{अथ षट्त्रिंशदधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
काव्यादिलक्षणं
अग्निर् उवाच
काव्यस्य नाटकादेश् च अलङ्कारान् वदाम्य् अथ ।
ध्वनिर्वर्णाः पदं वाक्यमित्येतद्वाङ्मयं मतं ॥००१॥
मूलम्

शास्त्रेतिहासवाक्यानां त्रयं यत्र समाप्यते ।
शास्त्रे शब्दप्रधानत्वमितिहासेषु निष्ठता ॥००२॥

अभिधायाः प्रधानत्वात् काव्यं ताभ्यां विभिद्यते ।
नरत्वं दुर्लभं लोके विद्या तत्र च दुर्लभा ॥००३॥

कवित्वं दुर्लभं तत्र शक्तिस्तत्र च दुर्लभा ।
व्युत्पातिर्दुर्लभा तत्र विवेकस्तत्र दुर्लभः ॥००४॥

सर्वं शास्त्रमविद्वद्भिर्मृग्यमाणन्न सिध्यति ।
आदिवर्णा द्वितीयाश् च महाप्राणस्तुरीयकः ॥००५॥

वर्गेषु वर्णवृन्दं स्यात् पदं सुप्तिड्प्रभेदतः ।
सङ्क्षेपाद्वाक्यमिष्टार्थव्यवछिन्ना पदाबली ॥००६॥

काव्यं स्फुटदलङ्कारं गुणवद्दोषवर्जितम् ।
योनिर्वेदश् च लोकश् च सिद्धमन्नादयोनिजं ॥००७॥

देवादीनाम् संस्कृतं स्यात् प्राकृतं त्रिविधं नृणां ।
गद्यं पद्यञ्च मिश्रञ्च काव्यादि त्रिविधं स्मृतम् ॥००८॥

अपदः पदसन्तानो गद्यन्तदपि गद्यते ।
चूर्णकोत्कलिकागन्धिवृत्तभेदात् त्रिरूपकम् ॥००९॥

[[१९९]]
विश्वास-प्रस्तुतिः
चूर्णकं नान्तो दीर्घसमासात् कलिका भवेत् ॥०१०॥

भवेन्मध्यमसन्दर्भन्नातिकुत्सितविग्रहम् ।
वृत्तच्छायाहरं वृत्तं गन्धिनैतत् किलोत्कटम् ॥०११॥

आख्यायिका कथा खण्डकथा परिकथा तथा ।
कथानिकेति मन्यन्ते गद्यकाव्यञ्च पञ्चधा ॥०१२॥

कर्तृवंशप्रशंसा स्याद्यत्र गद्येन विस्तरात् ।
कन्याहरणसङ्ग्रामविप्रलम्भविपत्तयः ॥०१३॥

भवन्ति यत्र दीप्ताश् च रीतिवृत्तिप्रवृत्तयः ।
उच्छासैश् च परिच्छेदो यत्र या चूर्णकोत्तरा ॥०१४॥

वक्त्रं वापरवक्त्रं वा यत्र साख्यायिका स्मृता ।
श्लोकैः स्ववंशं सङ्क्षेपात् कविर्यत्र प्रशंसति ॥०१५॥

सुख्यस्यार्थावताराय भवेद्यत्र कथान्तरम् ।
परिच्छेदो न यत्र स्याद्भवेद्वालम्भकैः क्वचित् ॥०१६॥

सा कथा नाम तद्गर्भे निबध्नीयाच्चतुष्पदीं ।
भवेत् खण्डकथा यासौ यासौ परिकथा तयोः ॥०१७॥

अमात्यं सार्थकं वापि द्विजं वा नायकं विदुः ।
स्यात्तयोः करुणं विद्धि विप्रलम्भश् चतुर्विधः ॥०१८॥

समाप्यते तयोर् नाद्या सा कथामनुधावति ।
कथाख्यायिकयोर्मिश्रभावात् परिकथा स्मृता ॥०१९॥

भयानकं सुखपरं गर्भे च करुणो रसः ।
अद्भुतो ऽन्ते सुकॢप्तार्थो नोदात्ता सा कथानिका ॥०२०॥

