३२६ देवालयमाहात्म्यं

{अथ षड्विंशत्यधिकत्रिशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

देवालयमाहात्म्यम्

ईश्वर+उवाच
व्रतेश्वरांश् च सत्यादीनिष्ट्वा व्रतसमर्पणम् ।
अरिष्टशमने शस्तमरिष्टं सूत्रनायकम् ॥००१॥

मूलम्

[[१८२]]

विश्वास-प्रस्तुतिः

हेमरत्रमयं भूत्यै महाशङ्खञ्च मारणे ।
आप्यायने शङ्खसूत्रं मौक्तिकं पुत्रवर्धनम् ॥००२॥

स्फाटिकं भूतिदं कौशं मुक्तिदं1 रुद्रनेत्रजं ।
धाधीफलप्रमाणेन रुद्राक्षं चोत्तमन्ततः ॥००३॥

समेरुं मेरुहीनं वा सूत्रं जप्यन्तु मानसम् ।
अनामाङ्गुष्ठमाक्रम्य जपं भाष्यन्तु कारयेत् ॥००४॥

तर्जन्यङ्गुष्ठमाक्रम्य न मेरुं लङ्घ्येज्जपे ।
प्रमादात् पतिते सूत्रे जप्तव्यन्तु शतद्वयम् ॥००५॥

सर्ववाद्यमयी घण्टा तस्या वादनमर्थकृत् ।
गोशकृन्मूत्रवल्मीकमृत्तिकाभस्मवारिभिः ॥००६॥

वेस्मायतनलिङ्गादेः कार्यमेवं विशोधनम् ।
स्कन्दो नमः शिवायेति मन्त्रः सर्वार्थसाधकः ॥००७॥

गीतः पञ्चाक्षरो वेदे लोके गीतःषडक्षरः ।
ओमित्यन्ते स्थितः शम्भुर्मुद्रार्थं वटवीजवत् ॥००८॥

क्रमान्नमः शिवायेति ईशानाद्यानि वै विदुः ।
षडक्षरस्य सूत्रस्य भाष्यद्विद्याकदम्बकं ॥००९॥

यदोन्नमः शिवायेति एतावत् परमं पदम् ।
अनेन पूजयेल्लिङ्गं लिङ्गे यस्मात् स्थितः शिवः ॥०१०॥

अनुग्रहाय लोकानां धर्मकामार्थमुक्तिदः ।
यो न पूजयते लिङ्गन्न स धर्मादिभाजनं ॥०११॥

लिङ्गार्चनाद्भुक्तिमुक्तिर्यावज्जीवमतो यजेत् ।
वरं प्राणपरित्यागो भुञ्जीतापूज्य नैव तं ॥०१२॥

:न्

[[१८३]]

विश्वास-प्रस्तुतिः

रुद्रस्य पूजनाद्रुद्रो विष्णुः स्याद्विष्णुपूजनात् ।
सूर्यः स्यात् सुर्यपूजातः शक्त्यादिः शक्तिपूजनात् ॥०१३॥

सर्वयज्ञतपोदाने तीर्थे वेदेषु यत् फलं ।
तत् फलं कोटिगुणितं स्थाप्य लिङ्गं लभेन्नरः ॥०१४॥

त्रिसन्ध्यं योर्चयेल्लिङ्गं कृत्वा विल्वेन पार्थिवम् ।
शतैकादशिकं यावत् कुलमुद्धृत्य नाकभाक् ॥०१५॥

भक्त्या वित्तानुसारेण कुर्यात् प्रसादसञ्चयम् ।
अल्पे महति वा तुल्यफलमाढ्यदरिद्रयोः ॥०१६॥

भागद्वयञ्च धर्मार्थं कल्पयेज्जीवनाय च ।
धनस्य भागमेकन्तु1अनित्यं जीवितं यतः ॥०१७॥

त्रिसप्तकुलमुद्धृत्य देवागारकृदर्थभाक् ।
मृत्काष्ठेष्टकशैलाद्यैः क्रमात् कोटिगुणं फलम् ॥०१८॥

अष्टेष्टकसुरागारकारी स्वर्गमवाप्नुयात् ।
पांशुना क्रीडमानोपि देवागारकृदर्थभाक् ॥०१९॥

{इत्य् आग्नेये महापुराणे देवालयमाहत्म्यादिर्नाम षड्विंशत्यधिकत्रिशततमो ऽध्यायः }

  1. भक्तिदमिति ख॥ ↩︎ ↩︎ ↩︎ ↩︎