{अथ त्रयस्त्रिंशदधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
समवृत्तनिरूपणं
अग्निर् उवाच
यतिर्विच्छेद इत्य् उक्तस्तत्तन्मध्यान्तयौ गणौ ।
यौसः कुमारलालिता तौ गौ चित्रपदा स्मृता ॥००१॥
मूलम्
समवृत्तनिरूपणं
अग्निर् उवाच
यतिर्विच्छेद इत्य् उक्तस्तत्तन्मध्यान्तयौ गणौ ।
यौसः कुमारलालिता तौ गौ चित्रपदा स्मृता ॥००१॥
विश्वास-प्रस्तुतिः
विद्युन्माला मममागणैर् भूतगणैर् भवेत् ।
माणवका क्रीडितकं वनौ हलमुखी वसः ॥००२॥
मूलम्
विद्युन्माला मममागणैर् भूतगणैर् भवेत् ।
माणवका क्रीडितकं वनौ हलमुखी वसः ॥००२॥
विश्वास-प्रस्तुतिः
स्याद्भुजङ्गशिशुसूतानौ मेहनं मरुतं ननौ ।
भवेच्छुद्धविराड्वृत्तं समौ जगौ ॥००३॥
मूलम्
स्याद्भुजङ्गशिशुसूतानौ मेहनं मरुतं ननौ ।
भवेच्छुद्धविराड्वृत्तं समौ जगौ ॥००३॥
[[१९२]]
विश्वास-प्रस्तुतिः
पणवोमलयोमः1 स्याज्जौ गौ मयूरसारिणी ।
सत्तामभसगा वृत्तं भजताद्युपरिस्थिता ॥००४॥
मूलम्
पणवोमलयोमः1 स्याज्जौ गौ मयूरसारिणी ।
सत्तामभसगा वृत्तं भजताद्युपरिस्थिता ॥००४॥
विश्वास-प्रस्तुतिः
रुक्मवती भससगाविन्द्रावज्रा तजौ गजौ ।
जतौ जगौ गूपपूर्वावाद्यन्ताद्युपजातयः ॥००५॥
मूलम्
रुक्मवती भससगाविन्द्रावज्रा तजौ गजौ ।
जतौ जगौ गूपपूर्वावाद्यन्ताद्युपजातयः ॥००५॥
विश्वास-प्रस्तुतिः
दोधकं भगभागौ स्यात् शालिनी मतभागगौ ।
यतिः समुद्रा ऋषयः वातोर्मी मभतागगौ ॥००६॥
मूलम्
दोधकं भगभागौ स्यात् शालिनी मतभागगौ ।
यतिः समुद्रा ऋषयः वातोर्मी मभतागगौ ॥००६॥
विश्वास-प्रस्तुतिः
चतुःस्वरा स्याद्भ्रमरी विलासिता मभौनलौ ।
समुद्रा अथ ऋषयो वनौ लौगौ रथोद्धता ॥००७॥
मूलम्
चतुःस्वरा स्याद्भ्रमरी विलासिता मभौनलौ ।
समुद्रा अथ ऋषयो वनौ लौगौ रथोद्धता ॥००७॥
विश्वास-प्रस्तुतिः
सामताधनभागोगोवृत्ताननसमाश् च सः ।
श्येनी वजवनागः स्याद्रम्या नपरगागगः ॥००८॥
मूलम्
सामताधनभागोगोवृत्ताननसमाश् च सः ।
श्येनी वजवनागः स्याद्रम्या नपरगागगः ॥००८॥
विश्वास-प्रस्तुतिः
जगती वंशस्था वृत्तं जतौ जावथ तौ जवौ ।
इन्द्रवंशा तोटकं सैश् चतुर्भिः प्रतिपादतः ॥००९॥
मूलम्
जगती वंशस्था वृत्तं जतौ जावथ तौ जवौ ।
इन्द्रवंशा तोटकं सैश् चतुर्भिः प्रतिपादतः ॥००९॥
विश्वास-प्रस्तुतिः
भवेद्द्रुतविलम्बिता नभौ भवावथौ नलौ ।
स्यौ श्रीपुठो वसुवेदा जलोगतिजलौ जमौ ॥०१०॥
मूलम्
