{अथ त्रिंशदधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
छन्दोजातिनिरूपणम्
अग्निर् उवाच
चतुःशतमुत्कृतिः स्यादुकृतेश् चतुरस्त्यजेत् ।
अभिसंव्या प्रत्यकृतिस्तानि छन्दांशि वै पृथक् ॥००१॥
मूलम्

कृतिश्चातिघृतिवृत्तो1 अत्यष्टिश्चाष्टिरित्यतः ।
अतिशर्करी शक्करीति अतिजगती जगत्यपि ॥००२॥

छन्दो ऽत्र लौकिकं स्याच्च आर्षमात्रैष्टुभात् स्मृतम् ।
त्रिषुप्पङ्क्तिवृहती अनुष्टुवुष्णिगीरितम् ॥००३॥

गायत्री स्यात् सुप्रतिष्टा प्रतिष्ठा मध्यया सह ।
अत्युक्तात्युक्त आदिश् च एकैकाक्षरवर्जितम् ॥००४॥

चतुर्भागो भवेत् पादो गणच्छन्दः प्रदर्श्यते ।
तावन्तः समुद्रा गणा ह्य् आदिमध्यान्तसर्वगाः ॥००५॥

:न्
[[१८८]]
विश्वास-प्रस्तुतिः
चतुर्णः पञ्च च गणा आर्यालक्षनमुच्यते ।
स्वरार्धञ्चार्यार्धं स्यादार्यायां विषमेन जः ॥००६॥

षष्ठो जो नलपूर्वा स्याद्द्वितीयादिपदं नले ।
सप्तमे ऽन्ते प्रथमा च द्वितीये पञ्चमे नले ॥००७॥

आर्धे पदं प्रथमादि षष्ठ एको लघुर्भवेत् ।
त्रिषु गणेषु पादः स्यादार्या पञ्चार्धके स्मृता ॥००८॥

विपुलान्याथ चपला गुरुमध्यगतौ च जौ ।
द्वितीयचतुर्थौ पूर्वे च चपला मुखपूर्विका ॥००९॥

द्वितीये जघनपूर्वा चपलार्या प्रकीर्तिता ।
उभयोर्महाचपला गीतवाद्यार्धतुल्यका ॥०१०॥

अन्त्येनार्धेनोपगीतिरुद्गीतिश्चोत्क्रमात् स्मृता ।
अर्धे रक्षगणा आर्या गीटच्छन्दो ऽथ मात्रया ॥०११॥

वैतालीयं द्विस्वरा स्यादयुष्पादे समे नलः ।
वसवो ऽन्ते वनगाश् च गोपुच्छन्दशकं भवेत् ॥०१२॥

भगणान्ता पाटलिका शेषे परे च पूर्ववत्1 ।
साकं षड्वा मिश्रायुक् प्राच्यवृत्तिः प्रदर्श्यते ॥०१३॥

पञ्चमेन पूर्वसाकं तृतीयेन सहस्रयुक् ।
उदीच्यवृत्तिर्वाच्यां स्याद् युगपच्च प्रवर्तकं ॥०१४॥

अयुक्चारुहासिनी स्याद्युगपच्चान्तिका भवेत् ॥१५॥

सप्तार्चिर्वसवश् चैव मात्रासमकमीरितम् ।
भवेन्नलवमौ लश् च द्वादशो वा नवासिका ॥०१६॥

[[१८९]]
विश्वास-प्रस्तुतिः
परयुक्तेनोपचित्रा पादाकुलकमित्यतः ॥०१७॥
मूलम्
परयुक्तेनोपचित्रा पादाकुलकमित्यतः ॥०१७॥
विश्वास-प्रस्तुतिः
गीतार्या लोपश्चेत् सौम्या लः पूर्वः1 ज्योतिरीरिता ।
स्याच्छिखा विपर्यास्तार्धा तूलिका समुदाहृता ॥०१८॥

एकोनत्रिंशदन्ते गः स्याज्ज्ञेजनसमावला ।
गु इत्य् एकगुरुं[^२] सङ्ख्यावर्णाद्दशविपर्ययात् ॥०१९॥

{इत्य् आग्नेये महापुराणे छन्दोजातिनिरूपणं नाम त्रिंशदधिकत्रिशततमो ऽध्यायः }