{अथैकविंशत्यधिकत्रिशततमो ऽध्यायः}
पाशुपतशान्तिः
ईश्वर उवाच
वक्ष्ये पाशुपतास्त्रेण शान्तिजापादि पूर्वतः ।
पादतःपूर्वनाशो हि फडन्तं चापदादिनुत् ॥००१॥
ॐ नमो भगवते महापाशुपताय अतुलबलवीर्यपराक्रमाय
त्रिपञ्चनयनाय नानारूपाय नानाप्रहरणोद्यताय
सर्वाङ्गरक्ताय भिन्नाञ्जनचयप्रख्याय श्मशानवेतालप्रियाय
सर्वविघ्ननिकृन्तरताय सर्वसिद्धिप्रदाय भक्तानुकम्पिने
असङ्ख्यवक्त्रभुजपादाय तस्मिन्सिद्धाय वेतालवित्रासिने
शाकिनीक्षोभजनकाय व्याधिनिग्रहकारिणे पापभञ्जनाय
सूर्यसोमाग्निनेत्राय विष्णुकवचाय खड्गवज्रहस्ताय
यमदण्डवरुणपाशाय रुद्रशूलाय ज्वलज्जिह्वाय
सर्वरोगविद्रावणाय ग्रहनिग्रहकारिणे दुष्टनागक्षयकारिणे
ॐ कृष्णपिङ्गलाय फट् । हूङ्कारास्त्राय फट् ।
वज्रहस्ताय फट् । शक्तये फट् । दण्डाय फट् । यमाय फट् ।
खड्गाय फट् । वारुणाय फट् । पाशाय फट् । ध्वजाय फट् । अङ्कुशाय फट् । गदायै फट् । कुवेराय फट् । त्रिशूलाय फट् । मुद्गराय फट् । चक्राय फट् । पद्माय फट् । नागास्त्राय फट् ।
ईशानाय फट् । खेटकास्त्राय फट् । मुण्डास्त्राय फट् ।
कङ्कालास्त्राय फट् । पिच्छिकास्त्राय फट् । क्षुरिकास्त्राय फट् ।
ब्रह्मास्त्राय फट् । शक्त्यस्त्राय फट् । गणास्त्राय फट् ।
पिलिपिच्छास्त्राय फट् । गन्धर्वास्त्राय फट् । मूर्वास्त्राय फट् ।
दक्षिणास्त्राय फट् । वामास्त्राय फट् । पश्चिमास्त्राय फट् ।
मन्त्रास्त्राय फट् । शाकिन्यस्त्राय
[[१६९]]
फट् । योगिन्यस्त्राय फट् । दण्डास्त्रय फट् । सहादण्डास्त्राय
फट् । नानास्त्राय फट् । शिवास्त्राय फट् । ईशानास्त्राय फट् । पुरुषास्त्राय फट् । अघोरास्त्राय फट् । सद्योजातास्त्राय फट् ।
हृदयास्त्राय फट् । महास्त्राय फट् । गुरुडास्त्राय फट् ।
रक्षसास्त्राय फट् । दानवास्त्राय फट् । क्षौं
नरसिंहास्त्राय फट् । त्वष्ट्रस्त्राय फट् । सर्वास्त्राय फट् ।
नः फट् । वः फट् । पः फट् । फः फट् । मः फट् ।
श्री फट् । फेः फट् । भूः फट् । भुवः फट् । स्वः
फट् । जनः फट् । तपः फट् । सर्वलोक फट् । सर्वपाताल फट् । सर्वतत्त्व फट् । सर्वप्राण फट् । सर्वनाडी फट् । सर्वकारण
फट् । सर्वदेव फट् । ह्रीं फट् । श्रीं फट् । हूं फट् ।
स्त्रुं फट् । स्वां फट् । लां फट् । वैराग्याय फट् ।
मायास्त्राय फट् । कामास्त्राय फट् । क्षेत्रपालास्त्राय फट् ।
हूङ्कारास्त्राय फट् । भास्करास्त्राय फट् । चन्द्रास्त्राय फट् ।
विघ्नेश्वरास्त्राय फट् । ख्रों ख्रौं फट् । ह्रौं ह्रों फट् ।
भ्रामय २ फट् । छादय २ फट् । उन्मूलय २ फट् । त्रासय २ फट् ।
सञ्जीवय २ फट् । विद्रावय २ फट् । सर्वदुरितं नाशय २ फट् ॥
सकृदावर्तनादेव सर्वविघ्नान् विनाशयेत् ।
शतावर्तेन चोत्पातान्रणादौ विजयो भवेत् ॥००२॥
घृतगुग्गुलुहोमाच्च असाध्यानपि1 साधयेत् ।
पठनात्सर्वशान्तिः स्यच्छस्त्रपाशुपतस्य च ॥००३॥
{इत्य् आग्नेये महापुराणे पाशुपतशान्तिर्नामैकविंशत्यधिकत्रिशततमो ऽध्यायः }
:न्
[[१७०]]
-
असाध्यमपीति ख॥ ↩︎