{अथ चतुस्त्रिंशदधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
प्रस्तारनिरूपणम्
अग्निर् उवाच
छन्दो ऽत्र सिद्धं गाथा स्यात् पादे सर्व गुरौ तथा ।
प्रस्तार आद्यगाथोनः परतुल्यो ऽथ पूर्वगः ॥००१॥
मूलम्

:न्
[[१९५]]
विश्वास-प्रस्तुतिः
नष्टमध्ये समे ऽङ्केनः समे ऽर्ध विषमे गुरुः ।
प्रतिलोमगुणं नाद्यं द्विरुद्दिष्टग एकनुत् ॥००२॥

सङ्ख्याद्विरर्धे रूपे तु शून्यं शून्ये द्विरीरितं ।
तावदर्धतद्गुणितं द्विद्व्यूनञ्च तदन्ततः ॥००३॥

परे पूर्णं परे पूर्णं मेरुप्रस्तारतो भवेत् ।
नगसङ्ख्या वृत्तसङ्ख्या चाध्वाङ्गुलमधोर्धतः ।००४।
सङ्ख्यैव द्विगुणैकोना छन्दःसारो ऽयमीरितः ॥००४॥

{इत्य् आग्नेये महापुराणे प्रस्तारनिरूपणं नाम चतुस्त्रिंशदधिकत्रिशततमो ऽध्यायः }