३३७ नाटकनिरूपणं

{अथ सप्तत्रिंशदधिकत्रिशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

नाटकनिरूपणम्

अग्निर् उवाच
नाटकं सप्रकरणं डिम ईहामृगो ऽपि वा ।
ज्ञेयः समवकारश् च भवेत् प्रहसनन्तथा ॥००१॥

मूलम्

व्यायोगभाणवीथ्यङ्कत्रोटकान्यथ नाटिका ।
सट्टकं शिल्पकः कर्णा एको दुर्मल्लिका तथा ॥००२॥

प्रस्थानं भाणिका भाणी गोष्ठी हल्लीशकानि च ।
काव्यं श्रीगदितं नाट्यरासकं रासकं तथा ॥००३॥

उल्लाप्यकं प्रेङ्क्षणञ्च सप्तविंशतिरेव तत् ।
सामान्यञ्च विशेषश् च लक्षणस्य द्वयी गतिः ॥००४॥

सामान्यं सर्वविषयं शेषः क्वापि प्रवर्तते ।
पूर्वरङ्गे निवृत्ते द्वौ देशकालावुभावपि ॥००५॥

रसभावविभावानुभावा अभिनयास् तथा ।
अङ्कः स्थितिश् च सामान्यं सर्वत्रैवोपसर्पणात् ॥००६॥

विशेषो ऽवसरे वाच्यः सामान्यं पूर्वमुच्यते ।
त्रिवर्गसाधनन्नाट्यमित्याहुः करणञ्च यत् ॥००७॥

इतिकर्तव्यता तस्य पूर्वरङ्गो यथाविधि ।
नान्दीमुखानि द्वात्रिंशदङ्गानि पूर्वरङ्गके ॥००८॥

देवतानां नमस्कारो गुरूणामपि च स्तुतिः ।
गोब्राह्मणनृपादीनामाशीर्वादादि गीयते ॥००९॥

नान्द्यन्ते सूत्रधारो ऽसौ रूपकेषु निबध्यते ।
गुरुपूर्वक्रमं वंशप्रशंसा पौरुषं कवेः ॥०१०॥

[[२०३]]

विश्वास-प्रस्तुतिः

सम्बन्धार्थौ च काव्यस्य पञ्चैतानेष निर्दिशेत् ।
नटी विदूषको वापि पारिपार्श्विक एव वा ॥०११॥

सहिताः सूत्रधारेण संलापं यत्र कुर्वते ।
चित्रैर् वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः ॥०१२॥

आमुखं तत्तु विज्ञेयं बुधैः प्रस्तावनापि सा ।
प्रवृत्तकं कथोद्घातः प्रयोगातिशयस् तथा ॥०१३॥

आमुखस्य त्रयो भेदा वीजांशेषूपजायते ।
कालं प्रवृत्तमाश्रित्य सूत्रधृग्यत्र वर्णयेत् ॥०१४॥

तदाश्रयश् च पात्रस्य प्रवेशस्तत् प्रवृत्तकं ।
सूत्रधारस्य वाक्यं वा यत्र वाक्यार्थमेव वा ॥०१५॥

गृहीत्वा प्रविशेत् पात्रं कथोद्घातः स उच्यते ।
प्रयोगेषु प्रयोगन्तु सूत्रधृग्यत्र वर्णयेत् ॥०१६॥

ततश् च प्रविशेत् पात्रं प्रयोगातिशयो हि सः ।
शरीरं नाटकादीनामितिवृत्तं प्रचक्षते ॥०१७॥

सिद्धमुत्प्रेक्षितञ्चेति तस्य भेदाबुभौ स्मृतौ ।
सिद्धमागमदृष्टञ्च सृष्टमुत्प्रेक्षितं कवेः ॥०१८॥

वीजं विन्दुः पताका च प्रकरी कार्यमेव च ।
अर्थप्रकृतयः पञ्च पञ्च चेष्टा अपि क्रमात् ॥०१९॥

प्रारम्भश् च प्रयत्नश् च प्राप्तिः सद्भाव एव च ।
नियता च फलप्राप्तिः फलयोगश् च पञ्चमः ॥०२०॥

मुखं प्रतिमुखं गर्भो विमर्षश् च तथैव च ।
तथा निर्वहणञ्चेति क्रमात् पञ्चैव सन्धयः ॥०२१॥

अल्पमात्रं समुद्दिष्टं बहुधा यत् प्रसर्पति ।

[[२०४]]

विश्वास-प्रस्तुतिः

फलावसानं यच्चैव वीजं तदभिधीयते ॥०२२॥

मूलम्

फलावसानं यच्चैव वीजं तदभिधीयते ॥०२२॥

विश्वास-प्रस्तुतिः

यत्र वीजसमुत्पत्तिर्नानार्थरससम्भवा ।
काव्ये शरीरानुगतं तन्मुखं परिकीर्तितं ॥०२३॥

इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः ।
रागप्राप्तिः प्रयोगस्य गुह्यानाञ्चैव गूहनम् ॥०२४॥

आश् चर्यवदभिख्यातं प्रकाशानां प्रकाशनम् ।
अङ्गहीनं नरो यद्वन्न श्रेष्ठं काव्यमेव च ॥०२५॥

देशकालौ विना किञ्चिन्नेतिवृत्तं प्रवर्तते ।
अतस्तयोरुपादाननियमात् पदमुच्यते ॥०२६॥

देशेषु भारतं वर्षं काले कृतयुगत्रयं ।
नर्ते ताभ्यां प्राणभृतां सुखदुःखोदयः क्वचित् ।०२७।
सर्गे सर्गादिवार्ता च प्रसज्जन्ती न दुष्यति ॥०२७॥

{इत्य् आग्नेये महापुराणे अलङ्कारे नाटकनिरूपणं नाम सप्तत्रिंशदधिकत्रिशततमो ऽध्यायः }