भवेद्द्रुतविलम्बिता नभौ भवावथौ नलौ ।
स्यौ श्रीपुठो वसुवेदा जलोगतिजलौ जमौ ॥०१०॥
विश्वास-प्रस्तुतिः
जसौ वसर्ववश्चाथ ततं ननमराः स्मृतं ।
कुसुमविचित्रा न्यौ द्यौ नौ नौ रौ स्याच्चलाम्बिका2 ॥०११॥
मूलम्
जसौ वसर्ववश्चाथ ततं ननमराः स्मृतं ।
कुसुमविचित्रा न्यौ द्यौ नौ नौ रौ स्याच्चलाम्बिका2 ॥०११॥
विश्वास-प्रस्तुतिः
भुजङ्गप्रयातं थैः स्याच्चतुर्भिः स्रग्विनीभवैः ।
प्रमिताक्षरा गजौ सौ कान्तोत्पीडा मतौ समौ3 ॥०१२॥
मूलम्
भुजङ्गप्रयातं थैः स्याच्चतुर्भिः स्रग्विनीभवैः ।
प्रमिताक्षरा गजौ सौ कान्तोत्पीडा मतौ समौ3 ॥०१२॥
:न्
[[१९३]]
विश्वास-प्रस्तुतिः
नजौ भयौ प्रतिपादं गणा यदि जगत्यपि ॥०१३॥
मूलम्
नजौ भयौ प्रतिपादं गणा यदि जगत्यपि ॥०१३॥
विश्वास-प्रस्तुतिः
प्रहर्षणी मवजवा गोपतिर्वह्निदिक्षु च ।
रुचिरा जभसजगा च्छिन्ना वेदैर् ग्रहैः स्मृता ॥०१४॥
मूलम्
प्रहर्षणी मवजवा गोपतिर्वह्निदिक्षु च ।
रुचिरा जभसजगा च्छिन्ना वेदैर् ग्रहैः स्मृता ॥०१४॥
विश्वास-प्रस्तुतिः
मत्तमयूरं मतया सगौ वेदरहे यतिः ।
गौरीनलनसागः स्यादसम्बाधा नतौ नगौ ॥०१५॥
मूलम्
मत्तमयूरं मतया सगौ वेदरहे यतिः ।
गौरीनलनसागः स्यादसम्बाधा नतौ नगौ ॥०१५॥
विश्वास-प्रस्तुतिः
गोग इन्द्रियनवकौ ननौ वसनगाः स्वराः ।
स्वराश्चापराजिता स्यान्ननभाननगाः स्वराः ॥०१६॥
मूलम्
गोग इन्द्रियनवकौ ननौ वसनगाः स्वराः ।
स्वराश्चापराजिता स्यान्ननभाननगाः स्वराः ॥०१६॥
विश्वास-प्रस्तुतिः
द्विःप्रहरणकलिता1 वसन्ततिलका नभौ ।
जौ गौ सिंहोन्नता सा स्यान्मुनेरुद्धर्षणी च सा ॥०१७॥
मूलम्
द्विःप्रहरणकलिता1 वसन्ततिलका नभौ ।
जौ गौ सिंहोन्नता सा स्यान्मुनेरुद्धर्षणी च सा ॥०१७॥
विश्वास-प्रस्तुतिः
चन्द्रावर्ता ननौ सोमावर्तर्तुनवकः स्मृतः ।
मणिगुणनिकरा सौ मालिनौ नौ मयौ ययः ॥०१८॥
मूलम्
चन्द्रावर्ता ननौ सोमावर्तर्तुनवकः स्मृतः ।
मणिगुणनिकरा सौ मालिनौ नौ मयौ ययः ॥०१८॥
विश्वास-प्रस्तुतिः
यतिर्वसुस्वरा भौ वौ नतलमित्रसग्रहाः2 ।
ऋषभगजविलासितं ज्ञेया शिखरिणी जगौ ॥०१९॥
मूलम्
यतिर्वसुस्वरा भौ वौ नतलमित्रसग्रहाः2 ।
ऋषभगजविलासितं ज्ञेया शिखरिणी जगौ ॥०१९॥
विश्वास-प्रस्तुतिः
रसभालभृगुरुद्राः पृथ्वीजसजसा जनौ ।
गोवसुग्रहविच्छिन्ना पिङ्गलेनेरिता पुरा ॥०२०॥
मूलम्
रसभालभृगुरुद्राः पृथ्वीजसजसा जनौ ।
