३२० अघोरास्त्रादिशान्तिकल्पः

{अथ विंशत्यधिकत्रिशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

अघीरास्त्रादिशान्तिकल्पः

ईश्वर उवाच
अस्त्रयागः पुरा कार्यः सर्वकर्मसु सिद्धिदः ।
मध्ये पूज्यं शिवाद्यस्त्रं वज्रादीन् पूर्वतः क्रमात् ॥००१॥

मूलम्

पञ्चचक्रं दशकरं रणादौ पूजितं जये ।
ग्रहपूजा रविर्मध्ये पूर्वाद्याः सोमकादयः ॥००२॥

सर्व एकादशस्थास्तु ग्रहाः स्युः ग्रहपूजनात् ।
अस्त्रशान्तिं प्रवक्ष्यामि सर्वोत्पातविनाशिनीं ॥००३॥

ग्रहरोगादिशमनीं मारीशत्रुविमर्दनीं ।
विनायकोपतप्तिघ्नमघोरास्त्रं जपेन्नरः ॥००४॥

लक्षं ग्रहादिनाशः स्यादुत्पाते तिलहोमनम् ।
दिव्ये लक्षं तदर्धेन व्योमजोत्पातनाशनं ॥००५॥

घृतेन लक्षपातेन उत्पाते भुमिजे हितम् ।
घृतगुग्गुलुहोमे च सर्वोत्पातादिमर्दनम् ॥००६॥

[[१६७]]

विश्वास-प्रस्तुतिः

दूर्वाक्षताज्यहोमेन व्याधयो ऽथ घृतेन च ।
सहस्रेण तु दुःखस्वप्ना विनशन्ति न संशयः ॥००७॥

अयुताद् ग्रहदोषघ्नो जवाघृतविमिश्रितात् ।
विनायकार्तिशमनमयुतेन घृतस्य च ॥००८॥

भूतवेदालशान्तिस्तु गुग्गुलोरयुतेन च ।
महावृक्षस्य भङ्गेतु व्यालकङ्के1 गृहे स्थिते ॥००९॥

आरण्यानां प्रवेशे दूर्वाज्याक्षतहावनात् ।
उल्कापाते भूमिकम्पे तिलाज्येनाहुताच्छिवम् ॥०१०॥

रक्तस्रावे तु वृक्षाणामयुताद् गुग्गुलोः शिवं ।
अकाले फलपुष्पाणां राष्ट्रभङ्गे च मारणे ॥०११॥

द्विपदादेर्यदा मारि लक्षार्धाच्च तिलाज्यतः ।
हस्तिमारीप्रशान्त्यर्थं करिणीदन्तवर्धने ॥०१२॥

हस्तिन्यां मददृष्टौ च अयुताच्छान्तिरिष्यते ।
अकाले गर्भपाते तु जातं यत्र विनश्यति ॥०१३॥

विकृता यत्र जायन्ते यात्राकाले ऽयुतं हुनेत् ।
तिलाज्यलक्षहोमन्तु उत्तमासिद्धिसाधने ॥०१४॥

मध्यमायां तदर्धेन तत्पादादधमासु च ।
यथा जपस् तथा होमः सङ्ग्रामे विजयो भवेत् ।०१५।
अघोरास्त्रं जपेन्न्यस्य ध्यात्वा पञ्चास्यमूर्जितम् ॥०१५॥

{इत्य् आग्नेये महापुराणे अघोरास्त्रादिशान्तिकल्पे नाम विंशत्यधिकत्रिशततमो ऽध्यायः ॥ }

:न्

[[१६८]]

  1. व्यालकाके इति ख॥ ↩︎ ↩︎