{अथोनविंशत्यधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
मण्डलानि
ईश्वर उवाच
सर्वतो भद्रकान्यष्टमण्डलानि वदे गुह ।
शक्तिमासाधयेत् प्राचीमिष्टायां विषुवे सुधीः ॥००१॥
मूलम्

चित्रास्वात्यन्तरेणाथ दृष्टसूत्रेण वा पुनः ।
पूर्वापरायतं सूत्रमास्फाल्य मध्यतो ऽङ्कयेत् ॥००२॥

:न्
[[१६२]]
विश्वास-प्रस्तुतिः
कोटिद्वयन्तु तन्मध्यादङ्कयेद्दक्षिणोत्तरम् ।
मध्ये द्वयं प्रकर्तव्य स्फालयेद्दक्षिनोत्तरम् ॥००३॥

शतक्षेत्रार्धमानेन कोणसम्पातमादिशेत् ।
एवं सूत्रचतुष्कस्य स्फालनाच्चतुरस्रकम् ॥००४॥

जायते तत्र कर्तव्यं भद्रस्वेदकरं शुभम् ।
वसुभक्तेन्दु द्विपदे क्षेत्रे वीथी च भागिका ॥००५॥

द्वारं द्विपदिकं पद्ममानाद्धै सकपोलकम् ।
कीणबन्धविचित्रन्तु द्विपदं तत्र वर्तयेत् ॥००६॥

शुक्लं पद्मं कर्णिका तु पीता चित्रन्तु केशरम् ।
रक्ता वीथी तत्र कल्प्या द्वारं लोकेशरूपकं ॥००७॥

रक्तकोणं विधौ नित्ये नैमित्तिकाब्जकं शृणु ।
असंसक्तन्तु संसक्तं द्विधाब्जं भुक्तिमुक्तिकृत् ॥००८॥

असंसक्तं मुमुक्षूणां संसक्तं तत्त्रिधा पृथक् ।
बालो युवा च वृद्धश् च नामतः फलसिद्धिदाः ॥००९॥

पद्मक्षेत्रे तु सूत्राणि दिग्विदिक्षु विनिक्षिपेत् ।
वृत्तानि पञ्चकल्पानि पद्मक्षेत्रसमानि तु ॥०१०॥

प्रथमे कर्णिका तत्र पुष्करैर् नवभिर्युता ।
केशराणि चतुर्विंशद्वितीये ऽथ तृतीयके ॥०११॥

दलसन्धिर्गजकुम्भ निभान्तर्यद्दलाग्रकम् ।
पञ्चमे व्योमरूपन्तु संसक्तं कमलं स्मृतं ॥०१२॥

असंसक्ते दलाग्रे तु दिग्भागैर् विस्तराद्भजेत् ।
भागद्वयपरित्यागाद्वस्वंशैर् वर्तयेद्दलम् ॥०१३॥

[[१६३]]
विश्वास-प्रस्तुतिः
सव्यासव्यक्रमेणैव वृद्धमेतद्भवेत्तथा ॥०१४॥

अथ वा सन्धिमध्यात्तु भ्रामयेदर्धचन्द्रवत् ।
सन्धिद्वयाग्रसूत्रं वा बालपद्मन्तथा भवेत् ॥०१५॥

सन्धिसूत्रार्धमानेन पृष्ठतः परिवर्तयेत् ।
तीक्ष्णाग्रन्तु सुवातेन कमलं भुक्तिमुक्तिदम् ॥०१६॥

भुक्तिवृद्धौ च वश्यादौ बालं पद्मं समानकं ।
नवनाभं नवहस्तं भागैर् मन्त्रात्मकैश् च तत् ॥०१७॥

मध्ये ऽब्जं पट्टिकावीजं द्वारेणाब्जस्य मानतः ।
कण्ठोपकण्ठमुक्तानि तद्वाह्ये वीथिका मता ॥०१८॥

पञ्चभागान्विता1 सा तु समन्ताद्दशभागिका ।
दिग्विदिक्ष्वष्ट पद्मानि द्वारपद्मं सवीथिकम् ॥०१९॥

तद्वाह्ये पञ्च पदिका वीथिका यत्र भूषिता ।
पद्मवद्द्वारकण्ठन्तु पदिकञ्चौष्ठकण्ठकं ॥०२०॥

कपोलं पदिकं कार्यं दिक्षु द्वारत्रयं स्पुटम् ।
कोणबन्धं त्रिपत्तन्तु द्विपट्टं वज्रवद्भवेत् ॥०२१॥

मध्यन्तु कमलं शुक्लं पीतं रक्तञ्च नीलकम् ।
पीतशुक्लञ्च धूम्रञ्च रक्तं पीतञ्च मुक्तिदम् ॥०२२॥

पूर्वादौ कमलान्यष्ट शिवविष्ण्वादिकं जपेत् ।
प्रासादमध्यतो ऽभ्यर्च्य शक्रादीनब्जकादिषु ॥०२३॥

अस्त्राणि वाह्यवीथ्यान्तु विष्ण्वादीनश्वमेघभाक् ।
पवित्रारोहणादौ च महामण्डलमालिखेत् ॥०२४॥

