{अथ सप्तविंशत्यधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
छन्दःसारः
अग्निर् उवाच
छन्दो वक्ष्ये मूलजैस्तैः पिङ्गलोक्तं यथाक्रमम् ।
सर्वादिमध्यान्तगणौ म्लौ द्वौ जौ स्तौ त्रिकौ गणाः ॥००१॥
मूलम्

:न्
[[१८४]]
विश्वास-प्रस्तुतिः
ह्रस्वो गुरुर्वा पादान्ते पूर्वो योगाद् विसर्गतः ।
अनुस्वाराद्व्यञ्जनात् स्थात् जिह्वामूलीयतस् तथा ॥००२॥

उपाध्मानीयतो दीर्घो गुरुर्ग्लौ नौ गणाविह ।
वसवोष्टौ च चत्वारो वेदादित्यादिलोपतः ॥००३॥

{इत्य् आग्नेये महापुराणे छन्दःसारो नाम सप्तविंशत्यधिकत्रिशततमो ऽध्यायः }