३२४ अंशकादिः

{अथ चतुर्विंशत्यधिकत्रिशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

अंशकादिः

ईश्वर उवाच
रुद्राक्षकटकं धार्यं विषमं सुसमं दृडम् ।
एकत्रिपञ्चवदनं यथालाभन्तु धारयेत् ॥००१॥

मूलम्

द्विचतुःषण्मुखं शस्तमव्रणं तीव्रकण्ठकं ।
दक्षवाहौ शिखादौ च धारयेच्चतुराननं ॥००२॥

अब्रह्मचारी ब्रह्मचारी अस्नातः स्नातको भवेत् ।
हैमी वा मुद्रिका धार्या1 शिवमन्त्रेण चार्च्य तु ॥००३॥

:न्

[[१७७]]

विश्वास-प्रस्तुतिः

शिवः शिखा तथा ज्योतिः सवित्रश्चेतिगोचराः ।
गोचरन्तु कुलं ज्ञेयं तेन लक्ष्यस्तु दीक्षितः ॥००४॥

प्राजापत्यो महीपालः कपोतो ग्रन्थिकः शिवे ।
कुटिलाश् चैव वेतालाः पद्महंसाः शिखाकुले ॥००५॥

धृतराष्ट्रा वकाः काका गोपाला ज्योतिसञ्ज्ञके ।
कुटिका साठराश् चैव गुटिका दण्डिनो ऽपरे ॥००६॥

सावित्री गोचरे चैवमेकैकस्तु चतुर्विधः ।
सिद्धाद्यंशकमाख्यास्ये येन मन्त्रःसुसिद्धिदः ॥००७॥

भूमौ तु मातृका लेख्याः कूटषण्डाववर्जिताः ।
मन्त्राक्षराणि विश्लिष्य अनुस्वारं नयेत् पृथक् ॥००८॥

साधकस्य तु या सञ्ज्ञा तस्या विश्लेषणं चरेत् ।
मन्त्रस्यादौ तथा चान्ते साधकार्णानि योजयेत् ॥००९॥

सिद्धः साध्यः सुशिद्धो ऽरिः सञ्ज्ञातो गणयेत् क्रमात् ।
मन्त्रस्यादौ तथा चान्ते सिद्धिदः स्याच्छतांशतः ॥०१०॥

सिद्धादिश्चान्तसिद्धश् च तत्क्षणादेव सिध्यति ।
सुसिद्धादिः सुसिद्धन्तःसिद्धवत् परिकल्पयेत् ॥०११॥

अरिमादौ तथान्ते च दूरतः परिवर्जयेत् ।
सिद्धः सुसिद्धश् चैकार्थे अरिः साध्यस्तथैव च ॥०१२॥

आदौ सिद्धः स्थितो मन्त्रे तदन्ते तद्वदेव हि ।
मध्ये रिपुसहस्राणि न दोषाय भवन्ति हि ॥०१३॥

मायाप्रसादप्रणवेनांशकः ख्यातमन्त्रके ।
ब्रह्मांशको ब्रह्मविद्या विष्ण्वङ्गो1 वैष्णवः
स्मृतः ॥०१४॥

[[१७८]]

विश्वास-प्रस्तुतिः

रुद्रांशको भवेद्वीर इन्द्रांशश्चेश्वरप्रियः ।
नागांशो नागस्तब्धाक्षो यक्षांशो भूषणप्रियः ॥०१५॥

गन्धर्वांशो ऽतिगीतादि भीमांशो राक्षसांशकः ।
दैर्यांशः स्याद् युद्धकार्यो मानी विद्याधरांशकः ॥०१६॥

पिशाचांशो मलाक्रान्तो मन्त्रं दद्यान्निरीक्ष्य च ।
मन्त्र एकात् फडन्तः स्यात् विद्यापञ्चाशतावधि ॥०१७॥

बाला विंशाक्षरान्ता च रुद्रा द्वाविंशगायुधा ।
तत ऊर्ध्वन्तु ये मन्त्रा दृद्धा यावच्छतत्रयं ॥०१८॥

अकारादिहकारन्ताः क्रमात् पक्षौ सितासितौ ।
अनुस्वारविसर्गेण विना चैव स्वरा दश ॥०१९॥

ह्रस्वाः शुक्ला दीर्घाः श्यामांस्तिथयः
प्रतिपम्मुखाः ।
उदिते शान्तिकादीनि भ्रमिते वश्यकादिकम् ॥०२०॥

भ्रामिते सन्धयो द्वेषोच्चाटने स्तम्भने ऽस्तकम् ।
इहावाहे शान्तिकाद्यं पिङ्गले कर्षणादिकम्1 ॥०२१॥

मारणोच्चाटनादीनि विषुवे पञ्चधा पृथक् ।
अधरस्य गृहे पृथ्वी ऊर्ध्वे तेजो ऽन्तरा द्रवः ॥०२२॥

रन्ध्रपार्श्वे वहिर्वायुः सर्वं व्याप्य महेश्वरः ।
स्तम्भनं पार्थिवे शान्तिर्जले वश्यादि तेजसे ।०२३।
वायौ स्याद् भ्रमणं शून्ये पुण्यं कालं समभ्यसेत् ॥०२३॥

{इत्य् आग्नेये महापुराणे अंशकादिर्नाम चतुर्विंशत्यधिकत्रिशततमो ऽध्यायः }

:न्

[[१७९]]

  1. कार्येति ख॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