३२२ षडङ्गान्यधोरास्त्राणि

{अथ द्वाविंशत्यधिकत्रिशततमो ऽध्यायः}

षडङ्गान्यघोरास्त्राणि

ईश्वर उवाच
ॐ ह्रूं हंस+इति मन्त्रेण मृत्युरोगादि शास्यति ।
लक्षाहुतिभिर्दूर्वाभिः शान्तिं पुष्टिं प्रसाधयेत् ॥००१॥
अथ वा प्रणवेनैव मायया वा षडानन ।
दिव्यान्तरीक्षभौमानां शान्तिरुत्पातवृक्षके ॥००२॥
ॐ नमो भगवति गन्ङे कालि २ महाकालि २ मांसशोणितभोजने
रक्तकृष्णमुखि वशमानय मानुषान् स्वाहा ॥
ॐ लक्षं जप्त्वा दशांशेन हुत्वा स्यात् सर्वकर्मकृत् ।
वशं नयति शक्रादीन्मानुषेष्वेषु क कथा ॥००३॥
अन्तर्धानकरी विद्या मोहनी जृम्भनी तथा ।
वशन्नयति शत्रूणां शत्रुबुद्धिप्रमोहिनी ॥००४॥
कामधेनुरियं विद्या सप्तधा परिकीर्तिता ।
मन्त्रराजं प्रवक्ष्यामि शत्रुचौरादिमोहनम् ॥००५॥
महाभयेषु सर्वेषु स्मर्तव्यं हरपूजितं ।
लक्षं जप्त्वा तिलैर् होमः सिद्ध्येदुद्धरकं शृणु ॥००६॥
ॐ हले शूले एहि ब्रह्मसत्येन विष्णुसत्येन रुद्रसत्येन रक्ष मां
वाचेश्वराय स्वाहा ॥
दुर्गात्तारयते यस्मात्तेन दुर्गा शिवा मता ।

ॐ चण्डकपालिनि दन्तान् किटि २ क्षिटि २ गुह्ये फट् ह्रीं
अनेन मन्त्रराजेन क्षालयित्वा तु तण्डुलान् ॥००७॥

[[१७१]]

त्रिंशद्वारानि जप्तानि तच्चौरेषु प्रदापयेत् ।
दन्तैश्चूर्णानि शुक्लानि पतितानि हि शुद्धये ॥००८॥

ॐ ज्वलल्लोचन कपिलजटाभारभास्वर विद्रावण त्रैलोक्यडामर २
दर २ भ्रम २ आकट्ट २ तोटय २ मोटय २ दह २ पच २ एवं
सिद्धिरुद्रो ज्ञापयति यदि ग्रहोपगतः स्वर्गलोकं देवलोकं वा
आरामविहाराचलं तथापि तमावर्तयिष्यामि वलिं गृह्ण २
ददामि ते स्वहेति
क्षेत्रपालबलिं दत्वा ग्रहो न्यासाध्रदं व्रजेत् ।
शत्रवो नाशमायान्ति रणे वैरगणक्षयः ॥००९॥
हंसबीजन्तु विन्यस्य विषन्तु1 त्रिविधं हरेत् ।
अगुरुञ्चन्दनं कुष्ठं कुङ्कुमं नागकेशरम् ॥०१०॥
नखं वै देवदारुञ्च समं कृत्वाथ दूपकः ।
माक्षिकेन समायुक्तो देहवस्त्रादिधूपनात् ॥०११॥
विवादे मोहने स्त्रीणां भण्डने कलहे शुभः ।
कन्याया वरणे भाग्येमायामन्त्रेण मन्त्रितः ॥०१२॥
ह्रीं रोचनानागपुष्पाणि कुङ्कुमञ्च महःशिला ।
ललाटे तिलकं कृत्वा यं पश्येत्स वशी भवेत् ॥०१३॥
शतावर्यास्तु चूर्णन्तु दुग्धपीतञ्च पुत्रकृत् ।
नागकेशरचूर्णन्तु घृतपक्वन्तु पुत्रकृत् ॥०१४॥
पालाशवीजपानेन लमेत पुत्रकन्तथा ।