गोवसुग्रहविच्छिन्ना पिङ्गलेनेरिता पुरा ॥०२०॥
विश्वास-प्रस्तुतिः
वंशपत्रपतितं स्याद् भवना भौ नगौ सदिक् ।
हरिणी नसमारः सो नगौ रसचतुःस्वराः ॥०२१॥
मूलम्
वंशपत्रपतितं स्याद् भवना भौ नगौ सदिक् ।
हरिणी नसमारः सो नगौ रसचतुःस्वराः ॥०२१॥
विश्वास-प्रस्तुतिः
मन्दाक्रान्ता नभनतं तगौगछिरसस्वराः ।
कुसुमितलता वेल्लिता यययाः शराः ॥०२२॥
मूलम्
मन्दाक्रान्ता नभनतं तगौगछिरसस्वराः ।
कुसुमितलता वेल्लिता यययाः शराः ॥०२२॥
विश्वास-प्रस्तुतिः
रथाः स्वराः प्रतिरथससजाः सतताश् च गः ।
शार्दूलविक्रीडितं स्यादादित्यमुनयो यतिः ॥०२३॥
मूलम्
रथाः स्वराः प्रतिरथससजाः सतताश् च गः ।
शार्दूलविक्रीडितं स्यादादित्यमुनयो यतिः ॥०२३॥
:न्
[[१९४]]
विश्वास-प्रस्तुतिः
कृतिः सुवदना मोरो भनया भनगाः सुराः ।
यतिर्मुनिरसाश्चाथ इति वृत्तं क्रमात् स्मृतम् ॥०२४॥
मूलम्
कृतिः सुवदना मोरो भनया भनगाः सुराः ।
यतिर्मुनिरसाश्चाथ इति वृत्तं क्रमात् स्मृतम् ॥०२४॥
विश्वास-प्रस्तुतिः
स्नग्धरा मरतानोमोयपौ त्रिःसप्तका यतिः ।
समुद्रकं भरजानोवनगो दशभास्कराः ॥०२५॥
मूलम्
स्नग्धरा मरतानोमोयपौ त्रिःसप्तका यतिः ।
समुद्रकं भरजानोवनगो दशभास्कराः ॥०२५॥
विश्वास-प्रस्तुतिः
अश्वललितं नजभा जभजा भनमीशतः ।
मत्ताक्रीडा ममनना नौनग्नौ गोष्टमातिथिः ॥०२६॥
मूलम्
अश्वललितं नजभा जभजा भनमीशतः ।
मत्ताक्रीडा ममनना नौनग्नौ गोष्टमातिथिः ॥०२६॥
विश्वास-प्रस्तुतिः
तन्वी भनतसाभोभो लयो वाणसुरार्ककाः ।
क्रौञ्चपदा भमतता नौ नौ वाणशराष्टतः ॥०२७॥
मूलम्
तन्वी भनतसाभोभो लयो वाणसुरार्ककाः ।
क्रौञ्चपदा भमतता नौ नौ वाणशराष्टतः ॥०२७॥
विश्वास-प्रस्तुतिः
भुजङ्गविजृम्भितं ममतना ननवासनौ ।
गोष्टेशमुनिभिश्छेदो ह्य् उपहाराख्यमीदृअशम् ॥०२८॥
मूलम्
भुजङ्गविजृम्भितं ममतना ननवासनौ ।
गोष्टेशमुनिभिश्छेदो ह्य् उपहाराख्यमीदृअशम् ॥०२८॥
विश्वास-प्रस्तुतिः
मननानतानः सो गगौ ग्रहरसो रसात्1 ।
नौ सप्तरोदण्डदः स्याच्चण्डवृष्टिप्रघातकं2 ॥०२९॥
विश्वास-प्रस्तुतिः
रेफवृद्ध्या णणवा स्युर्व्यालजीमूतमुख्यकाः ।
शेषे वै प्रचिता ज्ञेया गाथाप्रस्तार उच्यते ॥०३०॥
मूलम्
रेफवृद्ध्या णणवा स्युर्व्यालजीमूतमुख्यकाः ।
शेषे वै प्रचिता ज्ञेया गाथाप्रस्तार उच्यते ॥०३०॥
{इत्य् आग्नेये महापुराणे समवृत्तनिरूपणं नाम त्रयस्त्रिंशदधिकत्रिशततमो ऽध्यायः }