[[१६४]]
विश्वास-प्रस्तुतिः
द्विपदं कमलं मध्ये वीथिका पदिका ततः ॥०२५॥

दिग्विदिक्षु ततो ऽष्टौ च नीलाब्जानि विवर्तयेत् ।
मध्यपद्मप्रमाणेन त्रिंशत्पद्मानि तानि तु ॥०२६॥

दलसन्धिविहीनानि नीलेन्दीवरकानि च ।
तत्पृष्ठे पदिका वीथी स्वस्तिकानि तदूर्ध्वतः ॥०२७॥

द्विपदानि तथा चाष्टौ कृतिभागकृतानि तु ।
वर्तयेत् स्वस्तिकांस्तत्र वीथिका पूर्ववद्वहिः ॥०२८॥

द्वाराणि कमलं यद्वदुपकण्ठ्युतानि1 तु ।
रक्तं कोणं पीतवीथी नीलं पद्मञ्चमण्डले ॥०२९॥

स्वस्तिकादि विचित्रञ्च सर्वकामप्रदं गुह ।
पञ्चाब्जं पञ्चहस्तं स्यात् समन्ताद्दशभाजितम् ॥०३०॥

द्विपदं कमलं वीथी पट्टिका दिक्षु पङ्कजम् ।
चतुष्कं पृष्ठतो वीथी पदिका द्विपदान्यथा ॥०३१॥

कण्ठोपकण्ठयुक्तानि द्वारान्यब्जन्तु मध्यतः ।
पञ्चाब्जमण्डले ह्य् अस्मिन् सितं पीतञ्च पूर्वकम् ॥०३२॥

वैदूर्याभं दक्षिणाब्जं कुन्दाभं वारुणं कजम् ।
उत्तराब्जन्तु शङ्खाभमन्यत् सर्वं विचित्रकम् ॥०३३॥

सर्वकामप्रदं वक्ष्ये दशहस्तन्तु मण्डलम् ।
विकारभक्तन्तुर्याश्रं द्वारन्तु द्विपदं भवेत् ॥०३४॥

मध्ये पद्मं पूर्ववच्च विघ्नध्वंसं वदाम्यथ ।
चतुर्हस्तं पुरं कृत्वा वृत्रञ्चैव करद्वयम् ॥०३५॥

[[१६५]]
विश्वास-प्रस्तुतिः
हस्तमात्राणि द्वाराणि विक्षु वृत्तं सपद्मकम् ॥०३६॥

पद्मानि पञ्च शुक्लानि मध्ये पूज्यश् च निष्कलः ।
हृदयादीनि पूर्वादौ विदिक्ष्वस्त्राणि वै यजेत् ॥०३७॥

प्राग्वच्च पञ्च ब्रह्माणि बुद्ध्याधारमतो वदे ।
शतभागे तिथिभागे पद्मं लिङ्गाष्टकं दिशि ॥०३८॥

मेखलाभागसंयुक्तं कण्ठं द्विपदिकं भवेत् ।
आचार्यो बुद्धिमाश्रित्य कल्पयेच्च लतादिकम् ॥०३९॥

चतुःषट्पञ्चमाष्टादि खाछिखाद्यादि मण्डलम् ।
खाक्षीन्दुसूर्यगं सर्वं खाक्षि चैवेन्दुवर्णनात् ॥०४०॥

चत्वारिंशदधिकानि चतुर्दशशतानि हि ।
मण्डलानि हरेः शम्भोर्देव्याः सूर्यस्य सन्ति च ॥०४१॥

दशसप्तविभक्ते तु लतालिङ्गोद्भवं शृणु ।
दिक्षु पञ्चत्रयञ्चैकं त्रयं पञ्च च लोमयेत्1 ॥०४२॥

ऊर्ध्वगे द्विपदे लिङ्गमन्दिरं पार्श्वकोष्ठयोः ।
मध्येन द्बिपदं पद्ममथ चैकञ्च पङ्कजं ॥०४३॥

लिङ्गस्य पार्श्वयोर्भद्रे पदद्वारमलोपनात् ।
तत्पार्श्वशोभाः षड्लोप्य लताः शेषास् तथा हरेः ॥०४४॥

ऊर्ध्वं द्विपदिकं लोप्य हरेर्भद्राष्टकं स्मृतम् ।
रश्मिमानसमायुक्तवेदलोपाच्च शोभिकम् ॥०४५॥

पञ्चविंशतिकं पद्मं ततः पीठमपीठकम् ।
द्वयं द्वयं रक्षयित्वा उपशोभास् तथाष्ट च ॥०४६॥

[[१६६]]
विश्वास-प्रस्तुतिः
मध्ये नवपदं पद्मं कोणे भद्रचतुष्टयम् ॥०४७॥

त्रयोदशपदं शेषं बुद्ध्याधारन्तु मण्डलं ।
शतपत्रं षष्ट्यधिकं बुद्ध्याधारं हरादिषु ॥०४८॥

{इत्य् आग्नेये महापुराणे मण्डलानि नामोनविंशत्यधिकत्रिशततमो ऽध्यायः }