{अथाष्टाविंशत्यधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
छन्दःसारः
अग्निर् उवाच
छन्दोधिकारे गायत्री देवी चैकाक्षरी भवेत् ।
पञ्चदशाक्षरी सा स्यात् प्राजापत्याष्टविर्णिका ॥००१॥
मूलम्

यजुषां षडर्णा गायत्री साम्नां स्याद्द्वादशाक्षरा ।
ऋचामष्टादशार्णा स्यात्साम्नां वर्धेत च द्वयं ॥००२॥

ऋचां तुर्यञ्च वर्धेत प्राजापत्याचतुष्टयं ।
वर्धेदेकैककं शेषे आतुर्यादेक्रमुत्सृजेत् ॥००३॥

उष्णिगनुष्टुब् वृहती पङ्क्तिस्त्रिष्टुब्जगत्यपि ।
तानि ज्ञेयानि क्रमशो गायत्र्यो ब्रह्म एव ताः ॥००४॥

तिस्रस्तिस्रः समान्यः स्युरेकैका आर्य एव च ।
ऋग्यजुषां सञ्ज्ञाः स्युश् चतुःषष्टिपदे लिखेत् ॥००५॥

{इत्य् आग्नेये महापुराणे छन्दःसारो नामाष्टाविंशत्यधिकत्रिशततमो ऽध्यायः }
[[१८५]]