{अथ षोडशाधिकत्रिशततमो ऽध्यायः}
सकलादिमन्त्रोद्धारः
विश्वास-प्रस्तुतिः
ईश्वर उवाच
सकलं निष्कलं शून्यं कलाढ्यं स्वमलङ्कृतम् ।
क्षपणं क्षयमन्तस्थं कण्ठोष्ठं चाष्टमं
शिवम् ॥००१॥
मूलम्

:न्
[[१५५]]
विश्वास-प्रस्तुतिः
सदाशिवस्य शब्दस्य रूपस्याखिलसिद्धये ॥००२॥

अमृतश्चांशुभांश्चेन्दुश्चेश्वरश्चोग्र ऊहकः ।
एकपादेन ओजाख्य औषधश्चांशुमान् वशी ॥००३॥

अकारादेः क्षकारश् च ककारादेः क्रमादिमे ।
कामदेवः शिखण्डी च गणेशः कालशङ्करौ ॥००४॥

एकनेत्रो द्विनेत्रश् च त्रिशिखो दीर्घबाहुकः1 ।
एकपादर्धचन्द्रश् च बलपो योगिनीप्रियः ॥००५॥

शक्तीश्वरो महाग्रन्थिस्तर्पकः स्थाणुदन्तुरौ ।
निधीशो नन्दी पद्मश् च तथान्यः शाकिनीप्रियः ॥००६॥

सुखविम्बो भीषनश् च कृतान्तः प्राणसञ्ज्ञकः ।
तेजस्वी शक्र उदधिः श्रीकण्ठः सिम्ह एव च ॥००७॥

शशाङ्को विश्वरूपश् च क्षश् च स्यान्नरसिंहकः ।
सूर्यमात्रासमाक्रान्तं विश्वरूपन्तु कारयेत् ॥००८॥

अंशुमत्संयुतं कृत्वा शशिवीजं विनायुतम् ।
ईशानमोजसाक्रान्तं प्रथमन्तु समुद्धरेत् ॥००९॥

तृतीयं पुरुषं विद्धि दक्षिणं पञ्चमं तथा ।
सप्तमं वामदेवन्तु सद्योजातन्ततःपरं ॥०१०॥

रसयुक्तन्तु नवमं ब्रह्मपञ्चपञ्चकमीरितम् ।
ओङ्काराद्याश् चतुर्थ्यन्ता नमोन्ताः सर्वमन्त्रकाः ॥०११॥

सद्योदेवा द्वितीयन्तु हृदयञ्चाङ्गसंयुतम् ।
चतुर्थन्तु शिरो विद्धि ईश्वरन्नामनामतः ॥०१२॥

[[१५६]]
विश्वास-प्रस्तुतिः
तन्मन्त्रमष्टमं ख्यातं नेत्रन्तु दशमं मतम् ॥०१३॥

अस्त्रं शशी समाख्यातं शिवसञ्ज्ञं शिखिध्यजः ।
नमः स्वाहा तथा वौषत् हूं च फत्कक्रमेण तु ॥०१४॥

जातिफट्कं हृदादीनां प्रासादं मन्त्रमावदे1 ।
ईशानाद्रुद्रसङ्ख्यातं प्रोद्धरेच्चांशुरञ्जितम् ॥०१५॥

औषधाक्रान्तशिरसमूहकस्योपरिस्थितं ।
अर्धचन्द्रोर्धनादश् च विन्दुद्वितयमध्यगं ॥०१६॥

तदन्ते विश्वरूपन्तु कुटिलन्तु त्रिधा ततः ।
एवं प्रासादमन्त्रश् च सर्वकर्मकरो मनुः ॥०१७॥

शिखावीजं समुद्धृत्य फट्कारान्तन्तु चैव फट् ।
अर्धचन्द्रासनं ज्ञेयं कामदेवं ससर्पकम् ॥०१८॥

महापाशुपतास्त्रन्तु सर्वदुष्टप्रमर्दनम् ।
प्रासादः सकलः प्रोक्तो निष्कलः प्रोच्यते ऽधुना ॥०१९॥

औषधं विश्वरूपन्तु रुद्राख्यं सूर्यमण्डलम् ।
चन्द्रार्धं नादसंयोगं2 विसञ्ज्ञं कुटिलन्ततः ॥०२०॥

निष्कलो भुक्तिमुक्तौ स्यात्पञ्चाङ्गो ऽयं सदाशिवः ।
अंशुमान् विश्वरूपञ्च आवृतं शून्यरञ्जितम् ॥०२१॥

ब्रह्माङ्गरहितः शून्यस्तस्य मूर्तिरसस्तरुः ।
विघ्ननाशाय भवति पूजितो बालबालिशैः ॥०२२॥

अंशुमान् विश्वरूपाख्यमूहकस्योपरि स्थितम् ।
कलाढ्यं सकलस्यैव पूजाङ्गादि च सर्वतः ॥०२३॥

[[१५७]]
विश्वास-प्रस्तुतिः
अंशुमानूहकाक्रान्तमधोर्धं स्वसलङ्घृतम् ॥०२४॥

चन्द्रार्धनादनादान्तं ब्रह्मविष्णुविभूशित ।
उदधिं नरसिंहञ्च सूर्यमात्राविभेदितम् ॥०२५॥

यदा कृतं तदा तस्य ब्रह्माण्यङ्गानि पूर्ववत् ।
ओजाख्यमंशुमद्युक्तं प्रथमं वर्णमुद्धरेत् ॥०२६॥

अशुमच्चांशुनाक्रान्तं द्वितीयं वर्णनायकम् ।
अंशुमानीश्वरन्तद्वत् तृतीयं मुक्तिदायकम् ॥०२७॥

ऊहकञ्चांशुनाक्रान्तं वरुणप्रानतैजसम् ।
पञ्चमन्तु समाख्यातं कृतान्तन्तु ततः परम् ॥०२८॥

अंशुमानुदकप्राणः सप्तमं वर्णमुद्धृतम् ।
पद्ममिन्दुसमाक्रान्तं नन्दीशमेकपादधृक् ॥०२९॥

प्रथमञ्चान्ततो योज्यं क्षपणं दशवीजकम् ।
अस्यार्धं तृतीयञ्चैव पञ्चमं सप्तमं तथा ॥०३०॥

सद्योजातन्तु नवमं द्वितीयाद्धृदयादिकम् ।
दशार्णप्रणवं यत्तु फडन्तञ्चास्त्रमुद्धरेत् ॥०३१॥

नमस्कारयुतान्यत्र ब्रह्माङ्गानि तु नान्यथा ।
द्वितीयादष्टौ यावदष्टौ विद्येश्वरा मताः ॥०३२॥

अनन्तेशश् च सूक्ष्मश् च तृतीयश् च शिवोक्तमः ।
एकमूर्च्येकरूपस्तु त्रिमूर्तिरपरस् तथा ॥०३३॥

श्रीकण्ठश् च शिखण्डी च अष्टौ
विद्येश्वराःस्मृताः ।
शिखण्डिनो ऽप्यनन्तान्तं मन्त्रान्तं मूर्तिरीरिता ॥०३४॥

{इत्य् आग्नेये महापुराणे सकलादिमन्त्रोद्धारो नाम षोडशाधिकत्रिशततमो ऽध्यायः }
[[१५८]]