{अथ पञ्चत्रिंशदधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
शिक्षानिरूपणम्
अग्निर् उवाच
वक्ष्ये शिक्षान्त्रिषष्टिः स्युर्वर्णा वा चतुराधिकाः ।
स्वरा विंशतिरेकश् च स्पर्शानां पञ्चविंशतिः ॥००१॥
मूलम्

यादयश् च स्मृता ह्य् अष्टौ चत्वारश् च समाः स्मृताः ।
अनुस्वारो विसर्गश् च पौख्यौ चापि परान्वितौ ॥००२॥

दुष्पृष्टश्चेति विज्ञेया ऌकारः प्लुत एव च ।
रङ्गश् च खे अरं प्रोक्तं1 हकारः पञ्चमैर् युतः ॥००३॥

अन्तस्थाभिः समायुक्त औरस्यः कण्ठ्य एव सः ।
आत्मबुद्ध्या समस्यर्थं मनोयुक्ते विवक्षया ॥००४॥

:न्
[[१९६]]
विश्वास-प्रस्तुतिः
मारुतस्तूरसि चरन् मन्त्रं1 जनयति स्वरं ॥००५॥

प्रातःसवनयोगस्तु छन्दो गायत्रमाश्रितम् ।
कण्ठे माध्यन्दिनयुतं मध्यमन्त्रेषु भानुगम् ॥००६॥

तारन्तार्तीयसवनं2 शीर्षण्यं जागतानुगम् ।
सोदीर्णो मूर्ध्न्यभिहितो वक्रमापद्य मारुतः ॥००७॥

वर्णान् जनयते तेषां विभागः पञ्चधा स्मृतः ।
स्वरतः कालतः स्थानात् प्रयत्नार्थप्रदानतः ॥००८॥

अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस् तथा ।
जिह्वामूलञ्च दन्ताश् च नासिकौष्ठौ च तालु च ॥००९॥

स्वभावश् च विवृत्तिश् च शषसा रेफ एव च ।
जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥०१०॥

पद्यो भावप्रसन्धानमुकारादि परम्पदं ।
स्वरान्तं तादृशं विद्याद्यदन्यद्व्यक्तमूष्मणः ॥०११॥

ऊतीर्थादागतं3 दग्धमपवर्णञ्च भक्षितं ।
एवमुच्चारणं पापमेवमुच्चारणं शुभम् ॥०१२॥
मूलम्
ऊतीर्थादागतं3 दग्धमपवर्णञ्च भक्षितं ।
एवमुच्चारणं पापमेवमुच्चारणं शुभम् ॥०१२॥
विश्वास-प्रस्तुतिः
अतीर्थादागतं द्रव्यं साम्नायं सुव्यवस्थितं ।
सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्मराजनि ॥०१३॥

न करालो न लम्वोष्ठो नाव्यक्तो नानुनासिकः ।
गद्गदो बहुजिह्वश् च न वर्णान् वक्तुम् अर्हति ॥०१४॥

[[१९७]]
विश्वास-प्रस्तुतिः
सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते ॥०१५॥

उदात्तश्चानुदात्तश् च स्वरितश् च स्वरास्त्रयः ।
ह्रस्वो दीर्घः प्लुत इति कालतो नियमावधि ॥०१६॥

कण्ठ्या वहाविचुयशास्तालव्या ओष्ठजा वुपु ।
स्युर्मूर्धन्या ऋहुरसाः1 दन्त्याः ऌ+ओलसाः स्मृताः ॥०१७॥

जिह्वामूले तु ह्वः प्रोक्तो दन्त्योष्ठो वः स्मृतो बुधैः ।
एदैतौ कण्टतालव्यौ ओ औ कण्ठ्यौष्ठजौ स्मृतौ ॥०१८॥

अर्धमात्रा तु कण्ठस्य एकारैकारयोर्भवेत् ।
अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥०१९॥

अचो ऽस्पृष्टापणस्त्वीषन्नोमाः स्पृष्ता हलः
स्मृताः ।
शेषाः स्पृष्टा हलः प्रोक्ता निबोधात्र प्रधानतः ॥०२०॥

अमो ऽनुनासिकानक्रौ नादिमौ हसषः स्मृताः ।
ईषन्नादोपणयशः श्वासिनश् च थकादयः ।०२१।
ईषच्छासं स्वरं विद्याद्दीर्घमेतत् प्रचक्षते ॥०२१॥

{इत्य् आग्नेये महापुराणे शिक्षानिरूपणं नाम पञ्चत्रिंशदधिकत्रिशततमो ऽध्यायः }
:न्
[[१९८]]