यनेकशः ।
स्वस्वस्थादिविशेषोत्थपरिघोषस्वलक्षणाः ॥००५॥

सत्त्वादिगुणसन्तानाज्जायन्ते परमात्मनः ।
रागाद्भवति शृङ्गारो रौद्रस्तैक्ष्णात् प्रजायते ॥००६॥

वीरो ऽवष्टम्भजः सङ्कोचभूर्वीभत्स इष्यते ।
शृङ्गाराज्ज्यायते हासो रौद्रात्तु करुणो रसः ॥००७॥

वीराच्चाद्भुतनिष्पत्तिः स्याद्वीभत्साद्भयानकः ।
शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ॥००८॥

वीभत्साद्भुतशान्ताख्याः स्वभावाच्चतुरो रसाः ।
लक्ष्मीरिव विना त्यागान्न वाणी भाति नीरसा ॥००९॥

अपारे काव्यसंसारे कविरेव प्रजापतिः ।
यथा वै रोचते विश्वं तथेदं परिवर्तते ॥०१०॥

शृङ्गारी चेत् कविः काव्ये जातं रसमयं जगत् ।
स चेत् कविर्वीतरागो नीरसं व्यक्तमेव तत् ॥०११॥

न भावहीनो ऽस्ति रसो न भावो रसवर्जितः ।
भावयन्ति रसानेभिर्भाव्यन्ते च रसा इति ॥०१२॥

स्थायिनो ऽष्टौ रतिमुखाः स्तम्भाद्या व्यभिचारिणः ।
मनो ऽनुकूले ऽनुभवः सुखस्य रतिरिष्यते ॥०१३॥

[[२०६]]
विश्वास-प्रस्तुतिः
चित्रादिदर्शनाच्चेतोवैक्लव्यं ब्रुवते भयम् ॥०१४॥

जुगुप्सा च पदार्थानां निन्दा दौर्भाग्यवाहिनां ।
विस्मयो ऽतिशयेनार्थदर्शनाच्चित्तविस्तृतिः ॥०१५॥

अष्टौ स्तम्भादयः सत्त्वाद्रजसस्तमसः परम् ।
स्तम्भश्चेष्टाप्रतीघातो भयरागाद्युपाहितः1 ॥०१६॥

श्रमरागाद्युपेतान्तःक्षोभजन्म वपुर्जलं ।
स्वेदो हर्षादिभिर्देहोच्छासो ऽन्तःपुलकोद्गमः ॥०१७॥

हर्षादिजन्मवाक्सङ्गः स्वरभेदो भयादिभिः ।
मनोवैक्लव्यमिच्छन्ति शोकमिष्टक्षयादिभिः ॥०१८॥

क्रोधस्तैक्ष्णप्रबोधश् च प्रतिकूलानुकारिणि ।
पुरुषार्थसमाप्त्यार्थो यः स उत्साह उच्यते ॥०१९॥

चित्तक्षोभभवोत्तम्भो वेपथुः परिकीर्तितः ।
वैवर्ण्यञ्च विषादादिजन्मा कान्तिविपर्ययः ॥०२०॥

दुःखानन्दादिजन्नेत्रजलमश्रु च विश्रुतम् ।
इन्द्रयाणामस्तमयः प्रलयो लङ्घनादिभिः ॥०२१॥

वैराग्यादिर्मनःखेदो निर्वेद इति कथ्यते ।
मनःपीडादिजन्मा च सादो ग्लानिः शरीरगा ॥०२२॥

शङ्कानिष्टागमोत्प्रेक्षा स्यादसूया च मत्सरः ।
मदिराद्युपयोगोत्थं मनःसम्मोहनं मदः ॥०२३॥

क्रियातिशयजन्मान्तःशरीरोत्थक्लमः श्रमः ।
शृङ्गारादिक्रियाद्वेषश्चित्तस्यालस्यमुच्यते ॥०२४॥

:न्
[[२०७]]
विश्वास-प्रस्तुतिः
दैन्यं सत्त्वादपभ्रंशश्चिन्तार्थपरिभावनं ।
इतिकर्तव्यतोपायाद्रशनं मोह उच्यते ॥०२५॥

स्मृतिः स्यादनुभूतस्य वस्तुनः प्रतिविम्बनं ।
मतिरर्थपरिच्छेदस्तत्त्वज्ञानोपनायितः ॥०२६॥

व्रीडानुरागादिभवः सङ्कोचः कोपि चेतसः ।
भवेच्चपलातास्थैर्यं हर्षश्चित्तप्रसन्नता ॥०२७॥

आवेशश् च प्रतीकारः शयो वैधुर्यमात्मनः ।
कर्तव्ये प्रतिभाभ्रंशो जडतेत्यभिधीयते ॥०२८॥

इष्टप्राप्तेरूपचितः सम्पदाभ्युदयो धृतिः ।
गर्वाः परेष्ववज्ञानमात्मन्युत्कर्षभावना ॥०२९॥

भवेद्विषादो दैवादेर्विघातो ऽभीष्टवस्तुनि ।
औत्सुक्यमीप्सिताप्राप्तेर्वाञ्छया तरला स्थितिः ॥०३०॥

