{अथाष्टादशाधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
वागीश्वरीपूजा
ईश्वर उवाच
वागीश्वरीपूजनञ्च प्रवदामि समण्डलम् ।
ऊहकं कालसंयुक्तं मनुं वर्णसमायुतम्1 ॥००१॥
मूलम्

निषाद ईश्वरं कार्यं मनुना चन्द्रसूर्यवत् ।
अक्षरन्न हि देयं स्यात् ध्यायेत् कुन्देन्दुसन्निभां ॥००२॥

पञ्चाशद्वर्णमालान्तु मुक्तास्रग्दामभूषिताम् ।
वरदाभयाक्षसूत्रपुस्तकाढ्यां त्रिलोचनां ॥००३॥

लक्षं जपेन्मस्तकान्तं स्कन्धान्तं वर्णमालिकां ।
अकारादिक्षकारान्तां विशन्तीं मानवत् स्मरेत् ॥००४॥

कुर्याद् गुरुश् च दीक्षार्थं मन्त्रग्राहे तु मण्डलम् ।
सूर्याग्रमिन्दुभक्तन्तु भागाभ्यां कमलं हितं2 ॥००५॥

:न्
[[१६१]]
विश्वास-प्रस्तुतिः
वीथिका पदिका कर्या पद्मान्यष्टौ चतुष्पदे ।
वीथिका पदिका वाह्ये द्वाराणि द्विपदानि तु ॥००६॥

उपद्वाराणित द्वच्च कोणबान्धं द्विपट्टिकम्1 ।
सिदानि नव पद्मानि कर्णिका कनकप्रभा ॥००७॥

केशराणि विचित्राणि कोणान्रक्तेन पूरयेत् ।
व्योमरेखान्तरं कृष्णं द्वाराणीन्द्रेभमानतः ॥००८॥

मध्ये सरस्वतीं पद्मे वागीशी पूर्वपद्मके ।
हृल्लेखा चित्रवागीशी गायत्री विश्वरूपया ॥००९॥

शाङ्करी मतिर्धृतिश् च पूर्वाद्या ह्रीं स्ववीजकाः ।
ध्येया सरस्वतीवच्च कपिलाज्येन होमकः ।०१०।
संस्कृतप्राकृतकविः काव्यशास्त्रादिविद्भवेत् ॥०१०॥

{इत्य् आग्नेये महापुराणे वागीश्वरीपूजा नामाष्टादशाधिकत्रिशततमो ऽध्यायः }