ॐ उत्तिष्ठ चामुण्डे जम्भय २ मोहय २ अमुकं वशमानय २
स्वाहा

:न्

[[१७२]]

षड्विंशा सिद्धविद्या सा नदीतीरमृदा स्त्रियम् ॥०१५॥
कृत्वोन्मत्तरसेनैव नामालिख्यार्कपत्रके ।
मूत्रोत्सर्गन्ततः कृत्वा जपेत्तामानयेत्स्त्रियम् ॥०१६॥

ॐ क्षुंसः वषट्
महामृत्युञ्जयो मन्त्रो जप्याद्धोमाच्च पुष्टिकृत् ।

ॐ हंसः ह्रूं हूं स ह्रः सौम्ः
मृतसञ्जीवनी विद्यां अष्टार्णा जयकृद्रणे ॥०१७॥
मन्त्रा ईशानमुख्याश् च धर्मकामादिदायकाः ।
ईशानः सर्वविद्यानामीश्वरःसर्वभूतानां ॥०१८॥
ब्रह्मणश्चाधिपतिर्ब्रह्म शिवो मे ऽस्तु सदाशिवः ।

ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः
प्रचोदयात्
ॐ अघोरेभ्यो ऽथ घोरेभ्यो धोरहरेभ्यस्तु सर्वतः ॥०१९॥

सर्वेभ्यो नमस्ते रुद्ररूपेभ्यः । ॐ वामदेवाय नमो ज्येष्ठाय
नमः रुद्राय नमः । कालाय नमः कलविकरणाय नमो
बलविकरणाय नमो बलप्रमथनाय नमः । सर्वभूतदमनाय
नमो मनोन्मानाय नमः
ॐ सद्योजातं प्रवक्ष्यामि सद्योजाताय वै नमः ।
भवे भवे ऽनादिभवे भजस्व मां भवोद्भव ॥०२०॥
पञ्चब्रह्माङ्गषट्कञ्च1 वक्ष्ये ऽहं भुक्तिमुक्तिदं ।
ॐ नमः परमात्मने पराय कामदाय परमेश्वराय योगाय
योगसम्भवाय सर्वकराय कुरु २ सत्य २ भव २ भवोद्भव वामदेव
सर्वकार्यकर पापप्रशमन सदाशिव प्रसन्न नमो ऽस्तु ते स्वाहा ॥

:न्

[[१७३]]

हृदयं सर्वार्थदन्तु सप्तत्यक्षरसंयुतं ।०२१।

ॐ शिवः शिवाय नमः शिवः । ॐ हृदये ज्वालिनि स्वाहा
शिखा । ॐ शिवात्मक महातेजः सर्वज्ञ प्रभुरावर्तय
महाघोर कवच पिङ्गल नमः । महाकवच शिवाज्ञया हृदयं
बन्ध २ घूर्णय २ चूर्णय २ सूक्ष्मवज्रधर वज्रपाश
धनुर्वज्राशनिवज्रशरीर मम शरीरमनुप्रविश्य सर्वदुष्टान्
स्तम्भय २ हूं
अक्षराणान्तु कवचं शतं पञ्चाक्षराधिकम् ॥०२१॥
ॐ ओजसे नेत्रं ॐ प्रस्फुर २ तनुरूप २ चट २ प्रचट २ कट २
वम २ घातय २ हूं फट् अघोरास्त्रम् ॥

{इत्य् आग्नेये महापुराणे षडङ्गान्यघोरस्त्राणि नाम द्वाविंशत्यधिकत्रिशततमो ऽध्यायः }


  1. निघ्नान्त्वति ख॥ , छ॥ च ↩︎ ↩︎