{अथ सप्तदशाधिकत्रिशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
गणपूजा
इश्वर उवाच
विश्वरूपं समुद्धृत्य तेजस्युपरि संस्थितम् ।
नरसिंहं ततो ऽधस्तात् कृतान्तं तदधो न्यसेत् ॥००१॥
मूलम्

प्रणवं तदधःकृत्वा ऊहकं तदधः पुनः ।
अंशुमान् विश्वमूर्तिस्थं कण्ठोष्ठप्रणवादिकम् ॥००२॥

नमो ऽन्तः स्याच्चतुर्वर्णो विश्वरूपञ्च कारणम् ।
सूर्यमात्राहतं ब्रह्मण्यङ्गानीह तु पूर्ववत्1 ॥००३॥

उद्धरेत् प्रणवं पूर्वं प्रस्फुरद्वयमुच्चरेत् ।
घोरघोरतरं पश्चात् तत्र रूपमतः स्मरेत् ॥००४॥

चटशब्दं द्विधा कृत्वा ततः प्रवरमुच्चरेत् ।
दहेति च द्विधा कार्यं वमेति च द्विधा गतम्2 ॥००५॥

घातयेति द्विधाकृत्य हूम्फडन्तं समुच्चरेत् ।
अघोरास्त्रन्तु नेत्रं स्याद् गायत्री चोच्यते ऽधुना ॥००६॥

तन्महेशाय विद्महे महादेवाय धीमहि ।००६*
तत्रः शिवः प्रचोदयात् गायत्री सर्वसाधनी ॥००६*१।
यात्रायां विजयादौ च यजेत् पूर्वङ्गणं श्रिये ।
तुर्यांशे तु पुरा क्षेत्रे समन्तादर्कभाजिते ॥००७॥

:न्
[[१५९]]
विश्वास-प्रस्तुतिः
तत्पृष्ठे पदिकाविथीभागि त्रिदलमश्वयुक् ॥००८॥

वसुदेवसुतैः साब्जैस्तिदलैः पादपट्टिका ।
तदूर्ध्वे वेदिका देया भगमात्रप्रमाणतः ॥००९॥

द्वारं पद्ममितं कोष्ठादुपद्वारं विवर्णितम् ।
द्वारोपद्वाररचितं मण्डलं विघ्नसूदनम् ॥०१०॥

आरक्तं कमलं मध्ये वाह्यपद्मानि तद्वहिः ।
सिता तु वीथिका कार्या द्वाराणि तु यथेच्छया ॥०११॥

कर्णिका पीतवर्णा स्यात् केशराणि तथा पुनः ।
मण्डलं विघ्नमर्दाख्यं मध्ये गणपतिं यजेत् ॥०१२॥

नामाद्यं सवराकं स्याद्देवाच्छक्रसमन्वितम् ।
शिरो हतं तत्पुरुषेण ओमाद्यञ्च नमो ऽन्तकम् ॥०१३॥

गजाख्यं गजशीर्षञ्च गाङ्गेयं गणनायकम् ।
त्रिरावर्तङ्गगनगङ्गोपतिं पूर्वपङ्क्तिगम् ॥०१४॥

विचित्रांशं महाकायं लम्बोष्ठं लम्बकर्णकम् ।
लम्बोदरं महाभागं विकृतं पार्वतीप्रियम् ॥०१५॥

भयावहञ्च भद्रञ्च भगणं भयसूदनम् ।
द्वादशैते दशपङ्क्तौ देवत्रासञ्च पश्चिमे ॥०१६॥

महानादम्भास्वरञ्च विघ्नराजं गणाधिपम् ।
उद्भटस्वानभश् चण्डौ महाशुण्डञ्च भीमकम् ॥०१७॥

मन्मथं मधुसूदञ्च सुन्दरं भावपुष्टकम् ।
सौम्ये ब्रह्मेश्वरं ब्राह्मं मनोवृत्तिञ्च संलयम् ॥०१८॥

लयं दूत्यप्रियं लौल्यं विकर्णं वत्सलं तथा ।
कृतान्तं कालदडण्च यजेत् कुम्भञ्च पूर्ववत् ॥०१९॥

[[१६०]]
विश्वास-प्रस्तुतिः
श्रयुतञ्च जपेन्मन्त्रं होमयेत्तु दशांशतः ।
शेषाणान्तु दशाहुत्या जपाद्धोमन्तु कारयेत् ॥०२०॥

पूर्णां दत्वाभिषेकन्तु कुर्यात्सर्वन्तु सिध्यति ।
भूगो ऽश्वगजवस्त्राद्यैर् गुरुपूजाञ्चरेन्नरः ॥०२१॥

{इत्य् आग्नेये महापुराणे गणपूजा नाम सप्तदशाधिकत्रिशततमो ऽध्यायः }