{अथ त्रयोविंशत्यधिकत्रिशततमो ऽध्यायः}
रुद्रशान्तिः
ईश्वर उवाच
शिवशान्तिं प्रवक्ष्यामि कल्पाघोरप्रपूर्वकम् ।
सप्तकोट्यधिपो घोरो ब्रह्महत्याद्यघार्दनः1 ॥००१॥
उत्तमाधमसिद्धीणामालयो ऽखिलरोगनुत् ।
दिव्यान्तरीक्षभौमानामुत्पातानां विमर्दनः ॥००२॥
विषग्रहपिशाचानां ग्रसनः सर्वकामकृत् ।
प्रायश्चित्तमघौघार्तौ दौर्भाग्यार्तिविनाशनम् ॥००३॥
एकवीरन्तु विन्यस्य ध्येयः पञ्चमुखः सदा ।
:न्
[[१७४]]
शान्तिके पौष्टिके शुक्लो रक्तो वश्ये ऽथ पीतकः ॥००४॥
स्तम्भने धूम्र उच्चाटमारणे कृष्णवर्णकः ।
कर्षणः कपिलो मोहे द्वात्रिंशद्वर्णमर्चयेत् ॥००५॥
त्रिंशल्लक्षं जपेन्मन्त्रं होमं कुर्याद्दशांशतः ।
गुग्गुलामृतयुक्तेन सिद्धो ऽसिद्धो ऽथ सर्वकृत् ॥००६॥
अघोरान्नापरो मन्त्रो विद्यते भुक्तिमुक्तिकृत् ।
अब्रह्मचारी ब्रह्मचारी अस्नातः स्नातको भवेत् ॥००७॥
अघोरास्त्रमघोरन्तु द्वाविमौ मन्त्रराजकौ ।
जपहोमार्चनाद्युद्धे शत्रुसैन्यं विमर्दयेत् ॥००८॥
रुद्रशान्तिं प्रवक्ष्यामि शिवां सर्वार्थसाधनीं ।
पुत्रर्थं ग्रहनाशार्थं विषव्याधिविनष्टये ॥००९॥
दुर्भिक्षमारीशान्त्यर्थे दुःस्वप्नहरणाय च ।
बलादिराज्यप्राप्त्यर्थं रिपूणां नाशनाय च ॥०१०॥
अकालफलिते वृक्षे सर्वग्रहविमर्दने ।
पूजने तु नमस्कारः स्वाहान्तो हवने तथा ॥०११॥
आप्यायने वषट्कारं पुष्टौ वौषन्नियोजयेत् ।
चकारद्वितयस्थाने1 जातियोगन्तु कारयेत् ॥०१२॥
ॐ रुद्राय च ते ॐ वृषभाय नमः अविमुक्ताय असम्भवाय
पुरुषाय च पूज्याय ईशानाय पौरुषाय पञ्च चोत्तरे
विश्वरूपाय करालाय विकृतरूपाय अविकृतरूपाय
विकृतौ2 चापरे काले अप्सु माया च नैरृते ।
:न्
[[१७५]]
एकापिङ्गलाय श्वेतपिङ्गलाय कृष्णपिङ्गलाय नमः
मधुपिङ्गलाय नमः मधुपिङ्गलाय नियतौ अनन्ताय आद्रार्य
शुष्काय पयोगणाय । कालतत्त्वे । करालाय विकरालाय द्वौ
मायातत्त्वे । सहस्रशीर्षाय सहस्रवक्त्राय सहस्रकरचरणाय
सहस्रलिङ्गाय । विद्यातत्त्वे । सहस्राक्षाद्विन्यसेद् दक्षिणे हले ।
एकजटाय द्विजटाय त्रिजटाय स्वाहा । काराय स्वधाकाराय
वषट्काराय वषट्काराय षड्रुद्राय । ईशतत्त्वे तु
वह्निपत्रे स्थिता गुह । भूतपतये पशुपतये उमापतये कालाधिपतये ।
सदाशिवाध्यक्ष्यतत्त्वे षट् पूज्याः पूर्वदले स्थिताः ।
उमायै कुरूपधारिणि ॐ कुरु २ रुहिणि २ रुद्रोसि देवानां
देवदेवविशाख हन २ दह २ पच २ मथ २ तुरु २ अरु २ सुरु २1
रुद्रशान्तिमनुस्मर कृष्णपिङ्गल
अकालपिशाचाधिपतिविश्वेश्वराय नमः । शिवतत्त्वे कर्णिकायां
पूज्यौ ह्य् उमामहेश्वरौ । ॐ व्योमव्यापिने व्योमरूपाय सर्वव्यापिने
शिवाय अनन्ताय अनाथाय अनाश्रिताय शिवाय । शिवतत्त्वे नव पदानि
व्योमव्याप्यभिधास्यहि । शाश्वताय योगपीठसंस्थिताय नित्यं
योगिने ध्यानाहाराय नमः । ॐ नमःशिवाय सर्वप्रभवे
शिवाय ईशानमूर्धाय तत्पुरुषादिपञ्चवक्त्राय नवपदं
पूर्वदले सदाख्ये पूजयेद्गुह । अघोरहृदयाय वमदेवगुह्याय
सद्योजातमूर्तये । ॐ नमो नमः । गुह्यातिगुह्याय गोप्त्रे अनिधनाय
सर्वयोगाधिकृताय ज्योतीरूपाय अग्निपत्रे हीशतत्त्वे विद्यातत्त्वे द्वे
याम्यगे परमेश्वराय चेतनाचेतन व्योमन व्यपिन प्रथम तेजस्तेजः
मायातत्त्वे नैरृते कालतत्त्वे
:न्
[[१७६]]
।अथ वारुणे । ॐ धृ धृ नाना वां वां अनिधान
निधनोद्भव शिव सर्वपरमात्मन् महादेव सद्भावेश्वर महातेज
योगाधिपते मुञ्च २ प्रमथ २ ॐ सर्व २ ॐ भव २ ॐ भवोद्भव ।
सर्वभूतसुखप्रद वायुपत्रे ऽथ नियतौ पुरुषे चोत्तरेन च ।
सर्वसान्निध्यकर ब्रह्मविष्णुरुद्रपर अनर्चित अस्तुतस्तु च साक्षिन २
तुरु २ पतङ्ग पिङ्ग २ ज्ञान २ शब्द २ सूक्ष्म २ शिव २ सर्वप्रद २
ॐ नमःशिवाय ॐ नमो नमः शिवाय ॐ नमो नमः
ईशाने प्राकृते तत्त्वे पूजयेज्जुहुयाज्जपेत् ।०१३।
ग्रहरोगादिमायार्तिशमनी सर्वसिद्धिकृत् ॥०१३॥
{इत्य् आग्नेये महापुराणे रुद्रशान्तिर्नाम त्रयोविंशत्यधिकत्रिशततमो ऽध्यायः ॥ }