{अथैकत्रिंशदधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
विषमकथनम्
अग्निर् उवाच
वृत्तं समञ्चार्धसमं विषमञ्च त्रिधा वदे ।
समन्तावत् कृत्वकृतमर्धसमञ्च कारयेत् ॥००१॥
मूलम्
विषमकथनम्
अग्निर् उवाच
वृत्तं समञ्चार्धसमं विषमञ्च त्रिधा वदे ।
समन्तावत् कृत्वकृतमर्धसमञ्च कारयेत् ॥००१॥
विश्वास-प्रस्तुतिः
विषमञ्चैव वास्यूनमतिवृत्तं समान्यपि ।
ग्लौचतुःप्रमाणी स्यादाभ्यामन्यद्वितानकं ॥००२॥
मूलम्
विषमञ्चैव वास्यूनमतिवृत्तं समान्यपि ।
ग्लौचतुःप्रमाणी स्यादाभ्यामन्यद्वितानकं ॥००२॥
विश्वास-प्रस्तुतिः
पादस्याद्यन्तु वक्रं स्यात् शनौ न प्रथ्मास्मृतौ ।
वाल्यमुश् चतुर्थाद्वर्णात् पथ्या वर्णं युजोयतः ॥००३॥
मूलम्
पादस्याद्यन्तु वक्रं स्यात् शनौ न प्रथ्मास्मृतौ ।
वाल्यमुश् चतुर्थाद्वर्णात् पथ्या वर्णं युजोयतः ॥००३॥
विश्वास-प्रस्तुतिः
विपरीतपथ्यान्यासाच्चपला वा युजस्वनः ।
विपुलायुग्नसप्तमः सर्वं तस्यैव तस्य च ॥००४॥
मूलम्
विपरीतपथ्यान्यासाच्चपला वा युजस्वनः ।
विपुलायुग्नसप्तमः सर्वं तस्यैव तस्य च ॥००४॥
:न्
[[१९०]]
विश्वास-प्रस्तुतिः
तौन्तौ वा विपुलानेका चक्रजातिः समीरिता ।
भवेत् पदचतुरूद्ध्वं चतुर्वृद्ध्या पदेषु च ॥००५॥
मूलम्
तौन्तौ वा विपुलानेका चक्रजातिः समीरिता ।
भवेत् पदचतुरूद्ध्वं चतुर्वृद्ध्या पदेषु च ॥००५॥
विश्वास-प्रस्तुतिः
गुरुद्वयान्त आपीडः प्रत्यापीडो गणादिकः ।
प्रथमस्य विपर्यासे मञ्जरी लवणी क्रमात् ॥००६॥
मूलम्
गुरुद्वयान्त आपीडः प्रत्यापीडो गणादिकः ।
प्रथमस्य विपर्यासे मञ्जरी लवणी क्रमात् ॥००६॥
विश्वास-प्रस्तुतिः
भवेदमृतधाराख्या उद्धताद्युच्यते ऽधुना ।
एकतः समजसानःस्युर्न सौ जो गो ऽथ भौनजौ ॥००७॥
मूलम्
भवेदमृतधाराख्या उद्धताद्युच्यते ऽधुना ।
एकतः समजसानःस्युर्न सौ जो गो ऽथ भौनजौ ॥००७॥
विश्वास-प्रस्तुतिः
नोगो ऽथ सजसा गोगस्तृतीयचरणस्य च ।
सौरभे केचनभगा ललितञ्च नमौ जसौ ॥००८॥
मूलम्
नोगो ऽथ सजसा गोगस्तृतीयचरणस्य च ।
सौरभे केचनभगा ललितञ्च नमौ जसौ ॥००८॥
विश्वास-प्रस्तुतिः
उपस्थितं प्रचुपितं प्रथमाद्यं समौ जसौ ।
गोगथो मलजा रोगः समो नगरजयाः पदे ॥००९॥
मूलम्
उपस्थितं प्रचुपितं प्रथमाद्यं समौ जसौ ।
गोगथो मलजा रोगः समो नगरजयाः पदे ॥००९॥
विश्वास-प्रस्तुतिः
वर्धमानं मलौ स्वौ नसौ अथो भोजोव इरिता ।
शुद्धविराडार्षभाख्यं वक्ष्ये चार्धसमन्ततः ॥०१०॥
मूलम्
वर्धमानं मलौ स्वौ नसौ अथो भोजोव इरिता ।
शुद्धविराडार्षभाख्यं वक्ष्ये चार्धसमन्ततः ॥०१०॥
{इत्य् आग्नेये महापुराणे विषमकथनं नामैकत्रिंशदधिकत्रिशततमो ऽध्यायः }