पद्यं चतुष्पदी तच्च वृत्तं जातिरितित्रिधा ।
वृत्तमक्षरसङ्ख्येयमुक्थं तत् कृतिशेषजम् ॥०२१॥

[[२००]]
विश्वास-प्रस्तुतिः
मात्राभिर्गणना सा जातिरिति काश्यपः1 ।
सममर्धसमं वृत्तं विषमं पैङ्गलं त्रिधा ॥०२२॥

सा विद्या नौस्तितीषूर्णां गभीरं काव्यसागरं ।
महाकाव्यं कलापश् च पर्याबन्धो विशेषकम् ॥०२३॥

कुलकं मुक्तकं कोष इति पद्यकुटुम्बकम् ।
सर्गबन्धो महाकाव्यमारब्धं संस्कृतेन यत् ॥०२४॥

तादात्म्यमजहत्तत्र2 तत्समं नाति दुष्यति ।
इतिहासकथोद्भूतमितरद्वा सदाश्रयं ॥०२५॥

मन्त्रदूतप्रयाणाजिनियतं नातिविस्तरम् ।
शक्कर्यातिजगत्यातिशक्कर्या त्रिष्टुभा3 तथा ॥०२६॥

पुष्पिताग्रादिभिर्वक्राभिजनैश्चारुभिः समैः ।
मुक्ता4 तु भिन्नवृत्तान्ता नातिसङ्क्षिप्तसर्गकम् ॥०२७॥

अतिशर्क्वरिकाष्टिभ्यामेकसङ्कीर्णकैः परः ।
मात्रयाप्यपरः सर्गः प्राशस्त्येषु च पश्चिमः ॥०२८॥

कल्पो ऽतिनिन्दितस्तस्मिन्विशेषानादरः सतां ।
नगरार्णवशैलर्तु चन्द्रार्काश्रमपादपैः ॥०२९॥

उद्यानसलिलक्रीडामधुपानरतोत्सवैः ।
दूतीवचनविन्यासैर् असतीचरिताद्भूतैः ॥०३०॥

:न्
[[२०१]]
विश्वास-प्रस्तुतिः
सर्ववृत्तिप्रवृत्तञ्च सर्वभावप्रभावितम् ॥०३१॥

सर्वरीतिरसैः पुष्टं1 पुष्टङ्गुणविभूषणैः ।
अत एव महाकाव्यं तत्कर्ता च महाकविः ॥०३२॥

वाग्वैदग्ध्यप्रधानेपि रस एवात्र जीवितम् ।
पृथक्प्रयत्ननिर्वर्त्यं वाग्वक्रिम्नि रसाद्वपुः ॥०३३॥

चतुर्वर्गफलं विश्वग्व्याख्यातं नायकाख्यया ।
समानवृत्तिनिर्व्यूटः कौशिकीवृत्तिकोमलः ॥०३४॥

कलापो ऽत्र प्रवासः प्रागनुरागाह्वयो रसः ।
सविशेषकञ्च प्राप्त्यादि संस्कृतेनेत्रेण च ॥०३५॥

श्लोकैर् अनेकैः कुलकं स्यात् सन्दानितकानि तत् ।
मुक्तकं श्लोक एकैकश् चमत्कारक्षमः सता ं ॥०३६॥

सूक्तिभिः कविसिंहानां सुन्दरीभिः समन्वितः ।
कोषो ब्रह्मापरिच्छिन्नः स विदग्धाय रोचते ॥०३७॥

आभासोपमशक्तिश् च सर्गे यद्भिन्नवृत्तता ।
मिश्रं वपुरिति ख्यातं प्रकीर्णमिति च द्विधा ।०३८।
श्रव्यञ्चैवाभिनेयञ्च प्रकीर्णं सकलोक्तिभिः ॥०३८॥

{इत्य् आग्नेये महापुराणे अलङ्कारे काव्यादिलक्षणं नाम षट्त्रिंशदधिकत्रिशततमो ऽध्यायः }
:न्
[[२०२]]