{अथ पञ्चविंशत्यधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
गौर्यादिपूजा
ईश्वर उवाच
सौभाग्यादेरुमापूजां वक्ष्ये ऽहं भुक्तिमुक्तिदां ।
मन्त्रध्यानं मण्डलञ्च मुद्रां होमादिसाधनम् ॥००१॥
मूलम्

चित्रभानुं शिवं कालं महाशक्तिसमन्वितम् ।
इडाद्यं परतोद्वृत्य सदेवः सविकारणम् ॥००२॥

द्वितीयं द्वारकाक्रान्तं गौरीप्रीतिपदान्वितं ।
चतुर्थ्यन्तं प्रकर्तव्यं गौय्या वै मूलवाचकं ॥००३॥

ॐ ह्रीं सः शौं गौर्यै नमः
तत्रार्णत्रितयेनैव जातियुक्तं षडङ्गुलम् ।
आसनं प्रणवेणैव मूर्तिं वै हृदयेन तु ॥००४॥

उदकाञ्च तथा कालं शिववीजं समुद्धरेत् ।
प्राणं दीर्घस्वराक्रान्तं षडङ्गं जातिसंयुतम् ॥००५॥

आसनं प्रणवेनात्र मूर्तिन्यासं हृदाचरेत् ।
यामलं कथितं वत्स एकवीरं वदाम्य् अथ ॥००६॥

व्यापकं सृष्टिसंयुक्तं वह्निमायाकृशानुभिः ।
शिवशक्तिमयं वीजं वीजं हृदयादिविवर्जितं ॥००७॥

गौरीं यजेद्धेमरूप्यां काष्ठजां शैलजादिकां ।
पञ्चपिण्डां तथाव्यक्तां कोणे मध्ये तु पञ्चमं1 ॥००८॥

:न्
[[१८०]]
विश्वास-प्रस्तुतिः
वामा ज्येष्ठा क्रिया ज्ञाना वृत्ते पूर्वादितो यजेत् ॥००९॥

सपीठे वामभागे तु शिवस्याव्यक्तरूपकम् ।
व्यक्ता द्विनेत्रा त्र्यक्षरा शुद्धा वा शङ्करान्विता ॥०१०॥

पीठपद्मद्वयं तारा द्विभुजा वा चतुर्भजा ।
सिंहस्था वा वृकस्था1 वा अष्टाष्टादशसत्करा ॥०११॥

स्रगक्षसूत्रकलिका गलकोत्पलपिण्डिका ।
शरं धनुर्वा सव्येन पाणिनान्यतमं वहत् ॥०१२॥

वामेन पुस्तताम्बूलदण्डाभयकमण्डलुम् ।
गणेशदर्पणेष्वासान्दद्यादेकैकशः क्रमात् ॥०१३॥

व्यक्ताव्यक्ताथवा कार्या पद्ममुद्रा स्मृतासने ।
तिङ्गमुद्रा शिवस्योक्ता मुदा चावाहनी द्वयोः ॥०१४॥

शक्तिमुद्रा तु योन्याख्या चतुरस्रन्तु मण्डलं ।
चतुरस्रं त्रिपत्राब्जं मध्यकोष्ठचतुष्टये ॥०१५॥

त्र्यश्रोर्धे चार्धचन्द्रस्तु द्विपदं द्विगुणं क्रमात् ।
द्विगुणं द्वारकण्ठन्तु द्विगुणादुपकण्ठतः ॥०१६॥

द्वारत्रयं त्रयं दिक्षु अथ वा भद्रके यजेत् ।
स्थण्डिले वाथ संस्याप्य पञ्चगव्यामृतादिना ॥०१७॥

रक्तपुष्पाणि देयानि पूजयित्वा ह्य् उदङ्मुखः ।
शतं हुत्वामृताज्यञ्च पूर्णादः सर्वसिद्धिभाक् ॥०१८॥

बलिन्दत्वा कुमारीश् च तिस्रो वा चाष्ट भोजयेत्2 ।
नैवेद्यं शिवभक्तेषु दद्यान्न स्वयमाचरेत् ॥०१९॥

[[१८१]]
विश्वास-प्रस्तुतिः
कन्यार्थौ लभते कन्यां अपुत्रः पुत्रमाप्नुयात् ।
दुर्भगा चैव सौभाग्यं राजा राज्यं जयं रणे ॥०२०॥

अष्टलक्षैश् च वाक्सिद्धिर्देवाद्या वशमाप्नुयुः ।
न निवेद्य न चास्नीयाद्वामहस्तेन चार्चयेत् ॥०२१॥

अष्टम्याञ्च चतुर्दश्यां तृतीयायां विशेषतः ।
मृत्युञ्चयार्चनं वक्ष्ये पूजयेत् कलसोदरे ॥०२२॥

हूयमानञ्च प्रणवो मूर्तिरोजस ईदृशं ।
मूलञ्च वौषडन्तेन कुम्भमुद्रां प्रदर्शयेत् ॥०२३॥

होमयेत् क्षीरदुर्वाज्यममृताञ्च पुनर्नवाम् ।
पायसञ्च पुराडाशमयुतन्तु जपेन्मनुं ॥०२४॥

चतुर्मुखं चतुर्वाहुं द्वाभ्याञ्च कलसन्दधत् ।
वरदाभयकं द्वाभ्यां स्नायाद्वैकुम्भमुद्रया ॥०२५॥

आरोग्यैश् चर्यदीर्घायुरौषधं मन्त्रितं शुभम् ।
अपमृत्युहरो ध्यातः पूजितो ऽद्भुत एव सः ॥०२६॥

{इत्य् आग्नेये महापुराणे गौर्यादिपूजा नाम पञ्चविंशत्यधिकत्रिशततमो ऽध्यायः ॥ }