{अथोनत्रिंशदधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
छन्दःसारः
अग्निर् उवाच
पाद आपदपूरणे गायत्र्यो वसवः स्मृताः ।
जगत्या आदित्याः पादो विराजो दिश ईरिताः ॥००१॥
मूलम्

विष्णुतो रुद्राः पादः स्याच्छन्द एकादिपादकं ।
आद्यं चतुष्पाच्चतुर्भिस्त्रिपात् सप्ताक्षरैः क्वचित् ॥००२॥

सा गायत्री पदे नीवृत् तत्प्रतिष्ठादि षट् त्रिपात् ।
बर्धमाना षडष्टाष्टा त्रिपात् षड्वसुभूधरैः ॥००३॥

गायत्री त्रिपदा नीवृत् नागी नवनवर्तुभिः ।
वाराही रसद्विरसा छन्दश्चाथ तृतीयकम् ॥००४॥

द्विपाद् द्द्वादशवस्वन्तैः त्रिपात्तु त्रैष्टुभैः स्मृतम् ।
उष्णिक् छन्दो ऽष्टवसुकैः पादैर् वेदे प्रकीर्तितः ॥००५॥

ककुबुष्णिगष्टसूर्यवस्वर्णां त्रिभिरेव सः ।
पुनरुष्णिक् सूर्यवसुवस्वर्णैश् च त्रिपाद्भवेत् ॥००६॥

परोष्णिक् परतस्तस्माच्चतुष्पादात् त्रिभिर्भवेत् ।
साष्टाक्षरैर् अनुष्टुप् स्यात् चतुष्पाच्च त्रिपात् क्वचित् ॥००७॥

अष्टार्कसूर्यवर्णैः स्यात् मध्ये ऽन्ते च क्वचिद्भवेत् ।
वृहतीजगत्यस्त्रयो गायत्र्याः पूर्वको यदि ॥००८॥

तृतीयः पथ्या भवति द्वितीयान्यं कुसारिणी ।
स्कन्धौ ग्रीवा क्रौष्टुके स्याद् यक्षे स्यद्वो वृहत्यपि ॥००९॥

[[१८६]]
विश्वास-प्रस्तुतिः
उपरिष्टाद्वृहत्यन्ते पुरस्ताद्वृहती पुनः ।
क्वचिन्नवकाश् चत्वारो दिग्विदिक्ष्वष्टवर्णिकाः ॥०१०॥

महावृहती जागतैः स्यात् त्रिभिः सतो वृहत्यपि ।
भण्डिलः पङ्क्रिच्छन्दः स्यात्
सूर्यार्काष्टाष्टवर्णकैः ॥०११॥

पूर्वौ वेदयुजौ सतः पङ्क्तिश् च विपरीतकौ ।
प्रस्तारपङ्क्तिः पुरतः पवादास्तारपङ्क्तिका ॥०१२॥

अक्षरपङ्क्तिः पञ्चकाश् चत्वारश्चाल्पशो द्वयं ।
पदपङ्क्तिः पञ्च भवेच्चतुष्कं षट्ककत्रयम् ॥०१३॥

षट्कपञ्चभिर्गायत्रैः षड्भिश् च जगती भवेत् ।
एकेन त्रिष्टुव्ज्योतिष्मती तथैव जगतीरिता ॥०१४॥

पुरस्ताज्योतिः प्रथमे मध्ये ज्योतिश् च मध्यतः ।
उपरिष्टाज्योतिरन्त्यादेकस्मिन् पञ्चके तथा ॥०१५॥

भवेच्छन्दः शङ्कुमती षट्के छन्दःककुद्मती ।
त्रिपादशिशुमध्या स्यात् सा पिपीलिकमध्यमा1 ॥०१६॥

विपरीता यवमध्या त्रिवृदेकेन वर्जिता ।
भूमिजैकेनाधिकेन द्विहीना च चिराद्भवेत् ॥०१७॥

अवराट्स्याद्द्वाभ्यामधिकं सन्दिग्धो दैवतादितः ।
आदिपादान्निश् चयः स्याच्छन्दसं देवता क्रमात् ॥०१८॥

अग्निः सूर्यः शशी जीवो वरुणश् चन्द्र एव च ।
विश्वेदेवाश् च षड्जाद्याः स्वराः षड्जो वृषः
क्रमात् ॥०१९॥

गान्धारो मध्यमश् चैव पञ्चमो धैवतस् तथा ।
निषादवर्णाः श्वेतश् च सारङ्गश् च पिसङ्गकः ॥०२०॥

:न्
[[१८७]]
विश्वास-प्रस्तुतिः
कृष्णो नीलो लोहितश् च गौरी गायत्रिमुख्यके ।
गौरीचनाभाः कृतयो ज्योतिश्छन्दो हि श्यामलं ॥०२१॥

अग्निर्वैश्यः काश्यपश् च गौतमाङ्गिरसौ क्रमात् ।
भार्गवः कौशिकश् चैव वाशिष्टो गोत्रमीरितं ॥०२२॥

{इत्य् आग्नेये महापुराणे छन्दःसारो नामोनत्रिंशदधिकत्रिशततमो ऽध्यायः ॥ }