चित्तेन्द्रियाणां स्तैमित्यमपस्मारो ऽचला स्थितिः ।
युद्धे बाधादिभीस्त्रासो वीप्सा चित्तचमत्कृतिः ॥०३१॥

क्रोधस्याप्रशमो ऽमर्षः प्रबोधश्चेतनोदयः ।
अवहित्थं भवेद्गुप्तिरिङ्गिताकारगोचरा ॥०३२॥

रोषतो गुरुवाग्दण्डपारुष्यं विदुरुग्रतां ।
ऊहो वितर्कःस्याद्व्याधिर्मनोवपुरवग्रहः ॥०३३॥

अनिबद्धप्रलापादिरुन्मादो मदनादिभिः ।
तत्त्वज्ञानादिना चेतःकषायो परमः शमः ॥०३४॥

कविभिर्योजनीया वै भावाः काव्यादिके रसाः ।
विभाव्यते हि रत्यादिर्यत्र येन विभाव्यते ॥०३५॥

[[२०८]]
विश्वास-प्रस्तुतिः
रत्यादिभाववर्गो ऽयं यमाजीव्योपजायते ॥०३६॥

आलम्बनविभावो ऽसौ नायकादिभवस् तथा ।
धीरोदात्तो धीरोद्धतः स्याद्धीरललितस् तथा ॥०३७॥

धीरप्रशान्त इत्य् एवं चतुर्धा नायकः स्मृतः ।
अनुकूलो दक्षिणश् च शठो धृष्टः प्रवर्तितः ॥०३८॥

पीठमर्दो विटश् चैव विदूषक इति त्रयः ।
शृङ्गारे नर्मसचिवा नायकस्यानुनायकाः ॥०३९॥

पीठमर्दः सम्बलकः श्रीमांस्तद्वेशजो विटः ।
विदूषको वैहसिकस्त्वष्टनायकनायिकाः ॥०४०॥

स्वकीया परकीया च पुनर्भूरिति कौशिकाः ।
सामान्या न पुनर्भूरिरित्याद्या बहुभेदतः ॥०४१॥

उद्दिपनविभावास्ते संस्कारैर् विविधैः स्थितैः ।
आलम्बनविभावेषु भावानुद्वीपयन्ति ये ॥०४२॥

चतुःषष्टिकला द्वेधा कर्माद्यैर् गीतिकादिभिः ।
कुहकं स्मृतिरप्येषां प्रायो हासोपहारकः ॥०४३॥

आलम्बनविभावस्य भावैर् उद्बुद्धसंस्कृतैः ।
मनोवाग्बुद्धिवपुषां स्मृतीछाद्वेषयत्नतः ॥०४४॥

आरम्भ एव विदुषामनुभाव इति स्मृतः ।
स चानुभूयते चात्र भवत्युत निरुच्यते ॥०४५॥

मनोव्यापारभूयिष्ठो मन आरम्भ उच्यते ।
द्विविधः पौरुषस्त्रैण ईदृशो ऽपि प्रसिध्यति ॥०४६॥

शोभा विलासो माधुर्यं स्थैर्यं गाम्भीर्यमेव च ।
ललितञ्च तथौदार्यन्तेजो ऽष्टाविति पौरुषाः ॥०४७॥

[[२०९]]
विश्वास-प्रस्तुतिः
नीचनिन्दोत्तमस्पर्धा शौर्यं दाक्षादिकारणं ।
मनोधर्मे भवेच्छोभा शोभते भवनं यथा ॥०४८॥

भावो हावश् च हेला च शोभा कान्तिस्तथैव च ।
दीप्तिर्माधुर्यशौर्ये च प्रागल्भ्यं स्यादुदारता ॥०४९॥

स्थैर्यं गम्भीरता स्त्रीणां विभावा द्वादशेरिताः ।
भावो विलासो हावःस्याद्भावः किञ्चिच्च हर्षजः ॥०५०॥

वाचो युक्तिर्भवेद्वागारम्भो द्वादश एव सः ।
तत्राभाषणमालापः प्रलापो वचनं वहु1 ॥०५१॥

विलापो दुःखवचनमनुलापो ऽसकृद्वचः ।
संलाप उक्तप्रत्युक्तमपलापो ऽन्यथावचः ॥०५२॥

वार्ताप्रयाणं सन्देशो निर्देशः प्रतिपादनम् ।
तत्त्वदेशो ऽतिदेशो ऽयमपदेशो ऽन्यवर्णनम् ॥०५३॥

उपदेशश् च शिक्षावाक् व्याजोक्तिर्व्यपदेशकः ।
बोधाय एष व्यापारःसुबुद्ध्यारम्भ इष्यते ।०५४।
तस्य भेदास्त्रयस्ते च रीतिवृत्तिप्रवृत्तयः ॥०५४॥

{इत्य् आग्नेये महापुराणे अलङ्कारे शृङ्गारादिरसनिरूपणं नामाष्टत्रिंशदधिकत्रिशततमो ऽध्यायः ॥ }
:न्
[[२१०]]